All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
जान्तवर्गः · जत्रिकम्
जत्रिकम्
अण्डजो मृगनाभौ स्यात् सरटेऽहौ खगे झषे ॥ १८ ॥
8.3.18 · p. 31
अङ्गजं रुधिरेऽनङ्गकेशपुत्रगदेषु ना ।अम्बुजो निचुले पुंसि कमले तु नपुंसकम् ॥ १९ ॥
8.3.19 · p. 31
अनुष्टुप्
असृक् स्याद्योगभेदे ना रक्तेऽपि स्यान्नपुंसकम् ।कम्बोजो हस्तिभेदेऽपि शङ्खदेशविशेषयोः ॥ २० ॥
8.3.20 · p. 31
अनुष्टुप्
करजं स्याद्व्याघ्रनखे करञ्जनखयोः पुमान् ।कारुजः शिल्पिनां चित्रे वामलूरे गजार्भके ॥ २१ ॥
8.3.21 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्व्या (wrong syllable)
काम्बोजोऽश्वान्तरे सोमवल्के पुन्नागपादपे ।काम्बोजी माषपर्ण्यां च वलक्षखदिरे स्त्रियाम् ॥ २२ ॥
8.3.22 · p. 31
अनुष्टुप्
कुटजो वृक्षभेदे स्यादगस्त्यद्रोणयोरपि ।गिरिजं त्वभ्रकेऽपि स्याच्छिलाजतुनि शैस्लजे ॥ २३ ॥
8.3.23 · p. 31
अनुष्टुप्
लोहेऽपि गिरिजागौरीमातुलुङ्ग्योश्च योषिति ।जलजं कमले शङ्खे नीरजं कुष्ठपद्मयोः ॥ २४ ॥
8.3.24 · p. 31
अनुष्टुप्
परञ्जस्तैलयन्त्रे स्याच्छुरिकाफलसेनयोः ।वलजं गोपुरे क्षेत्रे शस्यसङ्गरयोरपि ॥ २५ ॥
8.3.25 · p. 31
अनुष्टुप्
वलजा वरयोषायां यूथ्यामथ वणिक् स्त्रियाम् ।वणिज्यायां पुमान् वाणिज्यके च करणान्तरे ॥ २६ ॥
8.3.26 · p. 31
अनुष्टुप्
बाहुजः क्षत्रिये कीरे स्वयञ्जाततिलेऽपि च ।भूमिजो नरकेऽङ्गारे सीतादेव्यां तु भूमिजा ॥ २७ ॥
8.3.27 · p. 31
अनुष्टुप्
वनजा मुद्गपर्ण्यां ना मुस्तके क्लीबमम्बुजे ।सहजस्तु निसर्गे ना सहोत्थे पुनरन्यवत् ॥ २८ ॥
8.3.28 · p. 31
अनुष्टुप्
समजः पशुवृन्दे ना विपिने तु नपुंसकम् ।सामजस्तु गजे पुंसि सामोत्थे पुनरन्यवत् ॥ २९ ॥
8.3.29 · p. 31
अनुष्टुप्
हिमजा तु शचीगौर्योः पुंसि मैनाकपर्वते ।
8.3.13 · p. 31