कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

रान्तवर्गः · रचतुर्थम्

रचतुर्थम् ।

अकूपारः स्रवन्तीनां नाथे कर्म्मठनायके ॥ २४२ ॥
28.4.242 · p. 317
अग्निहोत्रो मतो वह्नौ वह्निहोत्रे हविष्यपि ।अनुत्तरं त्रिषु श्रेष्ठे प्रतिवाक्यविवर्जिते ॥ २४३ ॥
28.4.243 · p. 317
अनुष्टुप्
उपर्युदीच्यश्रेष्ठानां विपर्यासे त्वनुत्तरः ।वधे युद्धेऽप्यभिमरः स्वबलादपि साध्वसे ॥ २४४ ॥
28.4.244 · p. 317
अनुष्टुप्
अभिहारोऽभियोगे स्याच्चौर्ये सन्नहनेऽपि च ।अरुष्करस्तु भल्लाते व्रणकारिणि वाच्यवत् ॥ २४५ ॥
28.4.245 · p. 317
अनुष्टुप्
अर्द्धचन्द्रस्तु खण्डेन्दौ गलहस्ते शरान्तरे ।चन्द्रकेऽप्यर्द्धचन्द्रः स्यादर्द्धचन्द्रा त्रिवृद्भिदि ॥ २४६ ॥
28.4.246 · p. 317
अनुष्टुप्
अलङ्कारस्तु भूषायामुपमादिगुणेषु च ।भवेदवसरः पुंसि मतः प्रस्ताववर्षयोः ॥ २४७ ॥
28.4.247 · p. 317
अनुष्टुप्
अवतारोऽवतरणे तीर्थखातादिकेपि च ।अवहारः पुमान्ग्रामे युद्धद्यूतादिविभ्रमे ॥ २४८ ॥
28.4.248 · p. 318
अनुष्टुप्
निमन्रणोपनेतव्ये द्रव्ये चौरे च सम्मतः ।अवस्करः पूमान्गूथे गुह्येऽपि स्यादवस्करः ॥ २४९ ॥
28.4.249 · p. 318
अनुष्टुप्
भवेदश्वतरो वेगसरे नागाधिपान्तरे ।असिपत्रः पुमान्कोषकारेऽपि नरकान्तरे ॥ २५० ॥
28.4.250 · p. 318
अनुष्टुप्
आडम्बरः करीन्द्राणां गर्जिते तूर्यनिस्वने ।समारम्भे प्रपञ्चे च रचनायां च दृश्यते ॥ २५१ ॥
28.4.251 · p. 318
अनुष्टुप्
आत्मवीरो महाप्राणे श्यालपुत्रे विदूषके ।इन्दीवरं कुवलये वर्यामिन्दीवरी स्त्रियाम् ॥ २५२ ॥
28.4.252 · p. 318
अनुष्टुप्
उदुम्बरो जन्तुफले देहल्यां लघुमेढ्रके ।उदुम्बरं कुष्ठभेदे ताम्रेऽपि स्यादुदुम्बरम् ॥ २५३ ॥
28.4.253 · p. 318
अनुष्टुप्
उद्दन्तुरः स्यादुत्तुङ्गे करालोत्कटदन्तयोः ।उपकारो मतः कीर्णकुसुमायुधकृत्ययोः ॥ २५४ ॥
28.4.254 · p. 319
अनुष्टुप्
उपह्वरं समीपे स्याद्रहोमात्रेऽप्युपह्वरम् ।औदुम्बरः श्राद्धदेवे रोगभेदे नपुंसकम् ॥ २५५ ॥
28.4.255 · p. 319
अनुष्टुप्
कटम्भरा प्रसारिण्यां रोहिणीकरियोषितोः ।कलम्बिकायां गोलायां वर्षाभूमूर्वयोरपि ॥ २५६ ॥
28.4.256 · p. 319
अनुष्टुप्
करवीरोऽश्वमारे स्याद्दैत्यभेदकृपाणयोः ।सपुत्रादेवसूश्रेष्ठगवीषु करवीर्यपि ॥ २५७ ॥
28.4.257 · p. 319
अनुष्टुप्
मल्लिकाप्रतिहार्योस्तु करवीरी क्वचिन्मता ।कर्णिकारो मतः पुंसि शम्याके च द्रुमोत्पले ॥ २५८ ॥
28.4.258 · p. 319
अनुष्टुप्
कर्णपूरं कुवलयेऽप्यवतंसशिरीषयोः ।त्रिषु कर्म्मकरो भृत्ये भृतिजीविनि कर्षके ॥ २५९ ॥
28.4.259 · p. 319
अनुष्टुप्
मूर्वायां बिम्बिकायां च स्त्रियां कर्म्मकरी क्वचित् ।कलिकारस्तु धूम्याटे पीतमुण्डे करञ्जके ॥ २६० ॥
28.4.260 · p. 320
अनुष्टुप्
कादम्बरस्तु दध्यग्रे मद्यभेदेऽपि न द्वयोः ।कादम्बरी परभृतासीधुगीःसारिकास्वपि ॥ २६१ ॥
28.4.261 · p. 320
अनुष्टुप्
कालंजरो योगिचक्रमेलके भैरवे गिरौ ।देशभेदेऽपि पार्वत्यां भवेत्कालञ्जरी मता ॥ २६२ ॥
28.4.262 · p. 320
अनुष्टुप्
कुम्भकारः कुलाले स्यात्कुलथ्यां तु स्त्रियामपि ।कृष्णसारो मृगे पुंसि स्नुहीशिंशपयोः स्त्रियाम् ॥ २६३ ॥
28.4.263 · p. 320
अनुष्टुप्
गङ्गाधरो गिरिसुतानाथे नाथे च पाथसाम् ।गिरिसारस्तु लौहे स्यान्मलयाचललिङ्गयोः ॥ २६४ ॥
28.4.264 · p. 320
अनुष्टुप्
कम्बलच्छन्नदोलायां कुन्थाङ्गेऽपि गृहाम्बरः ।घनसारोऽप्सु कर्पूरे दक्षिणावर्त्तपारदे ॥ २६५ ॥
28.4.265 · p. 320
अनुष्टुप्
भवेच्चक्रधरो विष्णौ भुजङ्गे ग्रामजालिनि ।चराचरं तु भुवने स्यादिङ्गे जङ्गमे त्रिषु ॥ २६६ ॥
28.4.266 · p. 321
अनुष्टुप्
चर्म्मकारः पुमान्पादूकृति चर्मकषौषधौ ।चर्म्मकारी स्त्रियां चित्राटीरस्तु रजनीपतौ ॥ २६७ ॥
28.4.267 · p. 321
अनुष्टुप्
घण्टाकर्णवलिहतच्छागास्रतिलकेऽपि च ।जटाटीरो जटायां स्यादोकणे पार्वतीपतौ ॥ २६८ ॥
28.4.268 · p. 321
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्ण (wrong syllable)
वरोहे पादपानां च समावेदोक्तवैजवे ।रण्डायां तालपत्री स्यात्तालपत्रं तु कुण्डले ॥ २६९ ॥
28.4.269 · p. 321
अनुष्टुप्
तुङ्गभद्रा नदीभेदे तुङ्गभद्रो मदोत्कटे ।तुण्डिकेरी तु कर्पास्यां बिम्बिकायामपि स्त्रियाम् ॥ २७० ॥
28.4.270 · p. 321
अनुष्टुप्
तुलाधारस्तुलाराशौ तुलाधारो वणिक्ष्वपि ।भवेत्तोयधरो मेघे मुस्तके सुनिषण्णके ॥ २७१ ॥
28.4.271 · p. 321
अनुष्टुप्
यमे नृपे दण्डधरो दण्डधारो यमे नृपे ।दण्डयात्रा दिग्विजये संयानवरयात्रयोः ॥ २७२ ॥
28.4.272 · p. 322
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दि (wrong syllable)
क्लीबं दशपुरं देशे पुरगोनर्दयोरपि ।दिगम्बरस्तु क्षपणे नग्ने ध्वान्ते च शूलिनि ॥ २७३ ॥
28.4.273 · p. 322
अनुष्टुप्
दरोदरं पणे द्यूते द्यूतकारे दुरोदरः ।देहयात्रा मता मृत्यौ देहयात्राऽपि भोजने ॥ २७४ ॥
28.4.274 · p. 322
अनुष्टुप्
द्वैमातुरो जरासन्धे द्वैमातुर इभानने ।धराधरश्चक्रधरे क्ष्माधरे च धराधरः ॥ २७५ ॥
28.4.275 · p. 322
अनुष्टुप्
भवेद्धाराधरो वारिवाहिनिस्त्रिंशयोः पुमान् ।धाराङ्कुरस्तु ना सीरे करकायां च शीकरे ॥ २७६ ॥
28.4.276 · p. 322
अनुष्टुप्
धाराष्ट्रोऽसितैश्चञ्चुपदैर्हंसेऽपि कौरवे ।सर्पेऽप्यथो धवतरौ धूर्वहे च धुरन्धरः ॥ २७७ ॥
28.4.277 · p. 322
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 धा (syllables merged)
धुन्धुमारः शक्रगोपे गृहधूमे पदालिके ।धृतराष्ट्रस्त्वांबिकेये पक्षिभेदे सुराज्ञि च ॥ २७८ ॥
28.4.278 · p. 323
अनुष्टुप्
धृतराष्ट्री मता हंसपदीनामौषधान्तरे ।नभश्चरो घने विद्याधरे वाते विहङ्गमे ॥ २७९ ॥
28.4.279 · p. 323
अनुष्टुप्
निशाचरः फेरवभूतरक्षोभुजङ्गघूकेषु निशाचरी तु ।भवेदसत्यां हि निषद्वरः स्यात्पङ्के निशायां तु निषाद्वरी स्यात् ॥ २८० ॥
28.4.280 · p. 323
उपजातिः
परम्परः प्रपौत्रादौ मृगभेदे परम्परः ।परम्परा तु सन्ताने खड्गकोशे परिच्छदे ॥ २८१ ॥
28.4.281 · p. 323
अनुष्टुप्
भवेत्परिसरो दैवोपात्ते मृत्युप्रदेशयोः ।यूथभ्रष्टपृथक्चारिगजे पक्षचरो विधौ ॥ २८२ ॥
28.4.282 · p. 323
अनुष्टुप्
पात्रटीरो जरत्पात्रे मुक्तव्यापारमन्त्रिणि ।सिङ्घाणे लौहकांस्ये च जतुपात्रे च पाठके ॥ २८३ ॥
28.4.283 · p. 323
अनुष्टुप्
पारावारः सरिन्नाथे पारावारं तटद्वये ।पारिभद्रः पुमान्निम्बतरौ मन्दारपादपे ॥ २८४ ॥
28.4.284 · p. 324
अनुष्टुप्
मतः पीताम्बरश्चक्रपाणौ पीताम्बरो नटे ।पीतसारस्तु गोमेदे मणौ मलयसम्भवे ॥ २८५ ॥
28.4.285 · p. 324
अनुष्टुप्
पूर्णपात्रं तु सम्पूर्णपात्रे वर्धापकेऽपि च ।यात्रायां पटहे चैव पूर्णपात्रमिति स्मृतम् ॥ २८६ ॥
28.4.286 · p. 324
अनुष्टुप्
द्वारि द्वाःस्थे प्रतीहारः प्रतीहारी त्वनन्तरा ।पुंसि प्रतिसरो माल्ये चमूपृष्ठेऽपि कङ्कणे ॥ २८७ ॥
28.4.287 · p. 324
अनुष्टुप्
भूषायां व्रणशुद्धौ च नियोज्याऽऽरक्षयोरपि ।मन्त्रभेदे स्त्रियां पुंसि हस्तसूत्रेऽपि न स्त्रियाम् ॥ २८८ ॥
28.4.288 · p. 324
अनुष्टुप्
समे प्रतिक्रियायां च प्रतीकारो भटेऽपि च ।प्रभाकरोर्के दहने वक्रनक्रः शुके खले ॥ २८९ ॥
28.4.289 · p. 324
अनुष्टुप्
बलभद्रा कुमार्यां स्यात्त्रायमाणे वले पुमान् ।वार्वटीरस्त्रपौ चूतास्थ्यङ्कुरे गणिकासुते ॥ २९० ॥
28.4.290 · p. 325
अनुष्टुप्
उकणे वारकीरः स्यान्नीराजितहयेऽपि च ।वीरभद्रोऽश्वमेघाश्वे महावीरेऽपि वीरणे ॥ २९१ ॥
28.4.291 · p. 325
अनुष्टुप्
क्लीबं वीरतरं वीरश्रेष्ठे वीरणगुन्द्रयोः ।मणिच्छिद्रा तु मेदायामृषभाख्यौषधावपि ॥ २९२ ॥
28.4.292 · p. 325
अनुष्टुप्
महावीरस्तु गरुडे शूरे कण्ठीरवे पवौ ।महावीरः पिके चाश्वमखाग्नौ च जराटके ॥ २९३ ॥
28.4.293 · p. 325
अनुष्टुप्
महामात्रो हस्तिपके समूहामात्ययोरपि ।रथकारस्तु माहिष्यात्करणीजेऽपि तक्षणि ॥ २९४ ॥
28.4.294 · p. 325
अनुष्टुप्
रागसूत्रं तुलासूत्रे पट्टसूत्रेऽपि न द्वयोः ।वसन्तकङ्कणाभिख्यशङ्खे नोगण्डिपट्टके ॥ २९५ ॥
28.4.295 · p. 325
अनुष्टुप्
दग्धदीपदशाष्वेष मतो लङ्गंश्चतुः पुमान् ।लम्बोदरः स्यादुध्माने हेरम्बे लम्बकुक्षिके ॥ २९६ ॥
28.4.296 · p. 326
अनुष्टुप्
लक्ष्मीपुत्रस्तु कन्दर्पे लक्ष्मीपुत्रस्तुरङ्गमे ।वातपुत्रो महाधूर्त्ते हनूमद्भीमयोरपि ॥ २९७ ॥
28.4.297 · p. 326
अनुष्टुप्
बिन्दुतन्त्रः पुमाञ्शारिफलके चतुरङ्गके ।विभाकरो बृहद्भानौ चित्रभानौ विभाकरः ॥ २९८ ॥
28.4.298 · p. 326
अनुष्टुप्
विभावरी तमस्विन्यां हरिद्रायां विभावरी ।विवाहवस्त्रगुण्ठ्याञ्च कुट्टिन्यां वक्रयोषिति ॥ २९९ ॥
28.4.299 · p. 326
अनुष्टुप्
विश्वम्भरो हरौ शक्रे स्त्रियां विश्वम्भरा भुवि ।विश्वकद्रुः खले ध्वाने स्यादाखेटिककुक्कुरे ॥ ३०० ॥
28.4.300 · p. 326
अनुष्टुप्
वीतिहोत्रो बृहद्भानौ वीतिहोत्रो दिवाकरे ।भवेद्व्यतिकरः पुंसि व्यसनव्यतिषङ्गयोः ॥ १ ॥
28.4.1 · p. 326
अनुष्टुप्
व्यवहारो व्यवहृतौ वृक्षभेदे स्थितावपि ।शतपत्रो राजकीरे दार्वाघाटे शिखण्डिनि ॥ २ ॥
28.4.2 · p. 326
अनुष्टुप्
शतपत्रं तु राजीवे वरीशुण्ठ्योः शतावरी ।शिशुमारो जलकपौ तारात्मकहरावपि ॥ ३ ॥
28.4.3 · p. 327
अनुष्टुप्
समुद्रारुर्मतः सेतुबन्धे ग्राहे तिमिङ्गिले ।संप्रहारो मृतौ युद्धे झिण्ट्यां सहचरी द्वयोः ॥ ४ ॥
28.4.4 · p. 327
अनुष्टुप्
स्याद्वयस्ये सहचरस्त्रिषु प्रतिकृतौ पुमान् ।सालसारो मतो हिङ्गौ सालसारो महीरुहे ॥ ५ ॥
28.4.5 · p. 327
अनुष्टुप्
सुकुमारस्तु पुण्ड्रेक्षौ कोमले त्वभिधेयवत् ।सूत्रधारो मतः शिल्पिप्रभेदेऽपि पुरन्दरे ॥ ६ ॥
28.4.6 · p. 327
अनुष्टुप्
नान्द्यनन्तरसञ्चारिपात्रभेदेऽपि स स्मृतः ।स्थिरदंष्ट्रो भुजङ्गे स्याद्वराहाकृतिकेशवे ॥ ७ ॥
28.4.7 · p. 327
अनुष्टुप्