All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
ञान्तवर्गः · ञैकम्
इति विश्वलोचने झान्तवर्गः ।
अथ ञान्तवर्गः ।
ञैकम् ।
ञकारस्तु क्वचित्ख्यातो गायने घर्घरध्वनौ ।ज्ञः पण्डिते बुधे वेधस्यज्ञो मूढे जडे त्रिषु ॥ १ ॥
11.1.1 · p. 72
अनुष्टुप्