कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

थान्तवर्गः · थत्रिकम्

थत्रिकम्

अतिथिः कुशपुत्रे स्यात्पुमानागन्तुके त्रिषु ॥ १४ ॥
17.3.14 · p. 73
अश्वत्थः पिप्पलद्रौ स्यादश्वत्था पूर्णिमातिथौ ।अव्यथो निर्व्यथे सर्पे चारटीपथ्ययोः स्त्रियाम् ॥ १५ ॥
17.3.15 · p. 73
अनुष्टुप्
उन्माथः कूटयन्त्रे स्यान्मारणे घातके पुमान् ।उपस्थः शेफसि क्रोडे तथा मदनमन्दिरे ॥ १६ ॥
17.3.16 · p. 73
अनुष्टुप्
उद्रथो रथकीले स्यात्ताम्रचूडाख्यपक्षिणि ।क्षवथुर्ना क्षुते कासे कायस्थः परमात्मनि ॥ १७ ॥
17.3.17 · p. 73
अनुष्टुप्
नरजातिविशेषे ना हरीतक्यां तु योषिति ।कापथः कुत्सितपथे उशीरे क्लीबमिष्यते ॥ १८ ॥
17.3.18 · p. 73
अनुष्टुप्
गोग्रन्थिर्ना करीषे स्याद् गोष्ठगोजिह्विकौषधौ ।दमथस्तु पुमान् दण्डे दामे च परिकीर्तितः ॥ १९ ॥
17.3.19 · p. 73
अनुष्टुप्
निशीथस्तु पुमानर्धरात्रे स्याद्रात्रिमात्रके ।निर्ग्रन्थो नग्नकेऽपि स्यान्निःस्वबालिशयोरपि ॥ २० ॥
17.3.20 · p. 73
अनुष्टुप्
प्रमथा स्याद्धरीतक्यां हरपारिषदे पुमान् ।वरूथो रथगुप्तौ स्यात् वरूथं चर्मवेश्मनोः ॥ २१ ॥
17.3.21 · p. 73
अनुष्टुप्
मन्मथः कामचिन्तायां कपित्थे कुसुमायुधे ।वयस्था तु स्त्रियां ब्राह्मीगुडूच्यामलकीषु च ॥ २२ ॥
17.3.22 · p. 73
अनुष्टुप्
सूक्ष्मैलायां च काकोल्यां पथ्या(१)लीतरुणे त्रिषु ।वमथुः पुंसि वमने गजस्य करशीकरे ॥ २३ ॥
17.3.23 · p. 73
अनुष्टुप्
विदथो योगिकृतिनोः शमथः शान्तिमन्त्रिणोः ।षड्ग्रन्था तु वचायां स्त्री स्यात्करञ्जान्तरे पुमान् ॥ २४ ॥
17.3.24 · p. 73
अनुष्टुप्
समर्थस्तु हिते शक्ते सम्बद्धेऽप्यन्यलिङ्गकः ।सिद्धार्थस्तु पुमान् शाक्यसिंहे च सितसर्षपे ॥ २५ ॥
17.3.25 · p. 73
अनुष्टुप्