कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

कान्तवर्गः · कतृतीयम् (2/2)

मांसपिण्डे च पिण्डे च योषिद्भालविभूषणे ।कज्जले नीलचोले च मौर्व्यां भ्रूश्लथचर्मणि ॥ १५० ॥
1.3.150 · p. 26
अनुष्टुप्
कदल्यां कर्णपूरे च निर्बुद्धिनृषु लोचकः ।वञ्चकस्तु खले धूर्ते गृहबभ्रौ च फेरवे ॥ १५१ ॥
1.3.151 · p. 26
अनुष्टुप्
बन्धकः स्याद्विनिमये वसासत्योस्तु बन्धकी ।बधूकं बन्धुजीवे स्याद्बन्धूकः पीतशालके ॥ १५२ ॥
1.3.152 · p. 26
अनुष्टुप्
वर्तको वर्तिका पक्षिप्रभेदेऽश्वखुरे पुमान् ।वर्णको बन्दिनि कवौ चारणेऽस्त्री तु वर्णके ॥ १५३ ॥
1.3.153 · p. 27
अनुष्टुप्
विलेपनादौ चित्रादौ लिपिमस्यां च चन्दने ।वर्णिका कठिनीमस्योर्लेखन्यामपि वर्णिका ॥ १५४ ॥
1.3.154 · p. 27
अनुष्टुप्
वल्मीको वामलूरे स्यान्मुनिरोगविशेषयोः ।वार्षिकं त्रायमाणायां वर्षाकालभवेन्यवत् ॥ १५५ ॥
1.3.155 · p. 27
अनुष्टुप्
गोवाहके तु वाहीको वाहीको पृक्कदेशजे ।वाह्लीको वाह्लिकोऽश्वे च देशभेदे हये पुमान् ॥ १५६ ॥
1.3.156 · p. 27
अनुष्टुप्
वाह्लीकं वाह्लिकं द्वे च न द्वयोर्हिङ्गुवीरयोः ।वितर्कः संशयेऽप्यूहे विचारे च क्वचिन्मतः ॥ १५७ ॥
1.3.157 · p. 27
अनुष्टुप्
विपाकः परिणामेऽपि खेदे स्वादुनि दुर्गतौ ।विवेकस्तु विचारे स्याज्जलद्रोण्यां रहस्यपि ॥ १५८ ॥
1.3.158 · p. 27
अनुष्टुप्
वृषाङ्कः शङ्करे साधौ भल्लातकमहोक्षयोः ।वैजिकं शिगुतैलेऽपि हेतौ सद्योऽङ्कुरेऽपि च ॥ १५९ ॥
1.3.159 · p. 28
अनुष्टुप्
व्यलीकं विप्रियाकार्यवैलक्ष्येष्वपि पीडने ।क्लीबमेव व्यलीकस्तु नागरे वाच्यलिङ्गकः ॥ १६० ॥
1.3.160 · p. 28
अनुष्टुप्
शंखकं वलये कंबौ शिरोरोगे च शङ्खकः ।शम्बुको गजकुम्भान्ते शम्बूकः शुक्तिकान्तरे ॥ १६१ ॥
1.3.161 · p. 28
अनुष्टुप्
दैत्यभेदेऽपि शम्बूकः शम्बूका जलशुक्तिषु ।शलाका तु शरे शल्ये चातपत्राणपञ्जरे ॥ १६२ ॥
1.3.162 · p. 28
अनुष्टुप्
तर्कुकाष्ट्यां च मदने शारिकाश्वाविदोरपि ।शल्लकी श्वाविद्द्रुमयोः शायकः शरखङ्गयोः ॥ १६३ ॥
1.3.163 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
शार्ककः शर्करापिण्डे दुग्धफेने च शार्ककः ।शिशुकः शिशुमारे च शिशौ पश्चादुलूपिनि ॥ १६४ ॥
1.3.164 · p. 28
अनुष्टुप्
शीतकः सुस्थिते शीतकालेऽनागतदर्शिनि ।शूककः प्रावटप्रहौ शूककः पारदेऽपि च ॥ १६५ ॥
1.3.165 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 प्र (wrong syllable)
कृतमालस्तु शम्याकः शम्याकस्तर्कुधृष्टयोः ।सम्पर्कः स्यान्निधुवने संसर्गे स्पर्शनेऽपि च ॥ १६६ ॥
1.3.166 · p. 29
अनुष्टुप्
सरकः स्यादविच्छिन्नपान्थपङ्क्तौ शरे पुमान् ।अस्त्रियां सीधुपाने च सीधुपात्रे च सीधुनि ॥ १६७ ॥
1.3.167 · p. 29
अनुष्टुप्
सस्यको नालिकेरादिसारे खङ्गे मणावपि ।सूचकः खलकाकौतुसूचीषु शुनि बोधके ॥ १६८ ॥
1.3.168 · p. 29
अनुष्टुप्
सूतकं जन्मनि क्लीबं सूतकः पारदेऽस्त्रियाम् ।सृदाकुर्दावकुलिशाऽनिलेषु प्रतिसूर्यके ॥ १६९ ॥
1.3.169 · p. 29
अनुष्टुप्
सेचकः सेक्तरि भवे त्रिषु पुंसि तु वारि ।सेवको वल्लकीमान्तवक्रकाष्ठेऽनुजीविनि ॥ १७० ॥
1.3.170 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्यमीका नीलिकायां स्यात्स्यमीको नाकुवृक्षयोः ।स्वस्तिको मङ्गलद्रव्ये चतुष्कगृहभेदयोः ॥ १७१ ॥
1.3.171 · p. 30
अनुष्टुप्
स्वस्तिकः पिष्ठकस्याऽपि प्रभेदे रततालिके ।स्थासको गन्धवज्रायां जलादेरपि बुद्बुदे ॥ १७२ ॥
1.3.172 · p. 30
अनुष्टुप्
सेनायां समवेतेऽपि सेनारक्षेऽपि सैनिकः ।हारकस्तु शठे चौरे गद्यविज्ञानभेदयोः ॥ १७३ ॥
1.3.173 · p. 30
अनुष्टुप्
हुडुको वाद्यभेदे स्याद्दात्यूहे च मदोत्कटे ।हेरुको बुद्धभेदेऽपि महाकालगणे तथा ॥ १७४ ॥
1.3.174 · p. 30
अनुष्टुप्
क्षारको जालके पक्षिमत्स्यादिपिटकेऽपि च ।क्षुरकः कोकिलाक्षे स्याद्गोक्षुरे तिलकद्रुमे ॥ १७५ ॥
1.3.175 · p. 30
अनुष्टुप्