कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

डान्तवर्गः · डचतुर्थम्

डचतुर्थम् ।

आपोगण्डस्तु शिशुके विकलाङ्गेऽतिभीरुके ॥ ४१ ॥
14.4.41 · p. 96
चक्रवाडोऽद्रिभेदे स्याच्चक्रवाडं तु मण्डले ।जलरुण्डो जलावर्त्ते जलरेणुभुजङ्गयोः ॥ ४२ ॥
14.4.42 · p. 97
अनुष्टुप्
देवताडो बृहद्भानौ स्वर्भानौ घोषकेऽपि च ।द्वयोर्वातगुडः ख्यातो वात्यायां वातशोणिते ॥ ४३ ॥
14.4.43 · p. 97
अनुष्टुप्
पिच्छिलास्फोटिकायां च धाममात्रेऽपि दृश्यते ।
14.4.4 · p. 97