कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

छान्तवर्गः · छद्विकम्

छद्विकम्

अच्छः स्फटिकभल्लूकनिर्मलेष्वच्छमव्ययम् ॥ १ ॥
7.2.1 · p. 29
आभिमुख्येऽथ कच्छः स्यादनूपे तुन्नकद्रुमे ।नौकाङ्गे पुसि वाराह्यां चीरिकायां च योषिति ॥ २ ॥
7.2.2 · p. 29
अनुष्टुप्
स्याद्गुच्छः स्तबके स्तम्बे हारभेदकलापयोः ।पिच्छा पूगच्छटाकोशमोचाशाल्मलिवेष्टके ॥ ३ ॥
7.2.3 · p. 29
अनुष्टुप्
भक्तसम्भूतमण्डे च पङ्क्तावश्वपदामये ।स्त्रियां पुंसि तु लाङ्गूले न द्वयोर्बर्हचूडयोः ॥ ४ ॥
7.2.4 · p. 29
अनुष्टुप्
पुच्छः पश्चात्प्रदेशे स्याल्लाङ्गूले पुच्छमिष्यते ।म्लेच्छः पामरभेदे च पापरक्तेऽपभाषणे ॥ ५ ॥
7.2.5 · p. 29
अनुष्टुप्