All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
गान्तवर्गः · गचतुर्थम्
गचतुर्थम् ।
अनुषङ्गस्तु नाऽऽरब्धे कारुण्येऽपि क्वचिन्मतः ॥ ५७ ॥
3.4.57 · p. 56
त्यागे मोक्षेऽपवर्गः स्यात्साफल्ये कृतकृत्यतः ।अभिषङ्गस्तु संसर्गशपथाक्रोशगञ्जने ॥ ५८ ॥
3.4.58 · p. 56
अनुष्टुप्
ईहामृगो वृके जन्तौ प्रभेदे चंपकस्य च ।अथोपरागः स्वर्भानुग्रस्तयोः पुष्पवन्तयोः ॥ ५९ ॥
3.4.59 · p. 56
अनुष्टुप्
दुर्नयग्रहकल्लोले परीवापे तु पुंस्ययम् ।उपसर्गः स्मृतो रोगभेदे चोपप्लवेपि च ॥ ६० ॥
3.4.60 · p. 56
अनुष्टुप्
कटभङ्गस्तु शस्यानां नखच्छेदे नृपात्यये ।छत्रभङ्गस्तु वैधव्येऽस्वातन्त्र्यनृपनाशयोः ॥ ६१ ॥
3.4.61 · p. 56
अनुष्टुप्
दीर्घाध्वगस्तु करभे लेखहारे तु वाच्यवत् ।मल्लनागोऽभ्रमातङ्गे वात्स्यायनमुनावपि ॥ ६२ ॥
3.4.62 · p. 57
अनुष्टुप्
राजशृङ्गस्तु कनकदण्डमुद्गरयोः पुमान् ।समायोगस्तु संयोगे समवाये प्रयोजने ॥ ६३ ॥
3.4.63 · p. 57
अनुष्टुप्
सम्प्रयोगस्तु सुरते कार्मणेप्यन्वयेऽपि च ॥ ६४ ॥
3.4.64 · p. 57