All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
भान्तवर्गः · भतृतीयम्
भतृतीयम् ।
पापेऽप्यरिष्टेऽप्यशुभमात्मभूः स्मरवेधसोः ।आरम्भ उद्यमे दर्प्पे त्वरायां च वधेऽपि च ॥ ११ ॥
25.3.11 · p. 238
अनुष्टुप्
ऋषभः श्रेष्ठवृषयोरष्टवर्गौषधान्तरे ।स्वराद्रिभेदे वराहपुच्छे रन्ध्रे च कर्णयोः ॥ १२ ॥
25.3.12 · p. 238
अनुष्टुप्
ऋषभी तु नराकारनारीविधवयोषितोः ।शूकशिंब्यां शिरालायां श्रेष्ठे स्यादुत्तरस्थितः ॥ १३ ॥
25.3.13 · p. 239
अनुष्टुप्
ककुभोऽर्जुनवृक्षेऽपि रागभेदे प्रसेवके ।ककुब्दिक्शोभयोः शास्त्रे कम्बले चम्पकस्रजि ॥ १४ ॥
25.3.14 · p. 239
अनुष्टुप्
करभो मणिबन्धादिकनिष्ठान्ते क्रमेलके ।अष्टापदेऽपि करभः शरभे च मृगान्तरे ॥ १५ ॥
25.3.15 · p. 239
अनुष्टुप्
कुसुम्भं हेमनि महारजने ना कमण्डलौ ।गर्द्दभी रासभे गन्धभेदे क्लीबं तु कैरवे ॥ १६ ॥
25.3.16 · p. 239
अनुष्टुप्
गर्द्दभी स्वल्परुग्जन्तुभेदयोरथ पुंस्ययम् ।दुन्दुभिर्दैत्यभेर्योः स्त्री त्वक्षबिन्दुत्रिके द्वये ॥ १७ ॥
25.3.17 · p. 239
अनुष्टुप्
दुष्प्रापे वल्लभे कच्छरोगिणि त्रिषु वल्लभः ।निकुम्भः कुम्भकर्णस्य पुत्रे दन्त्यामपि स्मृतः ॥ १८ ॥
25.3.18 · p. 239
अनुष्टुप्
वल्लभो ना कुलीनाश्वे दयिताध्यक्षयोस्त्रिषु ।पुनर्नवायां वर्षाभूः स्त्री ना किंचुलके प्लवे ॥ १९ ॥
25.3.19 · p. 240
अनुष्टुप्
विष्कम्भो योगभेदेऽपि बन्धभेदेऽपि योगिनाम् ।रूपकाङ्गे परिष्टम्भे विस्तारप्रतियत्नयोः ॥ २० ॥
25.3.20 · p. 240
अनुष्टुप्
विष्कम्भः प्रतिबन्धेऽपि वैदर्भे विस्मृतावपि ।विश्रम्भः केलिकलहे विश्वासे प्रणये वधे ॥ २१ ॥
25.3.21 · p. 240
अनुष्टुप्
वृषभस्तु वृषे शुक्रे वृषभः पुङ्गवेऽपि च ।वैदर्भं वाक्यवक्रत्वे वैदर्भः स्यान्नृपान्तरे ॥ २२ ॥
25.3.22 · p. 240
अनुष्टुप्
सनाभिः पूजने पुंसि सनाभिः सदृशे त्रिषु ।सुरभिश्चम्पके चैत्रे वसन्ते गन्धके कवौ ॥ २३ ॥
25.3.23 · p. 240
अनुष्टुप्
स्वर्णे जातीफले चाब्जे त्रिषु मद्यसुगन्धयोः ।ख्याते च स्त्री तु शल्लक्यां सुरभी मातृभेदयोः ॥ २४ ॥
25.3.24 · p. 240
अनुष्टुप्