कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

धान्तवर्गः · धचतुर्थम्

धचतुर्थम् ।

अनिरुद्धः स्मरसुते पुंसि चानर्गले त्रिषु ॥ ४२ ॥
20.4.42 · p. 183
अनुबन्धः प्रकृत्यादेर्नश्वरेऽप्यनुयायिनि ।दोषोत्पादे शिशौ च स्यात्प्रवृत्तस्यानुवर्त्तने ॥ ४३ ॥
20.4.43 · p. 183
अनुष्टुप्
अनुबन्धी तु हिक्कायां तृष्णायामपि दृश्यते ।अवरोधस्तु शुद्धान्तेऽप्यन्तर्द्धौ राजसद्मनि ॥ ४४ ॥
20.4.44 · p. 183
अनुष्टुप्
स्यादवष्टव्ध आक्रान्तेऽप्यदूरेऽप्यविलम्बिते ।आशाबन्धः समाश्वासे मर्कटस्य च वासके ॥ ४५ ॥
20.4.45 · p. 183
अनुष्टुप्
इक्षुगन्धा कोकिलाक्षे काशे क्रोष्ट्यां च गोक्षुरे ।उग्रगन्धा बचायां स्याद्यवान्यां छिक्किकौषधौ ॥ ४६ ॥
20.4.46 · p. 183
अनुष्टुप्
उपलब्धिः स्त्रियां प्राप्तिमतिज्ञानेषु लक्षणे ।कालस्कन्धस्तमालेऽपि तिन्दुके जीवकद्रुमे ॥ ४७ ॥
20.4.47 · p. 184
अनुष्टुप्
तीक्ष्णगन्धो मतः शिग्रौ वचाराजिकयोः स्त्रियाम् ।तृणगोधा भवेच्चित्रकोलके कृकलासके ॥ ४८ ॥
20.4.48 · p. 184
अनुष्टुप्
परिव्याधः पुमान्नीरवानीरेऽपि द्रुमोत्पले ।ब्रह्मबन्धुरधिक्षिप्ते निर्देशेऽब्राह्मणस्य च ॥ ४९ ॥
20.4.49 · p. 184
अनुष्टुप्
महौषधं विषाशुण्ठी शृङ्गवेरे रसोनके ।समुन्नद्धः समुद्भूते पण्डितम्मन्यगर्विते ॥ ५० ॥
20.4.50 · p. 184
अनुष्टुप्