कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

गान्तवर्गः · गद्विकम्

गद्विकम्

(२)अगः स्यान्नगवत् पृथ्वीधरपादपयोः पुमान् ।अङ्गं गात्रे प्रतीकोपाययोः पुम्भूम्नि नीवृति ॥ २ ॥
3.2.2 · p. 21
अनुष्टुप्
गन्धर्वे चापि गः ख्यातो गायके चाभिधेयवत् ॥ इति ख. पुस्तकेऽधिकम् ।; (२) अगो महीरुहे शैले भास्करे पवनाशने । ख. पु. पाठः ।}
3.2.2 · p. 21
अनुष्टुप्metre not read in every line
क्लीबैकत्वे त्वप्रधाने त्रिष्वङ्गवति चान्तिके ।इङ्गः स्यादद्भुते ज्ञाने जङ्गमेङ्गितयोरपि ॥ ३ ॥
3.2.3 · p. 22
अनुष्टुप्metre not read in every line
खगः सूर्ये ग्रहे देवे मार्गणे च विहङ्गमे ।खड्गो गण्डकशृङ्गासिबुद्धभेदेषु गण्डके ॥ ४ ॥
3.2.4 · p. 22
अनुष्टुप्
गाङ्गस्तु गङ्गासम्भूते त्रिषु भीष्मे गुहे पुमान् ।चङ्गस्तु शोभने दक्षे टङ्गोऽस्त्री स्यात् खनित्रके ॥ ५ ॥
3.2.5 · p. 22
अनुष्टुप्
खड्गभेदे च जङ्घायां त्यागो दाने च वर्जने ।तुङ्गी निशाबर्बरयोः पुन्नागनगयोः पुमान् ॥ ६ ॥
3.2.6 · p. 22
अनुष्टुप्
उन्नते त्रिषु दुर्गोमानील्योः स्त्री दुर्गमे त्रिषु ।नागं नपुसकं रङ्गे सीसके करणान्तरे ॥ ७ ॥
3.2.7 · p. 22
अनुष्टुप्
नागः पन्नगमातङ्गक्रूराचारिषु तोयदे ।नागकेसरपुन्नागनागदन्तकमुस्तके ॥ ८ ॥
3.2.8 · p. 22
अनुष्टुप्
देहानिलप्रभेदे च श्रेष्ठे स्यादुत्तरस्थितः ।पिङ्गी गोरोचनाहिङ्गुनालिकाचण्डिकासु च ॥ ९ ॥
3.2.9 · p. 22
अनुष्टुप्
पिङ्गी शम्यां पिशङ्गे ना बालके तु नपुंसकम् ।पूगस्तु क्रमुके वृन्दे फल(१)सारेऽभिधेयवत् ॥ १० ॥
3.2.10 · p. 22
अनुष्टुप्
नदीभेदे मलप्वां स्त्री भङ्गो जयविपर्यये ।भेदरोगतरङ्गेषु भङ्गा सस्यान्तरे स्त्रियाम् ॥ ११ ॥
3.2.11 · p. 22
अनुष्टुप्
भगं श्रीयोनिवीर्येच्छाज्ञानवैराग्यकीर्तिषु ।महात्म्यैश्वर्ययत्नेषु धर्मे मोक्षे च ना रवौ ॥ १२ ॥
3.2.12 · p. 22
अनुष्टुप्
भागो रूपार्द्धके भाग्यैकदेशयोर्भृगुः पुमान् ।मुनौ हरे तटे शुक्रे भृङ्गो धूम्याटषिड्गयोः ॥ १३ ॥
3.2.13 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
मधुव्रते भृङ्गराजे पुंसि भृङ्गं गुडत्वचि ।भोगः सुखे धने चाहेः शरीरफणयोरपि ॥ १४ ॥
3.2.14 · p. 22
अनुष्टुप्
पालनेऽभ्यवहारे च योषिदादिभृतावपि ।मार्गो मृगमदे मासप्रभेदेऽन्वेषणध्वनोः ॥ १५ ॥
3.2.15 · p. 22
अनुष्टुप्
मृगः पशौ कुरङ्गे च करिनक्षत्रभेदयोः ।अन्वेषणे च याच्ञायां मृगी तु वनितान्तरे ॥ १६ ॥
3.2.16 · p. 23
अनुष्टुप्
युगो रथहलाद्यङ्गे न द्वयोस्तु कृतादिषु ।युग्मे हस्तचतुष्केऽपि वृद्धिनामौषधेऽपि च ॥ १७ ॥
3.2.17 · p. 23
अनुष्टुप्
योगोऽपूर्वार्थसम्प्राप्तौ सङ्गतिध्यानयुक्तिषु ।वपुःस्थैर्ये प्रयोगे च विष्कम्भादिषु भेषजे ॥ १८ ॥
3.2.18 · p. 23
अनुष्टुप्
विश्रब्धघातके द्रव्योपायसन्नहनेष्वपि ।कार्मणेऽपि च रङ्गो ना रागे नृत्ये रणक्षितौ ॥ १९ ॥
3.2.19 · p. 23
अनुष्टुप्
अस्त्री त्रपुणि रागस्तु मात्सर्ये लोहितादिषु ।क्लेशादावनुरागे च गान्धारादौ नृपेऽपि च ॥ २० ॥
3.2.20 · p. 23
अनुष्टुप्
रोगः कुष्ठौषधे व्याधौ लङ्गस्तु सङ्गषिड्गयोः ।लिङ्गे चिह्नेऽनुमाने च साङ्ख्योक्तप्रकृतावपि ॥ २१ ॥
3.2.21 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
शिवमूर्तिविशेषेऽपि मेहनेऽपि नपुंसकम् ।व्यङ्गो भेके च हीनाङ्गे वङ्गं सीसकरङ्गयोः ॥ २२ ॥
3.2.22 · p. 23
अनुष्टुप्
वात्तोकेऽपि च कार्पासे पुम्भूम्नि नीवृदन्तरे ।वल्गुः स्याच्छगले पुंसि सुन्दरे चाभिधेयवत् ॥ २३ ॥
3.2.23 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म्नि (wrong syllable)
वेगो जवे प्रवाहे च महाकालफलेऽपि च ।शार्ङ्गः कार्मुकमात्रेऽपि विष्णोरपि शरासने ॥ २४ ॥
3.2.24 · p. 23
अनुष्टुप्
शुङ्गो वटाम्रातकयोः पर्कट्यामपि चास्त्रियाम् ।शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके ॥ २५ ॥
3.2.25 · p. 23
अनुष्टुप्
विषाणोत्कर्षयोश्चाथ शृङ्गः स्यात् कूर्चशीर्षके ।स्त्री विषायां स्वर्णमीनभेदयो ऋषभौषधौ ॥ २६ ॥
3.2.26 · p. 23
अनुष्टुप्
सर्गस्तु निश्चयाध्यायमोहोत्साहात्मसृष्टिषु ।
3.2.27 · p. 23