All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
Part 1
श्रीपरमात्मने नमः ।
कविपण्डित-श्रीश्रीधरसेन-विरचितः
विश्वलोचनकोशः ।
(मुक्तावली )
मंगलाचरणम् ।
जयति भगवानास्तां धर्मः प्रसीदतु भारतीवहतु जगती प्रेमोद्गारं तरन्त्वशुभं जनाः ।अयमपि मम श्रेयान्गुम्फस्तनोतु मनोमुदंकिमधिकमितस्त्यक्तावेगा भवन्तु विपश्चितः ॥ १ ॥
1 · p. 1
हरिणी
परिभाषा ।
स्वरकादिक्रमादादिर्निर्णीतोऽन्तश्च कादिभिः ।द्वितीयेऽप्यत्र वर्णेऽपि नियमः काद्यनुक्रमात् ॥ २ ॥
2 · p. 1
अनुष्टुप्