कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

डान्तवर्गः · डद्वितीयम्

डद्वितीयम् ।

अण्डं तु खगमीनादिकोशे स्यान्मुष्कवीर्ययोः ॥ १ ॥
14.2.1 · p. 90
इडा बुधवधूवाचोरिलावद्भूगवोरपि ।काण्डोऽस्त्री वर्गबाणार्थनालावसरवारिषु ॥ २ ॥
14.2.2 · p. 90
अनुष्टुप्
दण्डे प्रकाण्डे रहसि स्तंबे कुत्सितकुत्सयोः ।पतिवत्नीसुते जारात्कुण्डः कुण्डी कमण्डलौ ॥ ३ ॥
14.2.3 · p. 90
अनुष्टुप्
कुण्डं देवजलाधारे पिठरे तु मतं न ना ।क्रीडा केलाववज्ञायां खेलायामपि सम्मता ॥ ४ ॥
14.2.4 · p. 90
अनुष्टुप्
क्रोडः शनौ वराहे च क्रोडं क्रोडा च वक्षसि ।खण्डोर्द्धेऽस्त्री पुमानिक्षुविकारे मणिदूषणे ॥ ५ ॥
14.2.5 · p. 90
अनुष्टुप्
गडो मीनेऽन्तराये च कुब्जे पृष्ठगुडे गडुः ।गण्डस्तु पिटके योगभेदे खड्गिकपोलयोः ॥ ६ ॥
14.2.6 · p. 91
अनुष्टुप्
वरे प्रवीरे चिह्ने च वाजिभूषणबुद्बुदे ।गुडः स्याद्गजसन्नाहे गोलकेक्षुविकारयोः ॥ ७ ॥
14.2.7 · p. 91
अनुष्टुप्
गुडा स्नुहीगुडिकयोः कंदुके चोडनात्परः ।गोण्डः पामरभेदे स्याद् वृद्धनाभौ तु वाच्यवत् ॥ ८ ॥
14.2.8 · p. 91
अनुष्टुप्
चण्डस्तीव्रे दैत्यभेदे यमदासेऽतिकोपने ।स्त्रियां चण्डा धनहरीशङ्खपुष्पिकयोर्म्मता ॥ ९ ॥
14.2.9 · p. 91
अनुष्टुप्
भवेच्चण्डी तु पार्वत्यां हिंस्रकोपनयोषितोः ।चूडा वलयभेदे स्याच्छिखायां वड(ल)भावपि ॥ १० ॥
14.2.10 · p. 91
अनुष्टुप्
चोडो(लो) देशविशेषे स्याच्चोडः प्रावरणान्तरे ।मूर्खे मूके हिमग्रस्ते जडा स्त्री कन्दरौषधौ ॥ ११ ॥
14.2.11 · p. 91
अनुष्टुप्
ताडो मुष्ट्यादिसम्मेयतृणादौ ताडने रवे ।ताडी ताडीतरौ दण्डश्चण्डांशोः पारिपार्श्विके ॥ १२ ॥
14.2.12 · p. 92
अनुष्टुप्
दण्डः सैन्यव्यूहभेदे मानभेदे दमे यमे ।मंथानेऽश्वेऽभिमाने च कोणदण्डप्रकाण्डयोः ॥ १३ ॥
14.2.13 · p. 92
अनुष्टुप्
विग्रहे च ग्रहे यज्ञे लगुडेऽपि मतोऽस्त्रियाम् ।नाडी नाड्यां शिरायां स्याद्वार्त्तायां कुहनस्य च ॥ १४ ॥
14.2.14 · p. 92
अनुष्टुप्
नीडं स्थाने कुलायेऽस्त्री समीपे तु सपूर्वकः ।पण्डः षण्ढे धियां पण्डा पाण्डुः कुन्तीपतौ सिते ॥ १५ ॥
14.2.15 · p. 92
अनुष्टुप्
पिण्डो देहांसयोरस्त्री निवापे सिह्लके पुमान् ।पिण्डो जपाप्रसूनेऽपि पिण्डः स्याद्भोजने त्रिषु ॥ १६ ॥
14.2.16 · p. 92
अनुष्टुप्
पिण्डं सांद्रे बले बोले गृहाङ्गे जीविकायसोः ।पिण्डी तु पिण्डिकाऽलावूखर्जूरीतगरान्तरे ॥ १७ ॥
14.2.17 · p. 92
अनुष्टुप्
पिण्डी स्याज्ज्ञानजिज्ञासे जिज्ञासेऽपि सतां मता ।पीडाऽपमर्द्दकृपयोः सरलद्रुशिरोध्वजे ॥ १८ ॥
14.2.18 · p. 93
अनुष्टुप्
बण्डा तु कुलटायां स्याद् बण्डो हस्तादिवर्ज्जिते ।भाण्डं तु भाजने वणिग्मूलवित्ते विभूषणे ॥ १९ ॥
14.2.19 · p. 93
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 व (wrong syllable)
भूषणे च तुरङ्गाणां नदीपात्रे च कुत्रचित् ।भवेन्मण्डस्तु कूष्माण्डे कर्कट्यामपि पुंस्ययम् ॥ २० ॥
14.2.20 · p. 93
अनुष्टुप्
सारे पिच्छेऽपि मण्डेऽस्त्री पुमानेरण्डभूषयोः ।मण्डा धात्र्यामथो मण्डं शाकभेदे च मस्तुनि ॥ २१ ॥
14.2.21 · p. 93
अनुष्टुप्
मुण्डो राहुशिरोदैत्यभेदेषु त्रिषु मुण्डिनि ।रण्डा मूषिकपणर्ण्याख्यभेषजे विधवास्त्रियाम् ॥ २२ ॥
14.2.22 · p. 93
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
व्याडस्तु हिंस्रपश्वाद्ये श्वापदेऽपि सरीसृपे ।शुण्डा सुरायां वेश्यायां नलिनीहस्तिहस्तयोः ॥ २३ ॥
14.2.23 · p. 93
अनुष्टुप्
शुण्डा जलकरिण्यां च शुण्डस्तु मदनिर्भरे ।शौण्डी कुशायां चविके शौण्डो मत्तेऽभिधेयवत् ॥ २४ ॥
14.2.24 · p. 94
अनुष्टुप्
षडः पेयान्तरे पुंसि षडो भिद्यपि विद्यते ।पद्मादिवृन्दे षण्डोऽस्त्री षण्डः स्याद्गोपतौ चये ॥ २५ ॥
14.2.25 · p. 94
अनुष्टुप्
क्ष्वेडस्तु पुंसि गरले ध्वाने कर्णे महेश्वरे ।क्ष्वेडस्त्रिषु स्यात्कुटिले क्ष्वेडा तु गजयोषिति ॥ २६ ॥
14.2.26 · p. 94
अनुष्टुप्
वीराणां सिंहनादेऽपि वंशशल्येऽपि च स्त्रियाम् ।क्ष्वेडस्तु रक्तार्क्कफले घोषपुष्पे दुरासदे ॥ २७ ॥
14.2.27 · p. 94
अनुष्टुप्