कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

अव्ययानि · पद्विकम्

पद्विकम्

अप स्यादपकृष्टार्थे वर्जनार्थवियोगयोः ॥ ४६ ॥
34.37.46 · p. 182
विपर्य्यये च विकृतौ चौर्य्ये निर्देशहर्षयोः ।अपि सम्भावनाप्रश्नशङ्कागर्हासमुच्चये ॥ ४७ ॥
34.37.47 · p. 182
अनुष्टुप्
तथा युक्तपदार्थेऽपि कामकारक्रियासु च ।उप स्यादधिकार्थे च हीनार्थासन्नयोरपि ॥ ४८ ॥
34.37.48 · p. 182
अनुष्टुप्