All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
अव्ययानि · मान्तानि
म०
अमा सहार्थाऽन्तिकयोरमावास्याममा स्त्रियाम् ।अलं भूषणपर्याप्तिशक्तिवारणनिष्फले ॥ ५० ॥
36.14.50 · p. 414
अनुष्टुप्
यत्ने नित्येऽप्यवश्यं स्यादास्मृताववधारणे ।इदानीं वाक्यभूषायां सम्प्रत्यर्थे च सम्मतम् ॥ ५१ ॥
36.14.51 · p. 414
अनुष्टुप्
इं दुःस्वभावने क्रोधे प्रत्यक्षे सन्निधावपि ।उं प्रश्नेङ्गीकृतौ रोषे ऊं प्रश्ने रोषभाषणे ॥ ५२ ॥
36.14.52 · p. 414
अनुष्टुप्
एवं प्रक्रारोपमयोरङ्गीकारेऽवधारणे ।ओं स्यादनुमतौ प्रोक्तं प्रणवे चाप्युपक्रमे ॥ ५३ ॥
36.14.53 · p. 415
अनुष्टुप्
कं शिरःसुखनीरेषु कथं प्रश्नप्रकारयोः ।सम्भ्रमे सम्भवे चाथ कामं त्वनुमतौ मतम् ॥ ५४ ॥
36.14.54 · p. 415
अनुष्टुप्
प्रकामानुगमाऽसूयास्वथ किं प्रश्नकुत्सयोः ।जोषं तु तूष्णींसुखयोः प्रशंसायां च लङ्घने ॥ ५५ ॥
36.14.55 · p. 415
अनुष्टुप्
तद्दिनं दिनमध्ये स्यात्तद्दिनं प्रतिवासरे ।तूष्णीकां मौनमात्रे स्यात्तूष्णीकं त्रिषु मौनिनि ॥ ५६ ॥
36.14.56 · p. 415
अनुष्टुप्
नाम प्राकाश्यसम्भाव्यकुत्साऽभ्युपगमे क्रुधि ।नूनं तर्के तु विख्यातं नूनं स्यादर्थनिश्चये ॥ ५७ ॥
36.14.57 · p. 415
अनुष्टुप्
प्राध्वं नर्मेऽनुकूलेऽपि प्रकर्षात्यर्थयोर्भृशम् ।शं कल्याणे सुखे चाथ स्माऽतीते पादपूरणे ॥ ५८ ॥
36.14.58 · p. 416
अनुष्टुप्
सं सड्गार्थे शोभनार्थे प्रहृष्टार्थसमार्थयोः ।सामि निन्दार्द्धयोर्युक्तेऽप्यधुनार्थेऽपि साम्प्रतम् ॥ ५९ ॥
36.14.59 · p. 416
अनुष्टुप्
हं रुषोक्तावनुनये हुं स्यात्प्रश्नवितर्कयोः ।हूं विक्रमे चानुमतौ तज्जनेऽपि क्वचिन्मतम् ॥ ६० ॥
36.14.60 · p. 416
अनुष्टुप्