All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
जान्तवर्गः · जद्वितीयम्
जद्वितीयम् ।
अजः कृष्णे स्मरहरे विधौ छागे रघोः सुते ।अब्जो धन्वन्तरौ चन्द्रे निचुले क्लीबमम्बुजे ॥ २ ॥
8.2.2 · p. 66
अनुष्टुप्
अस्त्री कम्बुन्यथाऽऽजिः स्यात्सङ्ग्रामेऽपि समक्षितौ ।उत्साहे कार्त्तिकेप्यूर्जस्तूर्जा वीर्ये बले द्वयोः ॥ ३ ॥
8.2.3 · p. 66
अनुष्टुप्
कञ्जः केशे विरिञ्चेऽपि कुञ्जं पीयूषपद्मयोः ।कुजस्तु नरकेऽङ्गारे द्रुमे कुञ्जं तु न स्त्रियाम् ॥ ४ ॥
8.2.4 · p. 66
अनुष्टुप्
हनौ वत्से निकुञ्जेऽपि कुब्जो न्युब्जे द्रुमान्तरे ।स्त्रियां तु खर्जूः खर्जूरवृक्षे कण्डूतिकीटयोः ॥ ५ ॥
8.2.5 · p. 67
अनुष्टुप्
खनौ सुरागृहे गञ्जा भाण्डागारे तु न स्त्रियाम् ।गञ्जने पुंसि खजा तु मन्थे दर्वीप्रहस्तयोः ॥ ६ ॥
8.2.6 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ख (wrong syllable)
गुञ्जा तु काकचिञ्च्यां स्यात्पटहे च कलध्वनौ ।द्विजो विप्रेऽण्डजे दन्ते भार्ङ्गीरेणुकयोर्द्विजा ॥ ७ ॥
8.2.7 · p. 67
अनुष्टुप्
ध्वजोऽस्त्री लिङ्गखट्वाङ्गपताकाचिह्नशौण्डिके ।निजस्त्रिषु स्वके नित्ये न्युब्जो दर्भस्रुचि स्मृतः ॥ ८ ॥
8.2.8 · p. 67
अनुष्टुप्
न्युब्जं तु कर्मरङ्गे स्यात् कुब्जाधोमुखयोस्रिषु ।पिञ्जो वधे बले पिञ्जं पिञ्जा तूलहरिद्रयोः ॥ ९ ॥
8.2.9 · p. 67
अनुष्टुप्
व्याकुले वाच्यवत्पिञ्जः प्रजा सन्तानलोकयोः ।भुजो भुजा च बाहौ स्यात् पाणिमात्रेऽपि तावुभौ ॥ १० ॥
8.2.10 · p. 67
अनुष्टुप्
मर्जुस्तु रजके पुंसि मर्जूः शुद्धावपि स्त्रियाम् ।रज्जुर्वेण्यां गुणेऽपि स्याद् राजिः स्त्री पङ्क्तिरेखयोः ॥ ११ ॥
8.2.11 · p. 68
अनुष्टुप्
रुजा रोगेऽपि भङ्गेऽपि लञ्जः स्यात्पट्टकच्छयोः ।लाजाः स्युर्भृष्टधान्येषु लाजः स्यादार्द्रतण्डुले ॥ १२ ॥
8.2.12 · p. 68
अनुष्टुप्
उशीरे लाजमुद्दिष्टं वाजः पक्षे स्यदेऽपि च ।मुनिभेदे खने वाजं त्वाज्ये यज्ञान्नपाथसोः ॥ १३ ॥
8.2.13 · p. 68
अनुष्टुप्
वीजं हेतावुपादानेप्यङ्कुरेऽपि च रेतसि ।वीजमल्पेऽपि तत्त्वेऽपि व्याजः साध्याऽपदेशयोः ॥ १४ ॥
8.2.14 · p. 68
अनुष्टुप्
सर्जूर्वणिजि पुंसि स्यात्सर्जूः स्याद्विद्युति स्त्रियाम् ।सन्नद्धे संभृते सज्जः सञ्जः शम्भुविरिञ्चयोः ॥ १५ ॥
8.2.15 · p. 68
अनुष्टुप्
स्वजः स्वेदे स्वजं रक्तेऽपत्ये च स्वजमन्यवत् ।
8.2.15 · p. 68