कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

नान्तवर्गः · नतृतीयम् (1/2)

नतृतीयम् ।

अङ्गनं प्राङ्गणे यानेप्यङ्गना नायिकान्तरे ॥ २८ ॥
21.3.28 · p. 189
अङ्गना वामनेभस्य हस्तिन्यामपि दृश्यते ।अञ्जनो दिक्करीन्द्रे स्यादञ्जनं तु रसाञ्जने ॥ २९ ॥
21.3.29 · p. 189
अनुष्टुप्
अक्षिकज्जलसौवीरे गिरिभेदेऽन्यथाञ्जने ।ज्येष्ठीभेदे मरुत्पत्न्यामञ्जनी लेप्ययोषिति ॥ ३० ॥
21.3.30 · p. 190
अनुष्टुप्
अध्वा वर्त्मनि संक्लेशे स्कन्दे संस्थानकालयोः ।अपानो गुदवाते स्यादपानं तु गुदे मतम् ॥ ३१ ॥
21.3.31 · p. 190
अनुष्टुप्
आब्जिनी विसिनीत्यादिपदान्यब्जसरोवरे ।महासहायामाम्लानः पुंस्येव त्रिषु निर्मले ॥ ३२ ॥
21.3.32 · p. 190
अनुष्टुप्
अयनं पथि भानोश्च दक्षिणोत्तरतोगतौ ।नाऽरत्निः कफणौ हस्ते प्रकोष्ठवितताङ्गुलौ ॥ ३३ ॥
21.3.33 · p. 190
अनुष्टुप्
अर्जुनः पार्थककुभकार्त्तवीर्यशिखण्डिषु ।मातुरेकसुतेऽपि स्यादर्जुनो धवलेऽन्यवत् ॥ ३४ ॥
21.3.34 · p. 190
अनुष्टुप्
अर्जुनी गव्युषायांच कुट्टिनीकरतोययोः ।अर्जुनं तु तृणे नेत्ररोगेऽपि क्लीबमर्जुनम् ॥ ३५ ॥
21.3.35 · p. 190
अनुष्टुप्
अर्थी स्याद्याचके यक्षे सेवके च विवादिनि ।अर्वा हये पुमानर्वा कुत्सितेऽप्यभिधेयवत् ॥ ३६ ॥
21.3.36 · p. 191
अनुष्टुप्
अर्शोघ्नी तालपर्ण्यां स्यादर्शोघ्नः शूरणे पुमान् ।अली तु वृश्चिके भृङ्गेऽप्यवनं रक्षणे मुदि ॥ ३७ ॥
21.3.37 · p. 191
अनुष्टुप्
अशनिस्तु द्वयोर्वज्रे तडित्यपि मताऽशनिः ।असनं क्षेपणे क्लीवमसनः पीतसारके ॥ ३८ ॥
21.3.38 · p. 191
अनुष्टुप्
असिक्नी सरिति प्रेष्याशुद्धान्ताऽवृद्धयोषिति ।आत्मा ब्रह्ममनोदेहस्वभावधृतिबुद्धिषु ॥ ३९ ॥
21.3.39 · p. 191
अनुष्टुप्
आत्मायत्तेऽप्यथाऽऽदानं ग्रहणे वाजिभूषणे ।आपन्नस्तु विपत्प्राप्ते प्राप्ते चाप्यभिधेयवत् ॥ ४० ॥
21.3.40 · p. 191
अनुष्टुप्
आसनं द्विरदस्कन्धपीठे पीठस्थितावपि ।आसनी पण्यवीथ्यां स्यादासनो जीवकद्रुमे ॥ ४१ ॥
21.3.41 · p. 191
अनुष्टुप्
उत्तानमुन्मुखे सुप्तेऽप्यगम्भीरेऽपि वाच्यवत् ।उत्थानमुद्गमे तन्त्रेऽप्युद्यमे हर्षणे रणे ॥ ४२ ॥
21.3.42 · p. 192
अनुष्टुप्
प्राङ्गणे पौरुषे चैव मलवेगे च पुस्तके ।उदानस्तूदरावर्त्ते कण्ठवाताहिभेदयोः ॥ ४३ ॥
21.3.43 · p. 192
अनुष्टुप्
उद्धानं चुल्लिकायां स्यान्मतमुद्गमनेऽपि च ।उद्यानं क्लीबमाक्रीडे निःसृतौ च प्रयोजने ॥ ४४ ॥
21.3.44 · p. 192
अनुष्टुप्
कठिना तु मता स्थाल्यां शर्करायां गुडस्य च ।खटिकायां तु कठिनी कठिनं निष्ठुरे त्रिषु ॥ ४५ ॥
21.3.45 · p. 192
अनुष्टुप्
कदनं युधाद्ये कामे कम्पनं कम्प्रकम्पयोः ।कमनः कामुके चाभिरूपे चाशोककामयोः ॥ ४६ ॥
21.3.46 · p. 192
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धा (wrong syllable)
कर्म्म व्याप्ये क्रियायां च परे स्यादङ्गसंस्कृतौ ।कर्त्तनं छेदने तूलतन्तुकर्मणि योषिताम् ॥ ४७ ॥
21.3.47 · p. 192
अनुष्टुप्
कलग्लायान्तु कलनं कलनं बन्धनेऽपि च ।कल्पनं छेदने क्लृप्तौ कल्पना गजसज्जने ॥ ४८ ॥
21.3.48 · p. 193
अनुष्टुप्
पणस्य मानदण्डस्य चतुर्थांशेऽपि काकिनी ।काञ्चनो धूर्त्तपुन्नागनागकेसरचम्पके ॥ ४९ ॥
21.3.49 · p. 193
अनुष्टुप्
उदुम्बरे काञ्चनारे हरिद्रायां च काञ्चनी ।क्लीबं तु काञ्चने हेम्नि केशरेऽपि च काञ्चनम् ॥ ५० ॥
21.3.50 · p. 193
अनुष्टुप्
काननं विपिनेऽपि स्याच्चतुर्म्मुखमुखे गृहे ।व्यासे कर्णेपि कानीनः कानीनः कन्यकासुते ॥ ५१ ॥
21.3.51 · p. 193
अनुष्टुप्
कामिनी नायिकाभेदे वन्दायामपि कामिनी ।कामी तु कामुके कोके कामी पारावतेऽपि च ॥ ५२ ॥
21.3.52 · p. 193
अनुष्टुप्
कुन्नानं तु ह्यलङ्कारे भाजने गोलकान्तरे ।कुहना दम्भचर्यायामीर्ष्यालौ दाम्भिके त्रिषु ॥ ५३ ॥
21.3.53 · p. 193
अनुष्टुप्
कृती तु पण्डिते योग्ये केतनं लाञ्छने गृहे ।केतनं स्यात्पताकायां कार्ये चोपनिमन्त्रणे ॥ ५४ ॥
21.3.54 · p. 194
अनुष्टुप्
चीनैकदेशे कौपीनं स्याद्गुह्याकार्ययोरपि ।कौलीनं तु परीवादे कुलीनत्वे कुकर्म्मणि ॥ ५५ ॥
21.3.55 · p. 194
अनुष्टुप्
गुह्येऽपि सङ्गरेपि श्वभुजङ्गपशुपक्षिणाम् ।भवेत्क्रन्दनमाह्वाने मतमश्रुविमोचने ॥ ५६ ॥
21.3.56 · p. 194
अनुष्टुप्
खड्गी तु गण्डके पुंसि खड्गी खड्गायुधेऽपि च ।गन्धनं सूचने हिंसासमुत्साहप्रकाशने ॥ ५७ ॥
21.3.57 · p. 194
अनुष्टुप्
गर्जनं तु मतं कोपे निस्वने मेघनिस्वने ।गहनं कानने दुःखे गह्वरे कलिलेऽपि च ॥ ५८ ॥
21.3.58 · p. 194
अनुष्टुप्
गायनं स्वप्ने क्लीबं च गीतजीविनि गायने ।विषदिग्धपशोर्म्मांसे गृञ्जनं लशुने पुमान् ॥ ५९ ॥
21.3.59 · p. 194
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्ने (wrong syllable)
गोमी गवीश्वरे हरौ स्यान्महेष्वासकेऽपि च ।गोस्तनी हारहूरायां हारभेदे तु गोस्तनः ॥ ६० ॥
21.3.60 · p. 195
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ह (wrong syllable)
ग्रावा तु पुंसि पाषाणे गिरिवारिदयोरपि ।घट्टना चलनायां स्यादावृत्त्यामपि घट्टिनी ॥ ६१ ॥
21.3.61 · p. 195
अनुष्टुप्
चक्री हरिकुलालाऽहिकोकेषु ग्रामजालिने ।चन्दना कालिभेदे स्याच्चन्दनं मलयोद्भवे ॥ ६२ ॥
21.3.62 · p. 195
अनुष्टुप्
चन्दनी तु नदीभेदे चर्म्म स्यात्फलकत्वयोः ।चर्म्मी फलकपाणौ स्याद्भृङ्गरीटे मृदुत्वचि ॥ ६३ ॥
21.3.63 · p. 195
अनुष्टुप्
चलनं भ्रमणे कम्पे वाच्यवत्कम्पशालिनि ।चलनी वस्त्रघर्घर्यां वारीभेदेऽपि दृश्यते ॥ ६४ ॥
21.3.64 · p. 195
अनुष्टुप्
चेतनश्चेतनायुक्ते त्रिषु संविदि चेतना ।पत्रे पतत्रे छदनं छद्म शापकिलासयोः ॥ ६५ ॥
21.3.65 · p. 195
अनुष्टुप्
लक्ष्येऽपि छर्दनस्तु स्यान्निम्बालम्बुषवान्तिषु ।छेदनं भेदने छेदे जगंस्तु जन्तुशुष्मणोः ॥ ६६ ॥
21.3.66 · p. 196
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
जघनं वनिताश्रोणीपुरोभागे कटावपि ।जयनं तु जये वाजिगजप्रभृतिकञ्चुके ॥ ६७ ॥
21.3.67 · p. 196
अनुष्टुप्
यवनो यवमात्रेऽपि यवाधिकतुरङ्गमे ।देशभेदे तुरुष्केऽपि जवनः प्रजवे त्रिषु ॥ ६८ ॥
21.3.68 · p. 196
अनुष्टुप्
तपनो रविसन्तापे मल्लके नरकान्तरे ।तमोघ्नश्चन्द्रसूर्याऽग्निबुद्धश्रीकण्ठविष्णुषु ॥ ६९ ॥
21.3.69 · p. 196
अनुष्टुप्
तलिनं विरले स्तोके स्वच्छगम्भीरयोरपि ।तलुनः पवने यूनि वाच्यवत्तलुनी स्त्रियाम् ॥ ७० ॥
21.3.70 · p. 196
अनुष्टुप्
तेमनं व्यञ्जने क्लेदे चुल्लिकाभिदि तेमनी ।तोदनं व्यथने तोत्रे त्यागी सूरेऽपि दातरि ॥ ७१ ॥
21.3.71 · p. 196
अनुष्टुप्
पुष्पे वीरेऽपि दमनो दर्शनं दृशि दर्प्पणे ।स्वप्ने वर्त्मनि बुद्धौ च शास्त्रधर्म्मोपलव्धिषु ॥ ७२ ॥
21.3.72 · p. 197
अनुष्टुप्
दंशनः शिशिरे पुंसि दंशनं कवचे रदे ।दहने दुष्टचरिते भल्लाते चित्रकेऽनले ॥ ७३ ॥
21.3.73 · p. 197
अनुष्टुप्
दृशानस्तु गृहपतौ दृशानं ज्योतिषि स्मृतम् ।देवनः पाशके पुंसि धन्व चापे स्थलेऽपि च ॥ ७४ ॥
21.3.74 · p. 197
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
धन्वी धनुर्द्धरे खिड्गेऽप्यर्जुने चार्जुनद्रुमे ।धमनस्त्वनले भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ ७५ ॥
21.3.75 · p. 197
अनुष्टुप्
धमनी कंधरायां च हरिद्राशिरयोरपि ।धाम रश्मौ गृहे देहे प्रभावस्थानजन्मसु ॥ ७६ ॥
21.3.76 · p. 197
अनुष्टुप्
धावनं धाविते शुद्धौ पृष्टिपर्ण्यां तु धावनी ।स्याद्धावनी रजन्यां च धौताजन्यां च तर्त्तरे ॥ ७७ ॥
21.3.77 · p. 197
अनुष्टुप्
ध्वजी द्विजे रथे शैले तुरङ्गे च भुजङ्गमे ।नन्दनो हर्षके पुत्रे नन्दनं मिश्रकावने ॥ ७८ ॥
21.3.78 · p. 198
अनुष्टुप्
नन्दनी तु मता देवधुनीधेनुननान्दृषु ।नन्दी नन्दीश्वरे गर्दभाण्डन्यग्रोधवृक्षयोः ॥ ७९ ॥
21.3.79 · p. 198
अनुष्टुप्
नलिनी तु सरोजिन्यां सरोजे च सरोवरे ।व्योमगङ्गामलिकयोः नलिनं तु जलाब्जयोः ॥ ८० ॥
21.3.80 · p. 198
अनुष्टुप्
निदानं रोगनियमेऽप्यादिहेत्ववमानयोः ।वत्सदाम्नि निदानं स्यान्निधनं कुलनाशयोः ॥ ८१ ॥
21.3.81 · p. 198
अनुष्टुप्
पत्री काण्डखगश्येननगद्रुरथिके रथे ।पद्मिनी पद्मनलिनीसरः सु वनितान्तरे ॥ ८२ ॥
21.3.82 · p. 198
अनुष्टुप्
पर्व स्यादुत्सवे ग्रन्थौ दर्शप्रतिपदोरपि ।तत्सन्धौ विषुवादौ च प्रस्तावे लक्षणान्तरे ॥ ८३ ॥
21.3.83 · p. 198
अनुष्टुप्
पवनोऽस्त्री कुलालस्य पाकस्थानेऽनिले पुमान् ।निर्विकल्पेऽपि पवनः पक्ष्म लोचनलोमनि ॥ ८४ ॥
21.3.84 · p. 199
अनुष्टुप्
पक्ष्म सूत्रादिसूक्ष्मांशे पक्ष्म स्यात्केशरेऽपि च ।पावनं तु जले कृच्छ्रे पावकाध्यासयोः पुमान् ॥ ८५ ॥
21.3.85 · p. 199
अनुष्टुप्
पाठीनस्तु वदाले स्यादपि चित्रवदालके ।पाठके गुग्गुलुद्रौ च प्रायश्चित्ते तु पाचनम् ॥ ८६ ॥
21.3.86 · p. 199
अनुष्टुप्
पाचनी तु हरीतक्यां पाचनो वह्निसिह्लयोः ।पावनं पावयितरि त्रिषु पूतेऽपि पावनम् ॥ ८७ ॥
21.3.87 · p. 199
अनुष्टुप्
वरुणे पुंसि स्यात्पाशी पाशी पाशधरेऽन्यवत् ।पिशुनो नारदे पुंसि खलसूचकयोस्त्रिषु ॥ ८८ ॥
21.3.88 · p. 199
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सि (wrong syllable)
पिशुनं कुङ्कुमे क्लीबं पृक्कायां पिशुना मता ।पीतनः कपिचूते स्यात्पीतनं पीतदारुणि ॥ ८९ ॥
21.3.89 · p. 199
अनुष्टुप्
कुङ्कुमे हरिताले च पूतना राक्षसीभिदि ।पथ्यायां चाथ पृतनाऽनीकिनीसैन्यभेदयोः ॥ ९० ॥
21.3.90 · p. 200
अनुष्टुप्
स्याच्चमूसेनयोश्चाथ प्रज्ञानं लाञ्छने धियि ।प्रधनं दारुणे सङ्ख्ये प्रधानं परमात्मनि ॥ ९१ ॥
21.3.91 · p. 200
अनुष्टुप्
क्षेत्रज्ञधीमहामात्रेऽप्येकत्वे तूत्तमे सदा ।प्रसूनो वाच्यवज्जाते प्रसूनं फलपुष्पयोः ॥ ९२ ॥
21.3.92 · p. 200
अनुष्टुप्
प्रसन्ना मदिरायां स्यात्प्रसादसहिते त्रिषु ।प्रेत्वा तु सारसे वाते प्रेम तु स्नेहनर्म्मणोः ॥ ९३ ॥
21.3.93 · p. 200
अनुष्टुप्
फाल्गुनस्तु तपस्ये स्यादर्जुने चार्जुनद्रुमे ।फाल्गुनः स्यान्नदीजेऽपि फाल्गुनी पूर्णिमान्तरे ॥ ९४ ॥
21.3.94 · p. 200
अनुष्टुप्
बन्धनं तु शतबन्धे बन्धमात्रेऽपि बन्धनम् ।वर्द्धनं छेदने वृद्धौ वारिधान्यां तु वर्द्धिनी ॥ ९५ ॥
21.3.95 · p. 200
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
संपूर्वाद्वर्द्धनं पोषे वसनं छादनांशुके ।वाणिनी तु मत्तानर्त्तक्योर्विदग्धायां स्त्रियामथ ॥ ९६ ॥
21.3.96 · p. 201
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वासना वसने वारासनज्ञाने च धूपने ।वाहिनी स्यादनीकिन्यां सैन्यभेदे सरित्यपि ॥ ९७ ॥
21.3.97 · p. 201
अनुष्टुप्
गुरौ पुंसि बुधानः स्याद्बुधानः पण्डितेऽपि च ।बोधनी बोधिपिप्पल्योर्बोधनं गन्धदीपने ॥ ९८ ॥
21.3.98 · p. 201
अनुष्टुप्
सुरवर्त्मनि च व्योम व्योमचारिणि च स्मृतम् ।ब्रह्मा विरिञ्चे विप्रेऽपि ऋत्विक्चन्द्रार्कयोगयोः ॥ ९९ ॥
21.3.99 · p. 201
अनुष्टुप्
ब्रह्म क्लीबं श्रुतिज्ञानेऽप्यध्यात्मतपसोरपि ।ब्रह्माण्यां भट्टिनी नाट्ये राजयोषिति भट्टिनी ॥ १०० ॥
21.3.100 · p. 201
अनुष्टुप्
भण्डनं तु खलीकारे युद्धसन्नाहयोरपि ।भर्म्म स्वर्णे भृतौ सारे भवनं भावसद्मनोः ॥ १०१ ॥
21.3.101 · p. 201
अनुष्टुप्
भाजनं पात्रे योग्येऽपि भावना ध्यानलेपयोः ।भुवनं तु जगल्लोकसलिलेषु विहायसि ॥ १०२ ॥
21.3.102 · p. 202
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्रे (wrong syllable)
भोगी भोगान्विते सर्पे ग्रामण्यां राज्ञि नापिते ।संगृहीतस्त्रियां राजभार्याभेदेऽपि भोगिनी ॥ १०३ ॥
21.3.103 · p. 202
अनुष्टुप्
मंजनं भोजने क्लीबमलंकर्तरि वाच्यवत् ।मदनः स्मरधत्तूरवसन्तद्रुमसिक्थके ॥ १०४ ॥
21.3.104 · p. 202
अनुष्टुप्
मलनः पठवासेऽपि स्यान्मलनं कर्द्दमे मतम् ।पुष्पवत्यां तु मलिनी मलिनं दूषितेऽसिते ॥ १०५ ॥
21.3.105 · p. 202
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 न्मल (syllable split)
मार्ज्जनं तु मतं मार्ष्टौ मार्जनो लोध्रपादपे ।मालिनी वृत्तभेदे स्याद्गङ्गामालिकयोषितोः ॥ १०६ ॥
21.3.106 · p. 202
अनुष्टुप्
गौर्यां चम्पानगर्यां च राशौ तु मिथुनः पुमान् ।मिथुनं दम्पतीयुग्मे सम्बन्धग्राम्यधर्म्मयोः ॥ १०७ ॥
21.3.107 · p. 202
अनुष्टुप्
मुण्डनं वपने त्राणे मेहनं शिश्नमूत्रयोः ।मैथुनं स्यान्निधुवने मैथुनं सङ्गतावपि ॥ १०८ ॥
21.3.108 · p. 203
अनुष्टुप्
यमनं स्यादुपरमे बन्धने च यमे तथा ।यापनं वर्त्तने कालक्षेपे निरसनेऽपि च ॥ १०९ ॥
21.3.109 · p. 203
अनुष्टुप्
प्रजानो ब्राह्मणेऽपि स्यात्प्रजानः सारथावपि ।युवा तु तरुणे श्रेष्ठे निसर्गबलशालिनि ॥ ११० ॥
21.3.110 · p. 203
अनुष्टुप्
योजनं तु चतुःक्रोश्यां योगे च परमात्मनि ।रजनी तु हरिद्रायां लाक्षायां नीलिकारसे ॥ १११ ॥
21.3.111 · p. 203
अनुष्टुप्
रञ्जनो रागजनके रञ्जनं रक्तचन्दने ।रञ्जनी नीलिकाशुण्डामञ्जिष्ठारोचनीष्वपि ॥ ११२ ॥
21.3.112 · p. 203
अनुष्टुप्
जिह्वाकांचीरसज्ञेषु रसना रसने स्वने ।स्वेदने मूर्छने भस्त्रावाते नासामरुत्पथे ॥ ११३ ॥
21.3.113 · p. 203
अनुष्टुप्
रागी तु कोपने रक्ते रागयुक्तेऽपि कामिनि ।राजा चन्द्रे नृपे शक्रे क्षत्रिये प्रभुयक्षयोः ॥ ११४ ॥
21.3.114 · p. 204
अनुष्टुप्
राधनं साधने प्राप्तौ तोषणेऽपि च राधनम् ।रेचनी त्रिवृता शुण्डा रोचनी दन्तिकार्थिका ॥ ११५ ॥
21.3.115 · p. 204
अनुष्टुप्
रोचनो रक्तकह्लारे कूटशाल्मलिशाखिनि ।अपि गोपित्तमङ्गलरचितस्त्रीषु रोचना ॥ ११६ ॥
21.3.116 · p. 204
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ङ्ग (wrong syllable)
रोदनं क्रन्दनेऽपि स्यादश्रुमात्रेऽपि रोदनम् ।रोही रोहितके बोधिद्रुमे न्यग्रोधपादपे ॥ ११७ ॥
21.3.117 · p. 204
अनुष्टुप्
लङ्घनं क्रमणे पीडाकृतोपवसने प्लुतौ ।ललना तु नितम्बिन्यां जिह्वायां नाडिकान्तरे ॥ ११८ ॥
21.3.118 · p. 204
अनुष्टुप्
लक्ष्म चिह्ने प्रधानेऽपि लाञ्छनं नामलक्ष्मणोः ।लेखनं तु लिपिन्यासे छर्दे भूर्जेऽपि लेखनम् ॥ ११९ ॥
21.3.119 · p. 204
अनुष्टुप्
वचक्नुर्वाक्पटौ विप्रे वशी सुगतशक्रयो ।वपनं मुण्डने वापे वमनं छर्द्दनेऽर्द्दने ॥ १२० ॥
21.3.120 · p. 205
अनुष्टुप्
आहतावप्यथ क्लीबं वर्जनं त्यागहिंसयोः ।वर्त्तनं जीवने जीव्ये तूलनाले च वर्त्तनम् ॥ १२१ ॥
21.3.121 · p. 205
अनुष्टुप्
वर्त्तनी तर्क्कुपिण्डेऽपि मलिने पथि वर्त्तनी ।वर्णी चित्रकरे ब्रह्मचारिलेखकयोरपि ॥ १२२ ॥
21.3.122 · p. 205
अनुष्टुप्
आकारे शोभने वर्ष्म वर्ष्म देहप्रमाणयोः ।वर्त्म नेत्रच्छदे मार्गे वाग्मी वाचस्पतौ पटौ ॥ १२३ ॥
21.3.123 · p. 205
अनुष्टुप्
वाजी वाहे खगे बाणे खर्वेषु त्रिषु वामनः ।वामनो विष्णुभेदे स्यादश्वे यान्यादिदिग्गजे ॥ १२४ ॥
21.3.124 · p. 205
अनुष्टुप्
विक्लिन्नस्तिमिते जीर्णे जराजीर्णेपि वाच्यवत् ।विच्छिन्नस्तु समालब्धे विभक्ते कुटिलेऽन्यवत् ॥ १२५ ॥
21.3.125 · p. 205
अनुष्टुप्
विज्ञानं कार्म्मणे ज्ञाने वितानं रिक्तमन्दयोः ।त्रिषु न स्त्री वितानं स्याद्विस्तारोल्लोचयोर्मखे ॥ १२६ ॥
21.3.126 · p. 206
अनुष्टुप्
वस्त्रवेश्मन्यवसरे वृत्ते च क्रतुकर्म्मणि ।विपन्नो भुजगे पुंसि त्रिषु नष्टे विपद्गते ॥ १२७ ॥
21.3.127 · p. 206
अनुष्टुप्
विमानो व्योमयानेऽस्त्री सप्तभूमौ गृहेऽपि च ।विलग्नस्त्वंगमध्ये स्यात्त्रिष्वेव चाङ्गलग्नयोः ॥ १२८ ॥
21.3.128 · p. 206
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
विषघ्नस्तु शिरीषे स्याद्गुडूचीत्रिवृतोः स्त्रियाम् ।वृजिनं कलुषे क्लीबं केशे ना कुटिले त्रिषु ॥ १२९ ॥
21.3.129 · p. 206
अनुष्टुप्
वृषा सुरेश्वरे कर्णे वेदना ज्ञानपीडयोः ।वेष्टनं कर्णशष्कुल्यामुष्णीषे मुकुटे वृतौ ॥ १३० ॥
21.3.130 · p. 206
अनुष्टुप्
व्यञ्जनं तेमने श्मश्रुचिह्नावयवकादिषु ।स्वातंत्र्यकृत्ये व्युत्थानं विरोधाचरणेऽपि वा ॥ १३१ ॥
21.3.131 · p. 206
अनुष्टुप्
व्यसनं त्वशुभे सक्तौ पानस्त्रीमृगयादिषु ।दैवानिष्टफले पाके विपत्तौ विफलोद्यमे ॥ १३२ ॥
21.3.132 · p. 207
अनुष्टुप्
सक्तिमात्रे सुचरिताद्भ्रंशे कोपजदूषणे ।शकुनं मङ्गलाशंसिनिमित्ते शकुनः खगे ॥ १३३ ॥
21.3.133 · p. 207
अनुष्टुप्
शकुनिः पुंसि विहगे सौवश्वे करणान्तरे ।शङ्खिनी शङ्खयूधे स्याद्भुजङ्गस्त्रीप्रभेदयोः ॥ १३४ ॥
21.3.134 · p. 207
अनुष्टुप्
शङ्खिनी वेतपुन्नागे चोरपुष्प्यां च शङ्खिनी ।शतघ्नी शस्त्रभेदेऽपि वृश्चिकालीकरञ्जयोः ॥ १३५ ॥
21.3.135 · p. 207
अनुष्टुप्
शमनस्तु यमे शान्तिवधयोः शमनं मतम् ।शयनं तल्पमात्रेऽपि निद्रासुरतयोरपि ॥ १३६ ॥
21.3.136 · p. 207
अनुष्टुप्
शाखी महीरुहे वेदे तुरुष्काख्यजनेऽपि च ।शास्त्राज्ञाराजदत्तोर्वीराजलेखेषु शासनम् ॥ १३७ ॥
21.3.137 · p. 207
अनुष्टुप्
शिखी केतुग्रहे वह्नौ मयूरे कुक्कुटे शरे ।बलीवर्द्दे बके वृक्षे व्रतिभेदसचूडयोः ॥ १३८ ॥
21.3.138 · p. 208
अनुष्टुप्
शिल्पी तु वाच्यवत्कारौ नासिकायां तु शिल्पिनी ।शृङ्गी नागेऽपि वृषभे पर्वतेऽपि महीरुहे ॥ १३९ ॥
21.3.139 · p. 208
अनुष्टुप्
शोभनो योगभेदे ना शोभनः सुन्दरे त्रिषु ।श्रीघनः सुगते भिक्षौ श्रीघनं दधि न द्वयोः ॥ १४० ॥
21.3.140 · p. 208
अनुष्टुप्
श्लेष्मन्घी मल्लिकायां स्यात्कम्पिल्लकफणिज्जयोः ।श्वसनः पवने श्वासे श्वसनो मदनद्रुमे ॥ १४१ ॥
21.3.141 · p. 208
अनुष्टुप्
सन्धानं स्यादभिषवे क्लीबं सङ्घट्टनेऽपि च ।सन्धिनी तु वृषाक्रान्ताऽकालदुग्धगवोः स्मृता ॥ १४२ ॥
21.3.142 · p. 208
अनुष्टुप्
समानो नाभिपवने सदेकसदृशे त्रिषु ।सम्पन्नं त्रिषु सम्पत्तिसहिते साधितेऽपि च ॥ १४३ ॥
21.3.143 · p. 208
अनुष्टुप्
संव्यानमुत्तरासङ्गे संव्यानं छादने तथा ।सवनं यजने स्नाने सोमनिर्द्दमने मतम् ॥ १४४ ॥
21.3.144 · p. 209
अनुष्टुप्
सादी तु सारथौ वाहवाहके हस्तिवाहके ।साधनं मेहने सैन्ये निवृत्तिगतिसिद्धिषु ॥ १४५ ॥
21.3.145 · p. 209
अनुष्टुप्
करणे चोपकरणे मृतसंस्करणे वधे ।द्रवणे चानुव्रज्यायामुपाये दापने धने ॥ १४६ ॥
21.3.146 · p. 209
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नु (wrong syllable)
साधनो यज्ञकर्म्मान्ते यजमानप्रचेतसोः ।मर्यादायां स्त्रियां सीमा क्षेत्रे घाटे स्थितावपि ॥ १४७ ॥
21.3.147 · p. 209
अनुष्टुप्