कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

यान्तवर्गः · यद्वितीयम्

यद्वितीयम् ।

अन्योऽसमाने भिन्ने च स्यादन्त्योऽन्तभवेऽधमे ॥ १ ॥
27.2.1 · p. 253
अर्थ्यो बुधे त्रिषु न्याय्ये शिलाजतुनि न द्वयोः ।अर्घार्थं यत्तदर्घ्यं स्यात्त्रिषु यश्चार्घमर्हति ॥ २ ॥
27.2.2 · p. 253
अनुष्टुप्
अर्घ्यः स्याद्योग्यमात्रेऽपि स्यादर्यः स्वामिवैश्ययोः ।पुंस्यार्यः सौविदल्ले स्यादार्यस्त्वभ्यर्हिते त्रिषु ॥ ३ ॥
27.2.3 · p. 253
अनुष्टुप्
आस्या स्थितौ मुखे चास्यं मुखमध्ये मुखोद्भवे ।इज्यो गुरौ पुमानिज्या दानार्चासङ्गमेष्टिषु ॥ ४ ॥
27.2.4 · p. 253
अनुष्टुप्
इभ्य आढ्यं भवेदिभ्या करेण्वामपि शल्लकौ ।कन्या कुमारिकानार्यो राशिभेदौषधीभिदोः ॥ ५ ॥
27.2.5 · p. 254
अनुष्टुप्
प्रातर्ह्योदिनयोः कल्यं कल्यो नीरोगदक्षयोः ।सज्जेऽपि त्रिषु कल्या तु मद्ये कल्या च वाचि च ॥ ६ ॥
27.2.6 · p. 254
अनुष्टुप्
कश्यं मद्ये कशार्हे च कश्यं मध्ये च वाजिनाम् ।कक्ष्या बृहतिकाकाञ्चोर्मध्यबन्धे च दन्तिनाम् ॥ ७ ॥
27.2.7 · p. 254
अनुष्टुप्
हर्म्यादीनां प्रकोष्ठे तु कांस्यं स्यात्पानभाजने ।तैजसद्रव्यभेदेपि वाद्यभेदेऽपि न द्वयोः ॥ ८ ॥
27.2.8 · p. 254
अनुष्टुप्
कायो वर्ष्म स्वभावे च सङ्घे लक्ष्ये कदैवते ।कायं मनुष्यतीर्थे स्यात्कार्यं हेतौ प्रयोजने ॥ ९ ॥
27.2.9 · p. 254
अनुष्टुप्
काव्यः शुकग्रहे पुंसि काव्या स्यात्पूतनाधियोः ।काव्यं ग्रन्थान्तरे क्लीबं कुड्यं भित्तौ विलेपने ॥ १० ॥
27.2.10 · p. 254
अनुष्टुप्
कुल्यो मान्ये कुलोद्भूतकुलातिहितयोस्त्रिषु ।कुल्यं स्यादामिषे शूर्पेप्यष्टद्रोण्यां च कीकसे ॥ ११ ॥
27.2.11 · p. 255
अनुष्टुप्
कुल्याऽल्पकृत्रिमनदीनदीजीवासु निर्झरे ।कृत्या क्रियादेवतयोस्त्रिषु भेद्ये घनादिभिः ॥ १२ ॥
27.2.12 · p. 255
अनुष्टुप्
विद्विष्टकार्ययोश्चायं कृत्यास्तव्यादिषु स्मृताः ।क्रिया कर्म्मणि चेष्टायां करणे संप्रधारणे ॥ १३ ॥
27.2.13 · p. 255
अनुष्टुप्
उपायारम्भशिक्षार्चाचिकित्सानिष्कृतिष्वपि ।गव्यं नपुंसकं ज्यायां गवां क्षीरादिकेऽपि च ॥ १४ ॥
27.2.14 · p. 255
अनुष्टुप्
रागद्रव्येऽपि गव्या तु गोकुले गोहिते त्रिषु ।गुह्यं रहस्युपस्थे च गुह्यो दम्भेपि कच्छपे ॥ १५ ॥
27.2.15 · p. 255
अनुष्टुप्
गृह्या शाखापुरे गृह्यस्त्वसक्तमृगपक्षिणोः ।गुह्यं पुरीषमार्गेऽपि गृह्यमस्वैरिपक्षयोः ॥ १६ ॥
27.2.16 · p. 255
अनुष्टुप्
गेयस्तु त्रिषु गातव्ये गेयः स्याद्गायने पुमान् ।गोप्यो दास्या अपत्ये स्याद्रक्षणीयेऽपि वाच्यवत् ॥ १७ ॥
27.2.17 · p. 256
अनुष्टुप्
ग्राम्यो जने त्रिषु ग्राम्यं त्वश्लीलरतबन्धयोः ।चयस्त्वाहरणे वृन्दे प्राकारे मूलबन्धने ॥ १८ ॥
27.2.18 · p. 256
अनुष्टुप्
चव्यं तु चविके यच्च चव्या दूर्वोग्रगन्धयोः ।चित्या मृतचितायां स्याच्चित्यं मृतकचैत्यके ॥ १९ ॥
27.2.19 · p. 256
अनुष्टुप्
चैत्यमायतने क्लीबं स्याच्चिताचूडकेऽपि च ।बुद्धबिम्बे पुमांश्चैत्यश्चैत्ये उद्देश्यपादपे ॥ २० ॥
27.2.20 · p. 256
अनुष्टुप्
चोद्यं प्रश्नेऽद्भुते चोद्यं वाच्यवच्चोदनोचिते ।छाया स्यादातपाभावे सत्कान्त्युत्कोचकान्तिषु ॥ २१ ॥
27.2.21 · p. 256
अनुष्टुप्
प्रतिबिम्बेऽर्ककान्तायां तथा पङ्क्तौ च पालने ।जन्यस्ताते वरवधूज्ञातिभृत्यप्रिये हिते ॥ २२ ॥
27.2.22 · p. 256
अनुष्टुप्
जन्यस्तु जननीये स्यात्त्रिषु जन्यं तु संयुगे ।परीवादेऽपि हट्टेऽपि जन्या मातृसखीमुदोः ॥ २३ ॥
27.2.23 · p. 257
अनुष्टुप्
जन्युः प्राणिनि वह्नौ च जन्युः स्यात्परमेष्ठिनि ।जयो जयन्ते विजये जया तिथ्यन्तरोमयोः ॥ २४ ॥
27.2.24 · p. 257
अनुष्टुप्
उमासखीजयन्त्योश्च पथ्यायामग्निमन्थके ।जात्यं कुलीने श्रेष्ठेऽपि तार्क्ष्योऽनूरुसुपर्णयोः ॥ २५ ॥
27.2.25 · p. 257
अनुष्टुप्
रथेऽश्वे चाश्वकर्णद्रौ मतं तार्क्ष्यं रसाञ्जने ।तिष्यः पुष्ये कलौ तिष्या धात्र्यां तिष्यैव पुष्यवत् ॥ २६ ॥
27.2.26 · p. 257
अनुष्टुप्
त्रयी त्रिवेद्यां त्रितये पुरन्ध्र्यां सुमतावपि ।दस्युर्विद्विषि चौरे च दायः सोल्लुण्ठभाषिते ॥ २७ ॥
27.2.27 · p. 257
अनुष्टुप्
यौतकादिधने दाने भागार्हपितृवस्तुनि ।दिव्यं तु शपथे वाले लवङ्गकुसुमेऽपि च ॥ २८ ॥
27.2.28 · p. 257
अनुष्टुप्
दिव्याऽऽमलक्यां दिव्यं तु वल्गौ दिविभवेऽन्यवत् ।दूष्यं वस्त्रगृहे वस्त्रे दूषणीये तु वाच्यवत् ॥ २९ ॥
27.2.29 · p. 258
अनुष्टुप्
दैत्या सुरासुराचण्डौषधीषु दितिजे पुमान् ।द्रव्यं तु पित्तले वित्ते द्रुविकारे जतुन्यपि ॥ ३० ॥
27.2.30 · p. 258
अनुष्टुप्
भेषजे च पृथिव्यादौ त्रिषु भव्यविलेपयोः ।धन्या धात्र्यामलक्योः स्याद्धन्यः पुण्यवति त्रिषु ॥ ३१ ॥
27.2.31 · p. 258
अनुष्टुप्
धान्यं व्रीहिषु धान्याके धिष्ण्यः स्यादनले पुमान् ।धिष्ण्यं सद्मनि नक्षत्रे स्थाने शक्तौ च न द्वयोः ॥ ३२ ॥
27.2.32 · p. 258
अनुष्टुप्
नयो द्युतान्तरे नीतौ व्यञ्जके त्वभिपूर्वकः ।नाट्यं तौर्यत्रिके लास्ये नित्यं तु सतते ध्रुवे ॥ ३३ ॥
27.2.33 · p. 258
अनुष्टुप्
हरीतक्यां मता पथ्या मतं पथ्यं हिते त्रिषु ।पद्यः शूद्रे पुमान्पद्यं श्लोके पद्या तु वर्त्मनि ॥ ३४ ॥
27.2.34 · p. 258
अनुष्टुप्
नपुंसकं तु पाक्यं स्याद्यवक्षारे बिडाह्वये ।पाद्यं पयसि निन्द्ये च पीयुः कालार्कपेचके ॥ ३५ ॥
27.2.35 · p. 259
अनुष्टुप्
पुण्यं तु सुकृते धर्मे त्रिषु मध्यमनोज्ञयोः ।श्वशुरे पुंसि पूज्यः स्यात्पूज्यो वन्द्योऽभिधेयवत् ॥ ३६ ॥
27.2.36 · p. 259
अनुष्टुप्
पेयं पातव्यपयसोः पेया श्राणाच्छमण्डयोः ।प्रायः पुमाननशने मृत्युबाहुल्ययोस्तथा ॥ ३७ ॥
27.2.37 · p. 259
अनुष्टुप्
प्रियस्तु त्रिषु हृद्ये स्याद्धवे वृद्ध्यौषधे पुमान् ।वन्यं त्रिषु वनोद्भूते वन्या वृन्दे वनाम्भसोः ॥ ३८ ॥
27.2.38 · p. 259
अनुष्टुप्
अप्रजातस्त्रियां वन्ध्या वन्ध्यस्त्रिषु हलिद्रुमे ।वल्यं प्रधानधातौ स्याद्वल्यं बलकरे त्रिषु ॥ ३९ ॥
27.2.39 · p. 259
अनुष्टुप्
वरेण्ये वाच्यवद्वर्यो वर्यः पञ्चशरे पुमान् ।विन्ध्या त्रुटौ लवल्यां च विन्ध्यो व्याधाद्रिभेदयोः ॥ ४० ॥
27.2.40 · p. 259
अनुष्टुप्
वीर्यं प्रभावे शुक्रे च तेजःसामर्थ्ययोरपि ।वेश्या तु गणिकायां स्याद् वेश्यं वेश्यानिकेतने ॥ ४१ ॥
27.2.41 · p. 260
अनुष्टुप्
भयं घोरे प्रतिभये प्रसूने कुब्जवीरुधः ।कर्म्मरङ्गतरौ भव्यो भव्या करिकणोमयोः ॥ ४२ ॥
27.2.42 · p. 260
अनुष्टुप्
भाग्यं शुभात्मकविधौ स्याच्छुभाशुभकर्म्मणि ।भृत्यो दासे भृतौ भृत्या मत्स्यो मीने जनान्तरे ॥ ४३ ॥
27.2.43 · p. 260
अनुष्टुप्
विष्णोर्मूर्त्यन्तरे मत्स्यो विराटाख्ये च यादवे ।मध्यं न्याय्येऽवकाशे च मध्यं मध्यस्थिते त्रिषु ॥ ४४ ॥
27.2.44 · p. 260
अनुष्टुप्
लग्नकेऽप्यधमे मध्यमस्त्रियामवलग्नके ।मन्युर्दैन्ये क्रतौ क्रोधे वासवे तु शतात्परः ॥ ४५ ॥
27.2.45 · p. 260
अनुष्टुप्
मयः शिल्पिनि दैत्याना करभेऽश्वतरे मयः ।मयुर्मृगे किंपुरुषे मायः पीताम्बरेऽसुरे ॥ ४६ ॥
27.2.46 · p. 260
अनुष्टुप्
माया दम्भे कृपायां च स्यान्माया शाम्बरीधियोः ।माल्यं पुष्पेऽपि मालायां मूल्यं वेतनवस्नयोः ॥ ४७ ॥
27.2.47 · p. 261
अनुष्टुप्
मृत्युः स्यान्मरणे दैवे मेध्यं पूतेऽपि मेदुरे ।मेध्या रक्तवचायां च रोचनायामपि स्त्रियाम् ॥ ४८ ॥
27.2.48 · p. 261
अनुष्टुप्
क्लीबं स्यादाश्रमे मेध्यं ययुः क्रतुहये हये ।याम्याऽपाच्यां भरण्यां च याम्योऽगस्त्येऽपि चन्दने ॥ ४९ ॥
27.2.49 · p. 261
अनुष्टुप्
योग्यः प्रवीणयोगार्हशक्तोपायिषु वाच्यवत् ।योग्याऽभ्यासेऽर्क्ककान्तायां योग्यमृद्ध्याख्यभेषजे ॥ ५० ॥
27.2.50 · p. 261
अनुष्टुप्
रथ्या तु विशिखायां स्याद्रथौघे पथि चत्वरे ।मतो रथोद्वहे रथ्यो रथ्यं त्रिषु मनोरमे ॥ ५१ ॥
27.2.51 · p. 261
अनुष्टुप्
रम्या विभावरी रम्यः पुंसि चम्पकपादपे ।रूप्यं स्यादाहतस्वर्णरजते रजते तथा ॥ ५२ ॥
27.2.52 · p. 261
अनुष्टुप्
त्रिषु प्रशस्तरूपेऽपि लभ्यं लव्धव्यमुक्तयोः ।लयो नृत्यादिसाम्ये स्याद्विनाशाश्लेषयोर्लयः ॥ ५३ ॥
27.2.53 · p. 262
अनुष्टुप्
सङ्ख्याशरव्ययोर्लक्ष्यं लक्ष्यं स्याच्छद्मनि स्मृतः ।अथ तौर्यत्रिके लास्यं लास्यं स्त्रीनृत्यनृत्ययोः ॥ ५४ ॥
27.2.54 · p. 262
अनुष्टुप्
वाच्यं दोषेऽपि वक्तव्ये वचोर्हे कुत्सितेऽन्यवत् ।वीक्ष्योऽविलासके वीक्ष्यो द्रष्टव्याद्भुतयोस्त्रिषु ॥ ५५ ॥
27.2.55 · p. 262
अनुष्टुप्
वर्गप्रस्थानयोर्व्रज्या व्रज्या पर्यटनेऽपि च ।शयः शय्याहिहस्तेषु शय्या तु शयनीयके ॥ ५६ ॥
27.2.56 · p. 262
अनुष्टुप्
शब्दगुम्फेऽपि शल्यस्तु श्वाविन्मदनवृक्षयोः ।शल्यं शङ्कौ शरे वशकर्णिकायां च तोमरे ॥ ५७ ॥
27.2.57 · p. 262
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 व (wrong syllable)
शुन्या तु नलिकायां स्याच्छून्यं तु त्रिषु निर्जने ।मतं शौर्यं तु शूरत्वे चारभट्यां च तन्मतम् ॥ ५८ ॥
27.2.58 · p. 262
अनुष्टुप्
सङ्ख्यं तु सङ्गरे क्लीबं सङ्ख्यैकत्वादिचर्चयोः ।तपोलोकात्परे सत्यं सत्यं सत्यप्रगर्त्तयोः ॥ ५९ ॥
27.2.59 · p. 263
अनुष्टुप्
दिव्येपि सत्या पामायां सत्यं तु त्रिषु तद्वति ।सन्ध्या साये सरिद्भेदे सन्धाने कुसुमान्तरे ॥ ६० ॥
27.2.60 · p. 263
अनुष्टुप्
प्रतिज्ञायां च चिंतायां मर्यादायामपि स्त्रियाम् ।वामदक्षिणयोः सव्यं सह्यं शस्त्रकले गुणे ॥ ६१ ॥
27.2.61 · p. 263
अनुष्टुप्
सह्यः शैलेऽपि सोढव्ये नैरुज्ये सह्यमद्वयोः ।साध्यस्तु योगभेदे स्यात्साध्योऽपि गणदैवते ॥ ६२ ॥
27.2.62 · p. 263
अनुष्टुप्
वाच्यवत्साघनीयेऽपि सायः काण्डाऽपराह्णयोः ।सूर्योऽर्के तत्प्रियायां तु सूर्या स्यादोषधीभिदि ॥ ६३ ॥
27.2.63 · p. 263
अनुष्टुप्
सेव्यं त्रिलिङ्गं सेवार्हे सेव्यं तु नलदे द्वयोः ।सेनायां समवेते तु सैन्यः सैन्यं बले मतम् ॥ ६४ ॥
27.2.64 · p. 263
अनुष्टुप्
इल्वलासु स्त्रियः सौम्या बुधे सौम्योऽथ वाच्यवत् ।बौद्धे मनोरमेऽनुग्रे पामरे सोमदैवते ॥ ६५ ॥
27.2.65 · p. 264
अनुष्टुप्
विवादपक्षनिर्णेतर्यपि स्थेयः पुरोहिते ।स्थेयं स्याद्द्रव्यमात्रेऽपि पुंसि गर्वेऽद्भुते स्मयः ॥ ६६ ॥
27.2.66 · p. 264
अनुष्टुप्
हार्यो बिभीतकीवृक्षे हर्त्तव्ये हार्यमन्यवत् ।हृद्यस्तु वशकृद्वेदमन्त्रे वृद्ध्याख्यभेषजे ॥ ६७ ॥
27.2.67 · p. 264
अनुष्टुप्
स्याच्छ्वेतजीरके हृद्यं हृत्प्रिये हृद्गवे त्रिषु ।क्षयोऽपचयकल्पान्तनिवासेषु रुगन्तरे ॥ ६८ ॥
27.2.68 · p. 264
अनुष्टुप्