All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
जान्तवर्गः · जचतुर्थम्
जचतुर्थम् ।
अहिभुग्विनतापुत्रे मेघनादानुलासिनि ।काश्मीरजा चाऽतिविषाकुष्ठकुङ्कुमपुष्करे ॥ २९ ॥
8.4.29 · p. 71
अनुष्टुप्
ग्रहराजः शशिन्यर्केऽनुजे शूद्रे जघन्यजः ।द्विजराजो निशानाथे विनतात्मजशेषयोः ॥ ३० ॥
8.4.30 · p. 71
अनुष्टुप्
धर्म्मराड्यमराजौ द्वौ यमे बुद्धे युधिष्ठिरे ।भरद्वाजो गुरुसुते व्याघ्राटाभिख्यपक्षिणि ॥ ३१ ॥
8.4.31 · p. 71
अनुष्टुप्
भारद्वाजो मुनौ चोग्रे स्त्रिया कार्प्पासिकान्तरे ।भृङ्गराजस्तु मधुपे मार्क्कवे विहगान्तरे ॥ ३२ ॥
8.4.32 · p. 71
अनुष्टुप्
यक्षराट् त्र्यंबकसखे मल्लानां रङ्गचत्वरे ।राजराजस्तु धनदे सार्वभममृगाङ्कयोः ॥ ३३ ॥
8.4.33 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 र्व (wrong syllable)
क्षीराब्धिजः शशधरे श्रिया क्षीराब्धिजा स्त्रियाम् ।क्षीराब्धिजं तु सामुद्रलवणे मौक्तिकेऽपि च ॥ ३४ ॥
8.4.34 · p. 71
अनुष्टुप्