कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

सान्तवर्गः · सचतुर्थम्

सचतुर्थम् ।

अगौकाश्च नगौकाश्च शरभे सिंहपक्षिणोः ।अधिवासस्तु वसतौ संस्कारे धूपनादिभिः ॥ ४६ ॥
33.4.46 · p. 392
अनुष्टुप्
अवध्वंसस्तु निंदायां परित्यागावचूर्णयोः ।उदर्चिः पुंसि दहने उदर्चिस्तूत्प्रभे त्रिषु ॥ ४७ ॥
33.4.47 · p. 392
अनुष्टुप्
कनीयाननुजेऽत्यल्पे त्रिषु स्यादतियूनि वा ।कलहंसस्तु कादम्बे राजहंसे नृपोत्तमे ॥ ४८ ॥
33.4.48 · p. 392
अनुष्टुप्
कुम्भीनसो विषज्वालाकुलदृष्टिभुजङ्गमे ।भुजङ्गमेऽप्यथो कुम्भीनसी लवणमातरि ॥ ४९ ॥
33.4.49 · p. 393
अनुष्टुप्
भवेद्घनरसो नीरे दक्षिणावर्त्तपारदे ।सान्द्रनिर्यासकर्पूरपीलुपर्णीषु मोरटे ॥ ५० ॥
33.4.50 · p. 393
अनुष्टुप्
चन्द्रहासो दशग्रीवखड्गे खड्गे च दृश्यते ।क्लीबं तामरसं ताम्रे काञ्चने जलजेऽपि च ॥ ५१ ॥
33.4.51 · p. 393
अनुष्टुप्
त्रिस्रोता जाह्नवीनद्योर्दिवौकाश्चातके सुरे ।दीर्घायुः पुंसि मार्त्तण्डकाकशाल्मलिजीवके ॥ ५२ ॥
33.4.52 · p. 393
अनुष्टुप्
निःश्रेयसं शुभे शुक्ले पुंसि निःश्रेयसो हरे ।नीलाञ्जसाऽप्सरोभेदे नदीभेदे तडित्यपि ॥ ५३ ॥
33.4.53 · p. 393
अनुष्टुप्
पुनर्वसुःस्त्रियामृक्षे कृष्णे कात्यायने पुमान् ।पौर्णमासी तु पौर्णम्या पौर्णमासः क्रतौ नरि ॥ ५४ ॥
33.4.54 · p. 393
अनुष्टुप्
प्रचेताः पुंसि वरुणे मुनौ हृष्टे तु वाच्यवत् ।योगे वरीयाञ्श्रेष्ठे च वरिष्ठे युवते त्रिषु ॥ ५५ ॥
33.4.55 · p. 394
अनुष्टुप्
मता मधुरसा मूर्वा द्राक्षादग्धिकयोरपि ।म्लाने मलीमसो लोहपुष्पकाशीशयोः पुमान् ॥ ५६ ॥
33.4.56 · p. 394
अनुष्टुप्
महारसस्तु खर्जूरे कोशकारे कसेरूणि ।राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे ॥ ५७ ॥
33.4.57 · p. 394
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 रू (wrong syllable)
रासेरसस्तु रासे स्याद्रससिद्धिवलावपि ।विभावसुर्बृहद्भानौ भानौ हारान्तरेऽपि च ॥ ५८ ॥
33.4.58 · p. 394
अनुष्टुप्
विभावसुः स्याद्गन्धर्वभेदे पुंसि निशि स्त्रियाम् ।विहायाः पुंसि विहगे विहायः सुरवर्त्मनि ॥ ५९ ॥
33.4.59 · p. 394
अनुष्टुप्
श्वःश्रेयसं तु कल्याणे परानन्दे च शर्म्मणि ।सप्तार्च्चिर्द्दहनेऽपि स्यात्सप्तार्चिः क्रूरलोचने ॥ ६० ॥
33.4.60 · p. 394
अनुष्टुप्
समञ्जसः स्यादुचितेऽप्यभ्यस्तेऽपि समञ्जसः ।मतः सर्वरसो वीणाप्रभेदे धूनके पुमान् ॥ ६१ ॥
33.4.61 · p. 395
अनुष्टुप्
साधीयानतिसाधौ स्यादतिवादेऽपि वाच्यवत् ।भवेत्सिद्धरसो व्याडिप्रभृतौ च रसेऽपि च ॥ ६२ ॥
33.4.62 · p. 395
अनुष्टुप्
सुमनाः पुष्पमालत्योः स्त्रियां धीरे सुरे पुमान् ।सुमेधास्तु स्त्रियां ज्योतिष्मत्यां दिव्यमतौ त्रिषु ॥ ६३ ॥
33.4.63 · p. 395
अनुष्टुप्