कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

लान्तवर्गः · लद्वितीयम्

लद्वितीयम् ।

अम्लो रसप्रभेदे स्यादम्ली चाङ्गेरिकौषधौ ।अलिर्भृङ्गे सुरायां स्त्री स्यादालिः पिण्डले स्त्रियाम् ॥ २ ॥
29.2.2 · p. 329
अनुष्टुप्
सख्यां पड्क्तावपि ख्याता वाच्यवद्विशदाशये ।आलुर्गलन्तिकायां स्त्री क्लीबे भेलककन्दयोः ॥ ३ ॥
29.2.3 · p. 329
अनुष्टुप्
इला गोभूमिपीयूषे भारत्यां सौम्ययोषिति ।ओल्लस्तु सूरणे पुंसि स्यादार्द्रे त्वभिधेयवत् ॥ ४ ॥
29.2.4 · p. 330
अनुष्टुप्
कलस्तु मधुराव्यक्तशब्देऽजीर्णे कलं सिते ।कला तु षोडशांशे स्यादिन्दोरप्यंशमात्रके ॥ ५ ॥
29.2.5 · p. 330
अनुष्टुप्
मूलार्थवृद्धौ शिल्पादौ कलनाकालभेदयोः ।कलिरन्त्ययुगे कन्दे कन्दले सुभटे पुमान् ॥ ६ ॥
29.2.6 · p. 330
अनुष्टुप्
कालस्तु समये मृत्यौ महाकाले यमे शितौ ।कृष्णे त्रिष्वथ काली स्यात्कालिकामातृभेदयोः ॥ ७ ॥
29.2.7 · p. 330
अनुष्टुप्
गौर्यां नवाम्बुदानीके क्षीरकीटापवादयोः ।काला तु कृष्णत्रिवृत्ति नीलीमञ्जिष्ठयोरपि ॥ ८ ॥
29.2.8 · p. 330
अनुष्टुप्
कीला कफोणिघाते स्यात्कीले शङ्कौ च कीलवत् ।कुलं सजातीयगणे गोत्राङ्गगृहनीवृति ॥ ९ ॥
29.2.9 · p. 330
अनुष्टुप्
कूलं प्रतीरे सैन्यस्य पृष्ठे स्तूपतडागयोः ।कोलोङ्कपालावुत्सङ्गे क्रोडे भेलकचित्रयोः ॥ १० ॥
29.2.10 · p. 331
अनुष्टुप्
खञ्जे कोलं तु कुवले कोला पिप्पलिचव्ययोः ।खलः शठेऽधमे नीचे त्रिषु स्यात्तु खलं भुवि ॥ ११ ॥
29.2.11 · p. 331
अनुष्टुप्
खलं स्थानेऽपि कल्केऽपि सस्यस्थानेऽपि न द्वयोः ।खल्ला चर्म्मणि निम्नेऽपि वस्त्रभेदेऽपि चातके ॥ १२ ॥
29.2.12 · p. 331
अनुष्टुप्
खल्ली तु हस्तपादावमर्द्दनाख्यरुजि स्त्रियाम् ।खिलं भवेदप्रहते सारसङ्क्षिप्तवेधसोः ॥ १३ ॥
29.2.13 · p. 331
अनुष्टुप्
गलः कण्ठे सर्ज्जरसे गलः स्कन्धे महीरुहे ।गोला गोदावरीसख्योर्गोला पत्राञ्जने मता ॥ १४ ॥
29.2.14 · p. 331
अनुष्टुप्
कुनट्यामपि गोलं तु मणिके मण्डलेऽपि च ।चलश्चलाचले कम्पे कमलाविद्युतोश्चला ॥ १५ ॥
29.2.15 · p. 331
अनुष्टुप्
चालश्छदिषि पुंस्येव चालः स्यात्कम्पनेऽपि च ।क्लिन्नाक्षितायिनश्चिल्लश्चिल्ली स्यात्क्षुद्रवास्तुके ॥ १६ ॥
29.2.16 · p. 332
अनुष्टुप्
क्लिन्ननेत्रयुते तु स्याच्चिल्लः खुल्लश्च वाच्यवत् ।चुल्लः क्लिन्नेऽक्ष्णि चुल्ली तु चितावुद्धानवाद्ययोः ॥ १७ ॥
29.2.17 · p. 332
अनुष्टुप्
चेलं स्यादंशुके नीचे गर्हितेप्यभिधेयवत् ।छल्ली तु वल्कले पुष्पभेदे सन्नतिवीरुधोः ॥ १८ ॥
29.2.18 · p. 332
अनुष्टुप्
छलं तु स्खलितेऽपि स्याद्व्याजेऽपि छलमद्वयोः ।जलं शोकरवे नीरे ह्रीवेरेऽपि जडे त्रिषु ॥ १९ ॥
29.2.19 · p. 332
अनुष्टुप्
जालस्तु क्षारकानायगवाक्षे दम्भवृक्षयोः ।जाली पटोलिकायां स्याज्जालौ नीपमहीरुहे ॥ २० ॥
29.2.20 · p. 332
अनुष्टुप्
झला स्यादातपस्योर्मौ तथा पुत्रीसुलुक्कयोः ।झिल्ली त्वातपरुग्वन्द्यां झीरुकोद्वर्त्तनांशयोः ॥ २१ ॥
29.2.21 · p. 332
अनुष्टुप्
तलस्ताले तलं खड्गमुष्टौ ज्याघातवारणे ।वने चपेटे न स्त्री तु स्वरूपाऽऽधारयोस्तलम् ॥ २२ ॥
29.2.22 · p. 333
अनुष्टुप्
तल्ली तरुण्यां तल्लस्तु बिल्ले पुंसि नपुंसके ।तालो द्रुमान्तरेङ्गुष्ठमध्यमाभ्यां च सम्भिते ॥ २३ ॥
29.2.23 · p. 333
अनुष्टुप्
गीतकालक्रियाभावे तालः खड्गादिमुष्टिषु ।तालः स्यात्कांस्यरचितवाद्यभाण्डान्तरे तथा ॥ २४ ॥
29.2.24 · p. 333
अनुष्टुप्
करास्फारे करतले तालं तु हरितालके ।तुला राशौ पलशते तुल्यतामानभेदयोः ॥ २५ ॥
29.2.25 · p. 333
अनुष्टुप्
बन्धाय गृहदारूणां पीठिकायां सभाजने ।तूलः पिचौ पुमांस्तूलमाकाशे ब्रह्मदारुणि ॥ २६ ॥
29.2.26 · p. 333
अनुष्टुप्
अपद्रव्ये छदोच्छ्रायखण्डे शस्त्रीछदे दलम् ।डुलिः पुंसि मुनेर्भेदे कमठ्यां तु स्त्रियां डुलिः ॥ २७ ॥
29.2.27 · p. 333
अनुष्टुप्
दोला यानान्तरे नील्यां धूलिः सङ्ख्यान्तरे रजे ।नलः पोटगले राज्ञि कपीशे पितृदैवते ॥ २८ ॥
29.2.28 · p. 334
अनुष्टुप्
नली मनःशिलायां स्यान्नलं तु सरसीरुहे ।पद्मदण्डे न ना नाला नाली शाककदम्बके ॥ २९ ॥
29.2.29 · p. 334
अनुष्टुप्
नाला पानकरङ्कादिरन्ध्रे नालस्तु पञ्जरे ।नीलस्तु कृष्णवर्णे स्यात्त्रिषु नीलः कपीश्वरे ॥ ३० ॥
29.2.30 · p. 334
अनुष्टुप्
नीलो नगान्तरे कृष्णे नीलं वृक्षाङ्कभेदयोः ।पल्ली तु कुट्यां कुग्रामे पल्लः स्थूलकुसूलयोः ॥ ३१ ॥
29.2.31 · p. 334
अनुष्टुप्
पलं मासे तथोन्माने पालिः पङ्किप्रदेशयोः ।प्रस्थे कर्णलताग्रेंऽशे यूकासश्मश्रुयोषितोः ॥ ३२ ॥
29.2.32 · p. 334
अनुष्टुप्
इन्द्रादेर्देयभागे च विश्राम्य चागतज्वरे ।अश्रौ चिह्ने च पिल्लस्तु क्लिन्नेऽक्ष्णि त्रिषु तद्वति ॥ ३३ ॥
29.2.33 · p. 334
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म्य (wrong syllable)
पीलुर्द्रुमे गजे पुष्पे काण्डतालास्थिखण्डयोः ।अणुमात्रेऽप्यथ पुलः पुलके विपुले त्रिषु ॥ ३४ ॥
29.2.34 · p. 335
अनुष्टुप्
फलं तु सस्ये हेतूत्थे फलके व्युष्टिलाभयोः ।जातीफलेऽपि कङ्कोले मार्गणाग्रेऽपि न द्वयोः ॥ ३५ ॥
29.2.35 · p. 335
अनुष्टुप्
स्यात्फलं त्रिफलायां च फलिन्यां तु फली स्त्रियाम् ।फालं सीरस्य लौहे स्यात्कर्पासादेश्च वाससि ॥ ३६ ॥
29.2.36 · p. 335
अनुष्टुप्
बलो हलिनि दैत्येङ्गे काके बलिनि वाच्यवत् ।बलं गन्धरसे सैन्ये स्थामनि स्थौल्यरूपयोः ॥ ३७ ॥
29.2.37 · p. 335
अनुष्टुप्
बला वाट्यालके प्रोक्ता बलिः पुंस्यसुरान्तरे ।बलिश्चामरदण्डेपि करपूजोपहारयोः ॥ ३८ ॥
29.2.38 · p. 335
अनुष्टुप्
सैन्धवेपि बलिः स्त्री तु जरसा श्लथचर्म्मणि ।कुक्षिभागविशेषे च गृहकाष्ठान्तरे द्वयोः ॥ ३९ ॥
29.2.39 · p. 335
अनुष्टुप्
बल्ली स्यादजमोदायां लतायां कुसुमान्तरे ।बालः पुंसि शिशौ केशे वाजिवारणबालधौ ॥ ४० ॥
29.2.40 · p. 336
अनुष्टुप्
मूर्खेऽपि बालो बालं तु ह्रीबेरे पुंनपुंसकम् ।बिलं गुहायां रन्ध्रे च बिलस्त्विन्द्रहये पुमान् ॥ ४१ ॥
29.2.41 · p. 336
अनुष्टुप्
वेला कालेऽपि सीमायामीश्वराणां च भोजने ।दत्तमांसेऽधिवेला स्यात्पयोनाशेऽपि नीरधेः ॥ ४२ ॥
29.2.42 · p. 336
अनुष्टुप्
तन्नीरेऽक्लिष्टमरणे राशौ वाचि बुधस्रियाम् ।भल्लो बाणेऽपि भल्लूके भल्ली भल्लातबाणयोः ॥ ४३ ॥
29.2.43 · p. 336
अनुष्टुप्
भालं तु न द्वयोरेव ललाटमहसोर्मतम् ।ऋषिभेदे प्लवे भेलो भेलं भीरुहृदि त्रिषु ॥ ४४ ॥
29.2.44 · p. 336
अनुष्टुप्
मलस्त्रिष्वेव कृपणे न स्त्री विट्किट्टकिल्विषे ।मल्लः पात्रे कृपाले च मत्स्यभेदे कपालिनि ॥ ४५ ॥
29.2.45 · p. 336
अनुष्टुप्
भल्लो बलाढ्ये सुभगे मल्ली तु कुसुमान्तरे ।मालुः पत्रलतायां स्याद्वनितायामपि स्त्रियाम् ॥ ४६ ॥
29.2.46 · p. 337
अनुष्टुप्
मालं क्षेत्रे जने मालो माला पुष्पादिदामनि ।मूलमाद्यशिफापार्श्वकुञ्जे मूलेऽपि तारके ॥ ४७ ॥
29.2.47 · p. 337
अनुष्टुप्
मसिमेलकयोर्मेला मौलिर्धम्मिल्लचूडयोः ।किरीटेऽपि द्वयोरेव पुंसि वञ्जुलपादपे ॥ ४८ ॥
29.2.48 · p. 337
अनुष्टुप्
लीला हावान्तरे स्त्रीणां केलौ खेलाविलासयोः ।लोला जिह्वाश्रियोर्लोलः सतृष्णचलयोस्त्रिषु ॥ ४९ ॥
29.2.49 · p. 337
अनुष्टुप्
व्यालः शठे भुजङ्गे च श्वापदे दुष्टदन्तिनि ।शलं तु शल्लकीलोम्नि शलो भृङ्गिगणे विधौ ॥ ५० ॥
29.2.50 · p. 337
अनुष्टुप्
शालो मत्स्यान्तरे वृक्षसामान्ये हालभूभुजि ।शाला वेश्मनि वेश्मैकप्रदेशे स्कन्धशाखयोः ॥ ५१ ॥
29.2.51 · p. 337
अनुष्टुप्
शालुः कषायद्रव्येपि शालुश्चोराख्यभेषजे ।मतः शालिः पुमान् गन्धमार्जारे कलमादिषु ॥ ५२ ॥
29.2.52 · p. 338
अनुष्टुप्
शिला कुनट्यां द्वाराधोदारुणि ग्रावणि स्त्रियाम् ।शिलमुञ्छशिले क्लीबं गण्डूपद्यां शिली मता ॥ ५३ ॥
29.2.53 · p. 338
अनुष्टुप्
शीलं स्वभावे सद्वृत्ते शुक्ले धवलयोगयोः ।शुक्लं तु रूप्यके शुक्लां त्रिषु शुक्लगुणान्विते ॥ ५४ ॥
29.2.54 · p. 338
अनुष्टुप्
शूलं मृत्यौ ध्वजे ना तु योगे न स्त्री रुगस्त्रयोः ।शूला तु पण्ययोषायां दुष्टनाशाय कीलकः ॥ ५५ ॥
29.2.55 · p. 338
अनुष्टुप्
शैलः क्षमाभृति शैलं तु शैलेये तार्क्ष्यशैलके ।शालः स्याद्धरणे हाले पादपे सर्जपादपे ।स्थालं भाजनभेदे स्यात्स्थाली स्यात्पाटलोखयोः ॥ ५६ ॥
29.2.56 · p. 338
अनुष्टुप्metre not read in every line
स्थूलस्तु वाच्यवत्पीने कूटनिष्प्रज्ञयोरपि ।हाला मद्ये नृपे हालो हेलाऽवज्ञाविलासयोः ॥ ५७ ॥
29.2.57 · p. 339
अनुष्टुप्