All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
णान्तवर्गः · णद्वितीयम्
णद्वितीयम् ।
सूक्ष्मे व्रीह्यन्तरेऽप्यणुः ।अणिराणिवदक्षाग्रकीलसीमाश्रिषु द्वयोः ॥ १ ॥
16.1.1 · p. 99
अनुष्टुप्metre not read in every line
उष्णः स्यादातपे ग्रीष्मे वाच्यवत्तप्तदक्षयोः ।ऊर्णा भ्रूमध्यजावर्त्ते भवेन्मेष्यादिलोम्नि च ॥ २ ॥
16.1.2 · p. 100
अनुष्टुप्
पिप्पलीजीरकुम्भीरमक्षिकासु कणा स्मृता ।कणोऽतिसूक्ष्मे धान्यांशे कर्णः श्रोत्रे पृथासुते ॥ ३ ॥
16.1.3 · p. 100
अनुष्टुप्
सुवर्णालौ च काणस्तु मौद्गल्याधिकलोचने ।किणस्तु व्रणे चिह्ने स्यादथ सूक्ष्मव्रणे गुणे ॥ ४ ॥
16.1.4 · p. 100
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णे (wrong syllable)
कीर्णं छन्ने परिक्षिप्ते हिंसितेऽप्यभिधेयवत् ।कुणिस्तु कुकरे तुन्ने कृष्णे विष्णौ पिकेऽर्जुने ॥ ५ ॥
16.1.5 · p. 100
अनुष्टुप्
व्यासे कृष्णं तु मरिचे लोहे च त्रिषु तद्वति ।कृष्णा तु द्रौपदीनीलीहाराहूरासु पिप्पलौ ॥ ६ ॥
16.1.6 · p. 100
अनुष्टुप्
कोणोऽस्रौ लगुडे वाद्यप्रभेदे चार्क्कसम्भवे ।वीणादिवादनोपायेऽप्येकदेशेऽपि वाच्यवत् ॥ ७ ॥
16.1.7 · p. 100
अनुष्टुप्
गणः समूहे प्रमथे संख्यासैन्यप्रभेदयोः ।गुणो रूपादिसत्त्वादिबिंबादिहरितादिषु ॥ ८ ॥
16.1.8 · p. 101
अनुष्टुप्
सूदेऽप्रधाने सन्ध्यादौ रज्जौ मौर्व्यां वृकोदरे ।गेष्णुर्नटे गायने स्याद् घृणा कारुण्यनिन्दयोः ॥ ९ ॥
16.1.9 · p. 101
अनुष्टुप्
घ्राणं घ्राणेऽपि नासायां चूर्णी तु स्यात्कपर्दके ।चूर्णः क्षोदे क्षारभेदे चूर्णानि गन्धशुक्तिषु ॥ १० ॥
16.1.10 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
जर्णः कलानिधौ वृक्षे जिष्णुः पार्थेन्द्रवह्निषु ।जित्वरे त्रिषु जीर्णं तु पक्वे वृद्धे जरान्तरे ॥ ११ ॥
16.1.11 · p. 101
अनुष्टुप्
झणिः पूगे दुष्टदैवश्रुतौ स्त्री कठिनेऽन्यवत् ।तीक्ष्णं क्षारेऽथ निशिततिग्मात्मत्यागिषु त्रिषु ॥ १२ ॥
16.1.12 · p. 101
अनुष्टुप्
निरालस्ये सुबुद्धौ च त्रिषु तीक्ष्णं च मुष्कके ।तीक्ष्णं लोहे विषे तिग्मे यवाग्रे लवणे रणे ॥ १३ ॥
16.1.13 · p. 101
अनुष्टुप्
तूणी नील्यां निषङ्गे ना तृष्णा लिप्सापिपासयोः ।द्रोणं तु रक्षिते रक्ष्ये रक्षणत्रायमाणयोः ॥ १४ ॥
16.1.14 · p. 102
अनुष्टुप्
दीर्णं विदारिते भीते स्फुटितेऽप्यभिधेयवत् ।देष्णुर्द्दातरि दुर्द्दान्ते द्रुणो वृश्चिकमृगयोः ॥ १५ ॥
16.1.15 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 मृ (wrong syllable)
द्रुणी तु कच्छपीद्रोण्योर्द्रुणं चापकृपाणयोः ।द्रोणस्तु द्रोणकाके स्यादपि द्रोणः कृपीपतौ ॥ १६ ॥
16.1.16 · p. 102
अनुष्टुप्
आढकानां चतुष्केपि द्रोणं स्यादाढकेऽस्त्रियाम् ।द्रोणी काष्ठाम्बुवाहिन्यां गवां घासभुजिस्थितौ ॥ १७ ॥
16.1.17 · p. 102
अनुष्टुप्
काष्ठागारे गिरेः सन्धौ नीवृद्भेदेऽपि दृश्यते ।वर्णः स्वर्णेऽपि रूपेऽपि पणो मूल्ये भृतौ ग्लहे ॥ १८ ॥
16.1.18 · p. 102
अनुष्टुप्
पणोऽशीतिवराटेऽपि पणः कार्षापणे धने ।द्यूते विक्रय्यशाकादेर्बद्धमुष्टावपि स्मृतः ॥ १९ ॥
16.1.19 · p. 102
अनुष्टुप्
पणो द्यूतादिषूत्सृष्टे व्यवहारेऽप्ययं पणः ।पर्णं पत्रे पतत्रे च पर्णः स्यात्पुंसि किंशुके ॥ २० ॥
16.1.20 · p. 103
अनुष्टुप्
पार्ष्णिश्चरणमूले ना कुम्भीपाश्चात्त्यभागयोः ।सेनापृष्ठेऽपि पार्ष्णिः स्यात्पार्ष्णिः स्यादुन्मदस्त्रियाम् ॥ २१ ॥
16.1.21 · p. 103
अनुष्टुप्
समग्रे पूरिते पूर्णस्त्रिषु शक्ते तु पुंस्ययम् ।प्राणा असुष्वथ प्राणे विड्वातेऽप्यनिले बले ॥ २२ ॥
16.1.22 · p. 103
अनुष्टुप्
काव्यजीवे च बोले च प्राणं तु त्रिषु पूरिते ।फाणिर्गुडे करण्डे च वाणी द्यूतौ च वाचि च ॥ २३ ॥
16.1.23 · p. 103
अनुष्टुप्
वाणिस्तु हारके मूल्ये भ्रूणः स्त्रीगर्भडिम्भयोः ।मणिर्द्वयोर्मेहनाग्रे रत्ने छागीगलस्तने ॥ २४ ॥
16.1.24 · p. 103
अनुष्टुप्
अलिञ्जरेऽपि मुक्तादौ मोणस्तु पटमुत्सके ।मोणो बाणेपि कुम्भीरे मक्षिकाहिकरण्डयोः ॥ २५ ॥
16.1.25 · p. 103
अनुष्टुप्
रणः कोणे क्वणे युद्धे रेणुर्धूल्यणुपर्प्पटे ।अथ पुंस्येव वर्णः स्यात्स्तुतौ रूपयशोगुणे ॥ २६ ॥
16.1.26 · p. 104
अनुष्टुप्
रागे द्विजादौ मुक्तादौ शोभायां चित्रकम्बले ।व्रते गीतक्रमे देशेऽप्यस्त्री स्याद्वर्णकेऽक्षरे ॥ २७ ॥
16.1.27 · p. 104
अनुष्टुप्
वाणो वलिसुते काण्डे काण्डाशे केवले पुमान् ।बाणो वाणा च झिंट्यां स्याद् वाणको व्यन्तरे क्वचित् ॥ २८ ॥
16.1.28 · p. 104
अनुष्टुप्
विष्णुः कृष्णे वसौ सूर्ये विष्णुर्न्नारायणार्कयोः ।वसुर्दैवतभेदेऽपि वीणा वल्लकिविद्युतोः ॥ २९ ॥
16.1.29 · p. 104
अनुष्टुप्
वृष्णिः स्याद्यादवे मेषे वृष्णिः पाषण्डिचण्डयोः ।वेणी नदीनां सङ्गे स्यात् केशबन्धान्तरेऽपि च ॥ ३० ॥
16.1.30 · p. 104
अनुष्टुप्
देवताडेऽपि वेणी स्त्री वेणुर्वंशे नृपान्तरे ।शाणोर्द्धमाषके कर्षे कषणे करपत्रके ॥ ३१ ॥
16.1.31 · p. 104
अनुष्टुप्
शीतत्राणान्तरे शाणी शीर्णमल्पविशीर्णयोः ।शोणो नदे कोकनदच्छवौ श्योनाकबर्हिषोः ॥ ३२ ॥
16.1.32 · p. 105
अनुष्टुप्
लोहिताश्वेऽप्यथ श्रोणिर्द्वयोः स्यात्कारुसंहतौ ।केशपात्रान्तरे श्रोणिः श्रेणिः पङ्क्तावनिः स्त्रियाम् ॥ ३३ ॥
16.1.33 · p. 105
अनुष्टुप्
श्राणा यवाग्वां श्राणं तु पक्वे स्यादभिधेयवत् ।स्थाणुः कीले हरे पुंसि स्थाणुस्त्वस्त्री ध्रुवेपि च ॥ ३४ ॥
16.1.34 · p. 105
अनुष्टुप्
स्थूणा तु स्याद्गृहस्तम्भे लोहप्रतिकृतावपि ।क्षणः स्यादुत्सवे कालभेदावसरपर्वसु ॥ ३५ ॥
16.1.35 · p. 105
अनुष्टुप्