All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
कान्तवर्गः · कत्रिकम् (1/2)
कत्रिकम्
अशोकस्त्रिषु निःशोके पुंसि कङ्केल्लिपादपे ।स्त्रियां तु कटुरोहिण्यां पारदे स्यान्नपुंसकम् ॥ ४० ॥
1.3.40 · p. 4
अनुष्टुप्
अलका कुबेरपुर्यामस्त्रियां चूर्णकुन्तले ।अभीकः कामुके क्रूरे निर्भये त्रिषु ना कवौ ॥ ४१ ॥
1.3.41 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 कु (wrong syllable)
अनीकोऽस्त्री रणे सैन्येऽप्यणुको निपुणाल्पयोः ।अलीकमप्रियेऽपि स्याद्दिव्यसत्ये नपुंसकम् ॥ ४२ ॥
1.3.42 · p. 4
अनुष्टुप्
अनूकं तु कुले शीले पुंसि स्याद्गतजन्मनि ।अंशुकं श्लक्ष्णवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः ॥ ४३ ॥
1.3.43 · p. 4
अनुष्टुप्
अन्तिकं निकटे वाच्यलिङ्गं स्त्री शातलौषधौ ।चुल्ल्यां ज्येष्ठभगिन्यां च नाट्योक्त्यां कथ्यतेऽन्तिका ॥ ४४ ॥
1.3.44 · p. 4
अनुष्टुप्
अलर्को धवलार्के स्याद्योगोन्मादितकुक्कुरे ।अम्बिका पार्वतीमात्रोर्धृतराष्ट्रस्य मातरि ॥ ४५ ॥
1.3.45 · p. 4
अनुष्टुप्
अन्धिका द्यूतभेदे च रजन्यामपि योषिति ।अम्लिका तिन्तिडीकाम्लोद्गारचाङ्गेरिकासु च ॥ ४६ ॥
1.3.46 · p. 4
अनुष्टुप्
अर्भकः कथितो बाले मूर्खेऽपि च कृशेऽपि च ।आनकः पटहे भेर्यां मृदङ्गे ध्वनदम्बुदे ॥ ४७ ॥
1.3.47 · p. 5
अनुष्टुप्
आढकी तु तुवर्यां स्त्री परिमाणान्तरे त्रिषु ।आलोकस्तु पुमान् द्योते दर्शने बन्दिभाषणे ॥ ४८ ॥
1.3.48 · p. 5
अनुष्टुप्
आह्निकं दिननिर्वर्त्यं त्रिलिङ्गमथ न द्वयोः ।नित्यक्रियाभोजनयोर्वृन्दे प्रकरणस्य च ॥ ४९ ॥
1.3.49 · p. 5
अनुष्टुप्
आतङ्को रोगसन्तापशङ्कासु मुरजध्वनौ ।इक्ष्वाकुः कुटुतुम्ब्यां स्त्री सूर्यवंशनृपे पुमान् ॥ ५० ॥
1.3.50 · p. 5
अनुष्टुप्
उलूकः पुंसि काकाराविन्द्रे भारतयोधिनि ।उदर्क (१)एष्यत्कालीनफले मदनकण्टके ॥ ५१ ॥
1.3.51 · p. 5
अनुष्टुप्
उष्मकस्तु निदाघे स्यादातुरे क्षिप्रकारिणि ।उष्ट्रिका मृत्तिकाभाण्डभेदेऽपि करभस्त्रियाम् ॥ ५२ ॥
1.3.52 · p. 5
अनुष्टुप्
ऊर्मिका चाङ्गुलीये स्याद्वस्त्रभङ्गतरङ्गयोः ।कनकं हेम्नि पुंसि स्यात् किंशुके नागकेसरे ॥ ५३ ॥
1.3.53 · p. 5
अनुष्टुप्
धतूरे काञ्चनारे च कालीये चम्पकेऽपि च ।करकस्तु पुमान् पक्षिविशेषे दाडिमेऽपि च ॥ ५४ ॥
1.3.54 · p. 5
अनुष्टुप्
(२)द्वयोर्मेघोपले न स्त्री करङ्के च कमण्डलौ ।क्रमुकस्तु पुमान् भद्रमुस्तके ब्रह्मदारुणि ॥ ५५ ॥
1.3.55 · p. 5
अनुष्टुप्
फले कार्पासिकायाश्च पट्टिकालोध्रपूगयोः ।कटकोऽस्त्री नितम्बेऽद्रेर्दन्तिनां दन्तमण्डने ॥ ५६ ॥
1.3.56 · p. 5
अनुष्टुप्
सामुद्रलवणे राजधानीवलययोरपि ।कटुका कटुरोहिण्यां स्त्रियां व्योषे नपुंसकम् ॥ ५७ ॥
1.3.57 · p. 5
अनुष्टुप्
कण्टको न स्त्रियां क्षुद्रशत्रौ मत्स्यादिकीकसे ।नैयायिकादिदोषोक्तौ स्याद्रोमाञ्चद्रुमाङ्गयोः ॥ ५८ ॥
1.3.58 · p. 5
अनुष्टुप्
करङ्को मस्तकेऽशस्यनालिकेरफलास्थनि ।कलङ्कोऽङ्केऽपवादे च कालायसमलेऽपि च ॥ ५९ ॥
1.3.59 · p. 5
अनुष्टुप्
कर्णिका करिहस्ताग्रे करमध्याङ्गुलावपि ।क्रमुकादिच्छटांशेऽब्जवराटे कर्णभूषणे ॥ ६० ॥
1.3.60 · p. 6
अनुष्टुप्
कणिका कथ्यतेऽत्यन्तसूक्ष्मवस्त्वग्निमन्थयोः ।कचाकुस्तु दुराधर्षे दुःशीले च (१)बिलेशये ॥ ६१ ॥
1.3.61 · p. 6
अनुष्टुप्
कञ्चुको वारबाणे स्यान्निर्मोके करभेऽपि च ।वर्धापकगृहीताङ्गस्थितवतस्त्रे च चोलके ॥ ६२ ॥
1.3.62 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 स्थित (syllable split)
नपुंसकं तु कर्मादौ कारकं कर्तरि त्रिषु ।कार्मुकः कमनेऽशोकपादपे चातिमुक्तके ॥ ६४ ॥
1.3.64 · p. 6
अनुष्टुप्
कार्मुकं धनुषि स्यान्ना वेणी कर्मक्षमेऽन्यवत् ।कावृकः कृकवाकौ स्यात् पीनमस्तककोकयोः ॥ ६५ ॥
1.3.65 · p. 6
अनुष्टुप्
क्षारकः पक्षिमत्स्यादिपिटके जालकेऽपि च ।कालिका चण्डिकाभेदे (२)कार्ष्ण्यवृश्चिकपत्रयोः ॥ ६६ ॥
1.3.66 · p. 6
अनुष्टुप्
क्रमदेयवस्तुमूल्ये धूसरीनवमेघयोः ।पटोलशाखारोमालीमांसीकाकीशिवासु च ॥ ६७ ॥
1.3.67 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)
कीटकः कृमिजातौ ना निष्ठुरे पुनरन्यवत् ।कुलकं तु पटोले स्यात् सम्बद्धश्लोकसंहतौ ॥ ६९ ॥
1.3.69 · p. 6
अनुष्टुप्
पुंसि वल्मीककाकेन्दुकुलश्रेष्ठेषु कथ्यते ।क्षुल्लकस्त्रिषु नीचेऽल्पे कुशिको मुनिसर्जयोः ॥ ७० ॥
1.3.70 · p. 6
अनुष्टुप्
कुषाकुः कपिवह्न्यर्के ना परोत्तापिनि त्रिषु ।कुलिको नागभेदे स्याद् द्रुभेदे कुलसत्तमे ॥ ७१ ॥
1.3.71 · p. 6
अनुष्टुप्
क्षुरकः काकिलाक्षे स्याद् गोक्षुरे तिलकद्रुमे ।कूपको गुणवृक्षे स्यात्तैलपात्रे कुकुन्दरे ॥ ७२ ॥
1.3.72 · p. 6
अनुष्टुप्
उदपानेऽच्यु(१)तायां तु कूपिकाऽम्भोगतोपले ।कूलकं न स्त्रियां स्तूपे पुंसि स्यात् कृमिपर्वते ॥ ७३ ॥
1.3.73 · p. 7
अनुष्टुप्
कूर्चिका सूचिकायां च तूलिकायां च कुड्मले ।(२)कपाटोद्भेदने क्षीरविकृतावपि योषिति ॥ ७४ ॥
1.3.74 · p. 7
अनुष्टुप्
कृषकः पुंसि फाले स्यात् कर्षके त्वभिधेयवत् ।कारकोऽस्त्री कुड्मले स्यात् कक्कोलकमृणालयोः ॥ ७५ ॥
1.3.75 · p. 7
अनुष्टुप्
कौतुकं त्वभिलाषे स्यादुत्सवे नर्महर्षयोः ।तथा परम्परायातमङ्गले च कुतूहले ॥ ७६ ॥
1.3.76 · p. 7
अनुष्टुप्
विवाहसूत्रगीतादिभोगयोरपि न द्वयोः ।कौशिको नकुले व्यालग्राहे गुग्गुलुशुक्रयोः ॥ ७७ ॥
1.3.77 · p. 7
अनुष्टुप्
कोषज्ञोलूकयोश्च स्याद्विश्वामित्रमुनावपि ।कौषिकी चण्डिकायां च नदीभेदे च योषिति ॥ ७८ ॥
1.3.78 · p. 7
अनुष्टुप्
खनको नोन्दुरौ सन्धिचौरे त्रिष्ववदारके ।खड्गिको महिषीक्षीरे फेनशौनिकयोरपि ॥ ७९ ॥
1.3.79 · p. 7
अनुष्टुप्
स्यात् खोलकस्तु पाके शिरस्त्रवल्मीकपूगकोशेषु ।गणिका यूथीवेश्येभीतर्कारीषु ना तु दैवज्ञे ॥ ८० ॥
1.3.80 · p. 7
गीतिः
ग्रन्थिकं पिप्पलीमुले गुग्गुलुग्रन्थिपर्णयोः ।करीरे पुंसि दैवज्ञे सहदेवाख्यपाण्डवे ॥ ८१ ॥
1.3.81 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 मु (wrong syllable)
गण्डकः पुंसि खड्गे स्यात् संख्याविद्याप्रभेदयोः ।अवच्छेदेऽन्तराये च गण्डकी सरिदन्तरे ॥ ८२ ॥
1.3.82 · p. 7
अनुष्टुप्
ग्राहको घातिविहगे व्या(३)धानां च ग्रहीतरि ।गान्धिको लेखकेऽपि स्यात् सुगन्धिव्यवहारिणि ॥ ८३ ॥
1.3.83 · p. 7
अनुष्टुप्
गुण्डको मलिने धूलौ कलोक्तिस्नेहपात्रयोः ।गृह्यको निघ्नके छेके गैरिकं धातुरुक्मयोः ॥ ८४ ॥
1.3.84 · p. 7
अनुष्टुप्
गोलको विधवापुत्रे जारात् स्यान्मणिके गुडे ।गोरङ्कुः स्यात् पुमान् पक्षिभेदे लग्नकबन्दिनोः ॥ ८५ ॥
1.3.85 · p. 8
अनुष्टुप्
चषकोऽस्स्त्री सुरापात्रे मधुमद्यप्रभेदयोः ।चलुकः प्रसृतौ भाण्डभेदे चुलुकवत् पुमान् ॥ ८६ ॥
1.3.86 · p. 8
अनुष्टुप्
चतुष्की मशकहर्यां पुष्करिण्यन्तरेऽपि च ।चारकः पालकेऽश्वादेः स्यात् सञ्चारकबन्धयोः ॥ ८७ ॥
1.3.87 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
चित्रकं तिलके ना तु व्याघ्रभिच्चञ्चुपाठिषु ।चुम्बकश्चुम्बनपरे धूर्तायस्कान्तयोरपि ॥ ८८ ॥
1.3.88 · p. 8
अनुष्टुप्
बहुग्रन्थैकदेशज्ञे घटस्योर्द्ध्वावलम्बने ।चुल्लकी शिशुमारेऽपि कुण्डीभेदे कुलान्तरे ॥ ८९ ॥
1.3.89 · p. 8
अनुष्टुप्
चूलिका नाटकस्याङ्गे कर्णमूले च हस्तिनाम् ।चूतकः कूपकेऽप्याम्रे जनकः पितृभूभुजोः ॥ ९० ॥
1.3.90 · p. 8
अनुष्टुप्
जम्बूकः फेरवे नीचे पश्चिमाशापतावपि ।जतुका जिनपत्रायां जतुकं हिङ्गुलाक्षयोः ॥ ९१ ॥
1.3.91 · p. 8
अनुष्टुप्
जाहको घोङ्घमार्जारखट्वाकारुण्डिकासु च ।जालकं कोरके दम्भे कुलायानाययोरपि ॥ ९२ ॥
1.3.92 · p. 8
अनुष्टुप्
न पुंसि मोचकफले स्त्रियां तु वसनान्तरे ।गिरिसारे जलौकायामपि स्याद्विधवास्त्रियाम् ॥ ९३ ॥
1.3.93 · p. 8
अनुष्टुप्
भटानामश्मरचिताङ्गरक्षिण्यां च जालिका ।जालिको वाच्यवद्ग्रामजालिजालोपजीविनोः ॥ ९४ ॥
1.3.94 · p. 8
अनुष्टुप्
जीवकः प्राणके पीतशाल(१)कृपणयोरपि ।कूर्चशीर्षेऽपि पुंसि स्यादाजीवे जीविका मता ॥ ९५ ॥
1.3.95 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ल (wrong syllable)
त्रिषु सेविनि वृद्ध्याशिजीविराहितुण्डिके ।(२)झल्लिकोद्वर्तनपटे स्त्रियां द्योते च झिल्लीका ॥ ९६ ॥
1.3.96 · p. 8
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 7 ल्ली (wrong syllable)
(३)आतपस्य रुचौ झिण्ट्यां टुण्टुकः शोणकाल्पयोः ।डिम्बिका जलबिम्बे स्यात् शो(१)णके कामुकस्त्रियाम् ॥ ९७ ॥
1.3.97 · p. 8
अनुष्टुप्
तक्षकस्तु पुमान्नागराजभेदे च वर्द्धकौ ।तारको दैत्यभित्कर्णधारयोस्र्न द्वयोर्दृशि ॥ ९९ ॥
1.3.99 · p. 9
अनुष्टुप्
कनीनिकायामृक्षे च न पुमांस्त्रातरि त्रिषु ।तिलको द्रुमरोगाश्वभेदेषु तिलकालके ॥ १०० ॥
1.3.100 · p. 9
अनुष्टुप्
क्लीबं सौवर्चलक्लेम्नोर्न स्त्रियां तु विशेषके ।त्रिशङ्कुर्ना राजभेदे शलभे वृषदंशके ॥ १०१ ॥
1.3.101 · p. 9
अनुष्टुप्
तुरुष्कः सिल्हके म्लेच्छजातौ देशान्तरेऽपि च ।तूलिका कुर्चिकायां च शय्योपकरणेऽपि च ॥ १०२ ॥
1.3.102 · p. 9
अनुष्टुप्
दर्शकः स्यात् प्रतीहारे दर्शयितृप्रवीणयोः ।दारको बालकेऽपि स्याद् भेदके त्वभिधेयवत् ॥ १०३ ॥
1.3.103 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 यि (wrong syllable)
द्रावको ग्रावभेदे स्याद्विदग्धे मोषकेऽपि च ।दीपकं वागलङ्कारे वाच्यवद्दीप्तिकारके ॥ १०४ ॥
1.3.104 · p. 9
अनुष्टुप्
दीप्यकं चाजमोदायां यवानीबर्हिचूडयोः ।दुच्छको गन्धकुट्यां स्याद्विहाराद्यवकाशके ॥ १०५ ॥
1.3.105 · p. 9
अनुष्टुप्
दूषिका तूलिकायां च मले स्याल्लोचनस्य च ।धनिका साधुनार्यां ना धन्याके त्रिषु साधुधनिनोश्च ॥ १०६ ॥
1.3.106 · p. 9
अनुष्टुप्
स्याद्धेनुका करिण्यां धेनावपि ना तु दानवविशेषे ।धेनुकं करणे स्त्रीणां धेनूनामपि संहतौ ॥ १०७ ॥
1.3.107 · p. 9
अनुष्टुप्metre not read in every line
नर्तकः केलके(२) पोटगलचारणयोर्नटे ।नर्तकी लासिकायां च करेण्वामपि योषिति ॥ १०८ ॥
1.3.108 · p. 9
अनुष्टुप्
नग्निकाऽपि कुमार्यां स्यात् पुमान् क्षपणबन्दिनोः ।नरकः पुंसि निरयदेवारातिप्रभेदयोः ॥ १०९ ॥
1.3.109 · p. 9
अनुष्टुप्
नन्दको हरिखड्गे च हर्षके कुलपालके ।नालीकः शरशल्याङ्गेष्वब्जखण्डे नपुंसकम् ॥ ११० ॥
1.3.110 · p. 9
अनुष्टुप्
नायको नेतरि श्रेष्ठे हारमध्यमणावपि ।निर्मोको मोचने व्योम्नि सन्नाहे सर्पकञ्चुके ॥ १११ ॥
1.3.111 · p. 10
अनुष्टुप्
नीलिका नीलिनीक्षुद्ररोगशेफालिकासु च ।पराकस्तु व्रते खड्गे प्रसेकः सेचने च्युतौ ॥ ११२ ॥
1.3.112 · p. 10
अनुष्टुप्
प्रतीकोऽवयवेऽपि स्यात् प्रतिकूलविलोमयोः ।पद्मकं स्यात् पद्मकाष्ठबिन्दुजालकयोरपि ॥ ११३ ॥
1.3.113 · p. 10
अनुष्टुप्
पक्षकस्तु पुमान् पार्श्वद्वारे च पार्श्वमात्रके ।पल्यङ्को मञ्चपर्यङ्कवृषीपर्यस्तिकासु च ॥ ११४ ॥
1.3.114 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
पताका वैजयन्त्यां च सौभाग्यनाटकाङ्गयोः ।पातुकः पतयालौ स्यात् प्रपातजलहस्तिनोः ॥ ११५ ॥
1.3.115 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग्य (wrong syllable)
प्राणकः सत्त्वजातीये जीवकद्रुमचोलयोः ।पाटकः स्यान्महाकिष्कौ कटकान्तरवाद्ययोः ॥ ११६ ॥
1.3.116 · p. 10
अनुष्टुप्
अक्षादिचालने मूलद्रव्यापचयरोधसोः ।पालङ्कः शल्लकीशाकभेदयोः प्राजिपक्षिणि ॥ ११७ ॥
1.3.117 · p. 10
अनुष्टुप्
पावकोऽग्नौ सदाचारे वह्निमन्थे च चित्रके ।भल्लातके विडङ्गेऽथ प्रियकः पीतशालके ॥ ११८ ॥
1.3.118 · p. 10
अनुष्टुप्
नीपे चित्रमृगे चालौ प्रियङ्गौ कुङ्कुमेऽपि च ।पिण्याकोऽस्त्री तिलकल्के हिङगुवाल्हीकसिल्हके ॥ ११९ ॥
1.3.119 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पिनाकोऽस्त्री रुद्रचापे पांशुवर्षत्रिशूलयोः ।पिटकस्त्रिषु विस्फोटे मञ्जूषायां पुनः पुमान् ॥ १२० ॥
1.3.120 · p. 10
अनुष्टुप्
पिष्टको घृतपूपादौ नेत्ररोगान्तरेऽपि च ।पुलकः कृमिप्रभेदे प्रस्तरभेदे च मणिदोषे ॥ १२१ ॥
1.3.121 · p. 10
अनुष्टुप्metre not read in every line
रोमाञ्चे हरिताले गजान्नपिण्डे च गन्धर्वे ।पुलाकस्तुच्छधान्ये स्यात् सङ्क्षेपे भक्तसिक्थके ॥ १२२ ॥
1.3.122 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 न्ध (wrong syllable)
पुष्पकं रीतिपुष्पे च विमाने धनदस्य च ।नेत्ररोगे तथा रत्नकङ्कणे च रसाञ्जने ॥ १२३ ॥
1.3.123 · p. 10
अनुष्टुप्
लोहकांस्ये मृदङ्गारशकट्यां च नपुंसकम् ।स्यात् पुत्रिका पुत्तलिकादुहित्रोर्यावतूलके ॥ १२४ ॥
1.3.124 · p. 10
अनुष्टुप्
ना पुत्रे शरभे धूर्ते शैलवृक्षप्रभेदयोः ।पूर्णकः स्वर्णचूडे स्यान्नासाच्छिन्यां तु पूर्णिका ॥ १२५ ॥
1.3.125 · p. 11
अनुष्टुप्
पृदाकुर्वृश्चिके व्याघ्रे सर्पचित्रकयोः पुमान् ।पृथुकः पुंसि चिपिटे शिशौ स्यादभिधेयवत् ॥ १२६ ॥
1.3.126 · p. 11
अनुष्टुप्
पेचको गजलाङ्गुलमूलोपान्ते च कौशिके ।(१)पेटकं पुस्तकादीनां मञ्जूषायां कदम्बके ॥ १२७ ॥
1.3.127 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ङ्गु (wrong syllable)
वल्मीको रोगभेदे च नाकौ च पुन्नपुंसकम् ।बन्धूकं बन्धुजीवे स्याद् बन्धूकः पीतशालके ॥ १२८ ॥
1.3.128 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
बन्धकः स्याद्विनिमये पुंश्चल्यां स्याच्च बन्धकी ।बहुकः कर्कटे चार्के दात्यूहे जलखातके ॥ १२९ ॥
1.3.129 · p. 11
अनुष्टुप्
वराकः शङ्करे पुंसि शोचनीयेऽभिधेयवत् ।बालकस्तु शिशावज्ञे वालधौ हयहस्तिनोः ॥ १३० ॥
1.3.130 · p. 11
अनुष्टुप्
अङ्गुलीयकह्रीबेरवलये पुंसि बालिका ।बालायां बालुकापत्रकाहलाकर्णभूषणे ॥ १३१ ॥
1.3.131 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
वारकोऽश्वगतौ पुंसि वाच्यवत् स्यान्निषेधके ।बालुका सिकतासु स्याद् बालुकं त्वेलबालुके(२) ॥ १३२ ॥
1.3.132 · p. 11
अनुष्टुप्
भर्मकं रोगभेदे स्याद्विडङ्गकलधौतयोः ।भ्रामको जम्बुके धूर्ते सूर्यावर्त्ताश्मभेदयोः ॥ १३३ ॥
1.3.133 · p. 11
अनुष्टुप्
भालाङ्कः करपत्रे स्याच्छाकभेदे च रोहिते ।महालक्षणसम्पन्नपुरुषे कच्छपे हरे ॥ १३४ ॥
1.3.134 · p. 11
अनुष्टुप्
भूमिका रचनायां स्याद्वेशान्तरपरिग्रहे ।भूतीकमपि भूनिम्बे दीप्यकर्पूरके तृणे ॥ १३५ ॥
1.3.135 · p. 11
अनुष्टुप्
मधुका मधुपर्ण्यां स्या(३)न्मधुकं क्लीतके खगे ।वेल्यन्तरे ना मशको रोगकीटप्रभेदयोः ॥ १३६ ॥
1.3.136 · p. 11
अनुष्टुप्
मण्डूकः शोणके मुन्यन्तरे स्याद्गूढवर्चसि ।मण्डूकपर्ण्यां मण्डूकी मल्लिको हंसभिद्यपि ॥ १३७ ॥
1.3.137 · p. 12
अनुष्टुप्
माल्लिका तृणशून्येऽपि मीनमृत्पात्रभेदयोः ।मामकं स्यान्मदीयार्थे त्रिषु पुंसि तु मातुले ॥ १३८ ॥
1.3.138 · p. 12
अनुष्टुप्
मातृका धातृकामात्रोर्देवीभिद्वर्णमालयोः ।मालिका सप्तलापुत्रीग्रीवालङ्करणेषु च ॥ १३९ ॥
1.3.139 · p. 12
अनुष्टुप्
पुष्पमाल्ये नदीभेदे पक्षिभेदे तु मालिकः ।मेचकस्तु मयूरस्य चन्द्रके श्यामले पुमान् ॥ १४० ॥
1.3.140 · p. 12
अनुष्टुप्
तद्युक्ते वाच्यवत् क्लीबं स्रोतोञ्जनान्धकारयोः ।मोचकः कदलीशिग्रुनिर्मोचकविरागिषु ॥ १४१ ॥
1.3.141 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ञ्ज (wrong syllable)
मोदकः खाद्यभेदेऽस्त्री हर्षुके पुनरन्यवत् ।यमकं यमजे शब्दालङ्कारे पुंसि संयमे ॥ १४२ ॥
1.3.142 · p. 12
अनुष्टुप्
याजकस्तु गजे राज्ञो याज्ञिकेऽप्यथ याज्ञिकः ।याजके च कुशे चाथ युतकं संशये युगे ॥ १४३ ॥
1.3.143 · p. 12
अनुष्टुप्
नारीवस्त्राञ्चले युक्ते चलनाग्रेऽपि यौतके ।यूथिका म्लानके पुष्पविशेषेऽपि च योषिति ॥ १४४ ॥
1.3.144 · p. 12
अनुष्टुप्
रसिका स्त्री रसालेक्षुरसयोः सरसे त्रिषु ।रक्तकोऽम्लानबन्धूकरक्तवस्त्रानुरागिषु ॥ १४५ ॥
1.3.145 · p. 12
अनुष्टुप्
राजिकाऽपि च केदारे राजसर्षपरेखयोः ।रात्रकं पञ्चरात्रे ना वेश्यावेश्माब्दवासिनि ॥ १४६ ॥
1.3.146 · p. 12
अनुष्टुप्
रुचको बीजपूरे च निष्के दन्तकपोतयोः ।न द्वयोः सर्जिकाक्षारेऽप्यश्वाभरणमाल्ययोः ॥ १४७ ॥
1.3.147 · p. 12
अनुष्टुप्
सौवर्चलेऽपि माङ्गल्यद्रव्ये चाप्युत्कटेऽपि च ।रुण्डिका द्वारपिण्ड्यां च दूतिकायां रणक्षितौ ॥ १४८ ॥
1.3.148 · p. 12
अनुष्टुप्
रूपकं नाटके मूर्त्ते काव्यालङ्करणेऽपि च ।रेणुकाऽपि हरेणौ च जामदग्न्यस्य मातरि ॥ १४९ ॥
1.3.149 · p. 12
अनुष्टुप्
रोहकः प्रेतभेदे ना रोढरि त्रिषु विश्रुतः(१) ।लम्पाको लम्पटे देशे लासको लास्यकारिणि ॥ १५० ॥
1.3.150 · p. 12
अनुष्टुप्
मयूरे लसके चाथ लूनको भेदिते पशौ ।लोचको मांसपिण्डेऽक्षितारकायां च कज्जले ॥ १५१ ॥
1.3.151 · p. 13
अनुष्टुप्
ललाटाभरणे स्त्रीणां कदलीनीलवस्त्रयोः ।निर्बुद्धौ कर्णपूरे च मौर्व्यां भूश्लथचर्मणि ॥ १५२ ॥
1.3.152 · p. 13
अनुष्टुप्
वसुकं रौमके पुंसि शिवमल्ल्यर्कपर्णयोः ।वर्णकश्चारणेऽस्त्री तु चन्दने च विलेपने ॥ १५३ ॥
1.3.153 · p. 13
अनुष्टुप्
द्वयोर्नील्यादिषु स्त्री स्यादुत्कर्षे कथनस्य च ।वर्तकस्तु खुरेऽश्वस्य विहगे वर्तकी द्वयोः ॥ १५४ ॥
1.3.154 · p. 13
अनुष्टुप्
वञ्चकस्तु खले धूर्ते गृहबभ्रौ च जम्बुके ।व्यलीकमप्रियाकार्यवैलक्ष्येष्वपि पीडने ॥ १५५ ॥
1.3.155 · p. 13
अनुष्टुप्
ना नागरेऽथ बाल्हीकं बाल्हिकं धीरहिङ्गुनोः ।द्वावेतौ पुंसि देशस्य प्रभेदे तुरगान्तरे ॥ १५६ ॥
1.3.156 · p. 13
अनुष्टुप्
वार्द्धकं वृद्धसङ्घाते वृद्धस्य भावकर्मणोः ।वार्षिकं त्रायमाणायां क्लीबं वर्षाभवे त्रिषु ॥ १५७ ॥
1.3.157 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
बालकोऽस्त्री पारिहार्य्ये त्रिषु स्यादङ्गगुरीयके ।वितर्कस्तु पुमानूहे संशये च निगद्यते ॥ १५८ ॥
1.3.158 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विपाकः पचने स्वादे कर्मणो विसदृक्फले ।विवेकः स्याज्जलद्रोण्यां पृथग्भावविचारयोः ॥ १५९ ॥
1.3.159 · p. 13
अनुष्टुप्