All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
नान्तवर्गः · नपञ्चमम्
नपञ्चमम् ।
अग्रजन्मा विधौ विप्रे ज्येष्ठभ्रातरि च स्मृतः ।अतिसर्जनमिच्छन्ति वधे दानेऽपि न द्वयोः ॥ २२७ ॥
21.5.227 · p. 222
अनुष्टुप्
अनुवासनमाख्यातं स्नेहकर्मणि धूपने ।अन्तेवासी तु चण्डाले शिष्यप्रान्तगयोरपि ॥ २२८ ॥
21.5.228 · p. 223
अनुष्टुप्
अपवर्जनमित्येतद् दानेऽपि परिवर्जनम् ।अथ स्यादभिनिष्ठानः पुंसि चन्द्रविसर्गयोः ॥ २२९ ॥
21.5.229 · p. 223
अनुष्टुप्
स्यादुपस्पर्शनं स्पर्शे स्नाने चाचमनेऽपि च ।त्रिलिंग्यामुपसंपन्नं निहितेऽपि सुसंस्कृते ॥ २३० ॥
21.5.230 · p. 223
अनुष्टुप्
कपिशायनमित्येतन्मद्ये देशान्तरे पुमान् ।कामचारी तु चटके कामिस्वच्छन्दयोस्त्रिषु ॥ २३१ ॥
21.5.231 · p. 223
अनुष्टुप्
धातुवादरते कांस्यकारे कारन्धमी मतः ।किष्कुपर्वा तु वंशे स्यात्कोषकारे नडे(ले)ऽपि च ॥ २३२ ॥
21.5.232 · p. 223
अनुष्टुप्
कृष्णवर्त्मा हुतवहे दुराचारे विधुन्तुदे ।कोपने खरसोल्ले च वर्त्तते खरभाञ्जनम् ॥ २३३ ॥
21.5.233 · p. 223
अनुष्टुप्
स्याद्गन्धमादनः शैलभेदे भृङ्गेऽपि गन्धके ।लतामृगप्रभेदे च सुरायां गन्धमादनी ॥ २३४ ॥
21.5.234 · p. 224
अनुष्टुप्
चक्रचारी मतः पोताघानके ग्रामजालिनि ।चिरजीवी चिरायुष्के स्यादजेऽपि सकृत्प्रजे ॥ २३५ ॥
21.5.235 · p. 224
अनुष्टुप्
तिक्तपर्वा हिलमोचीगुडूचीमधुयष्टिषु ।धूमकेतनशब्दोयं ग्रहभेदे हुताशने ॥ २३६ ॥
21.5.236 · p. 224
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
लोकेश्वरे विधौ सूर्ये धनदे पद्मलाञ्छनः ।तारायां च सरस्वत्यां पद्मायां पद्मलाञ्छना ॥ २३७ ॥
21.5.237 · p. 224
अनुष्टुप्
पीतचन्दनमित्येतत्कालीयकहरिद्रयोः ।पृष्ठशृङ्गी तु षण्ढे स्याद्दंशभीरौ वृकोदरे ॥ २३८ ॥
21.5.238 · p. 224
अनुष्टुप्
प्रवलाकी भुजङ्गेऽपि मेघनादानुलासिनि ।बोधने प्रतिपत्तौ च दानेऽपि प्रतिपादनम् ॥ २३९ ॥
21.5.239 · p. 224
अनुष्टुप्
वनमाली हृषीकेशे वाराह्यां वनमालिनि ।स्त्रीरत्ने च फलिन्यां च लाक्षायां वरवार्णिनी ॥ २४० ॥
21.5.240 · p. 225
अनुष्टुप्
रोचनायां हरिद्रायामपि स्याद्वरवर्णिनी ।देवदारुणि कालीये दृश्यते वरचन्दनम् ॥ २४१ ॥
21.5.241 · p. 225
अनुष्टुप्
व्योमचारी विहङ्गेऽपि सुरे विद्याधरेऽपि च ।वनमालिनि रोलम्बे विज्ञेयो मधुसूदनः ॥ २४२ ॥
21.5.242 · p. 225
अनुष्टुप्
शातकुम्भे कुसुम्भेऽपि महारजनमद्वयोः ।कृत्तिवाससि काकोले श्रीफले मृत्युवञ्चनः ॥ २४३ ॥
21.5.243 · p. 225
अनुष्टुप्
विघ्नकारी मतो भीमदर्शनेऽपि विघातिनि ।विश्वकर्मा तु मार्तण्डे मुनिभिद्देवशिल्पिनोः ॥ २४४ ॥
21.5.244 · p. 225
अनुष्टुप्
वृषपर्वा हरे दैत्ये शृङ्गारिणि कसेरुणि ।मासिकाजलपिप्पल्योर्दृश्यते शकुलादनी ॥ २४५ ॥
21.5.245 · p. 225
अनुष्टुप्
पिञ्जन्यां कटुकायां च सम्मता शकुलादनी ।शालङ्कायनशब्दः स्यादृषिभेदेऽपि नन्दिनि ॥ २४६ ॥
21.5.246 · p. 226
अनुष्टुप्
शिवकीर्त्तनशब्दोऽयं भृङ्गरीटेऽपि माधवे ।स्यादर्जुनेऽपि पीयूषधामनि श्वेतवाहनः ॥ २४७ ॥
21.5.247 · p. 226
अनुष्टुप्
श्वेतधामा सुधाधाम्नि घनसाराब्धिफेनयोः ।सिन्धुरे धान्यभेदे च वर्त्तते षष्टिहायनः ॥ २४८ ॥
21.5.248 · p. 226
अनुष्टुप्
संप्रयोगी कलाकेलौ कामुके सुप्रयोगिनि ।गोशीर्षे दैवततरौ हरिचन्दनमस्त्रियाम् ॥ २४९ ॥
21.5.249 · p. 226
अनुष्टुप्
ज्योत्स्नायां कुङ्कुमे पद्मपारगे हरिचन्दनम् ।पुमानहस्करे मेघवाहने करिवाहनः ॥ २५० ॥
21.5.250 · p. 226
अनुष्टुप्