कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

अव्ययानि · पान्तानि

प०

अप स्यादपकृष्टार्थे वर्जनार्थे विपर्यये ।वियोगे विकृतौ चौर्ये हर्षनिर्देशयोरपि ॥ ४३ ॥
36.11.43 · p. 413
अनुष्टुप्
अपि सम्भावनाशङ्काप्रश्नगर्हासमुच्चये ।अपि युक्तपदार्थेषु कामकारक्रियास्वपि ॥ ४४ ॥
36.11.44 · p. 413
अनुष्टुप्
उप हीनेऽधिके व्याप्तौ शक्तौ चारम्भपूजयोः ।आचार्यकरणे दाने दाक्षिण्ये व्यत्ययेऽपि च ॥ ४५ ॥
36.11.45 · p. 413
अनुष्टुप्
तद्योगे दोषकथने मरणार्थोद्यमार्थयोः ।समासन्नेऽपि लिप्सायामुपशब्दः प्रकीर्त्तितः ॥ ४६ ॥
36.11.46 · p. 413
अनुष्टुप्