All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
षान्तवर्गः · षतृतीयम्
षतृतीयम् ।
अभीषुः पुंसि भासि स्यादभीषुः प्रग्रहेऽपि च ॥ १६ ॥
32.3.16 · p. 381
आकर्षस्त्विन्द्रिये ख्यातो द्यूताकर्षणयोरपि ।पाशके शारिफलके कोदण्डाभ्यासवस्तुनि ॥ १७ ॥
32.3.17 · p. 381
अनुष्टुप्
क्लीबमामिषमुत्कोचे मांसे सम्भोगलोभयोः ।आमिषं सुंदराकाररूपादौ विषयेऽपि च ॥ १८ ॥
32.3.18 · p. 381
अनुष्टुप्
उष्णीषं तु शिरोवेष्टे किरीटे लक्षणान्तरे ।कल्माषो राक्षसे कृष्णकृष्णपाण्डरयोरपि ॥ १९ ॥
32.3.19 · p. 381
अनुष्टुप्
कलुषं किल्बिषे क्लीबमाविले कलुषं त्रिषु ।किल्बिषं वृजिने रोगेऽप्यपराधेऽपि किल्विषम् ॥ २० ॥
32.3.20 · p. 381
अनुष्टुप्
कुल्माषो यवके पुंसि चणके यवषष्टके ।कुल्माषं काञ्जिके क्लीबं गण्डूषः प्रसृतोन्मिते ॥ २१ ॥
32.3.21 · p. 382
अनुष्टुप्
गण्डूषो मुखपूरेऽपि करिहस्ताङ्गुलावपि ।जिगीषा जेतुमिच्छायां व्यवसायप्रकर्षयोः ॥ २२ ॥
32.3.22 · p. 382
अनुष्टुप्
तरीषः शोभनाकारे भेलेब्धिव्यवसाययोः ।ताविषस्तु सरिन्नाथे कनकस्वर्गयोरपि ॥ २३ ॥
32.3.23 · p. 382
अनुष्टुप्
नहुषो राजभेदे स्यान्नहुषो भुजगान्तरे ।निकषः कषपाषाणे निकषा यातुमातरि ॥ २४ ॥
32.3.24 · p. 382
अनुष्टुप्
निमेषनिमिषौ कालभेदे नेत्रनिमीलने ।परुषं कर्बुरे रूक्षे त्रिषु निष्ठुरवाच्यपि ॥ २५ ॥
32.3.25 · p. 382
अनुष्टुप्
पुरुषः पुन्नागमातङ्गे माधवे परमात्मनि ।पौरुषं तेजसि क्लीबं पुंसो भावेऽपि कर्म्मणि ॥ २६ ॥
32.3.26 · p. 382
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ऊर्द्ध्वविस्तृतदोःपाणिनृमाने त्रिषु पौरुषम् ।प्रत्यूषोऽहर्मुखे पुंसि प्रत्यूषो वसुदैवते ॥ २७ ॥
32.3.27 · p. 383
अनुष्टुप्
प्रदोषः पुंसि दोषे स्यान्नाट्योक्त्यार्ये च मारिषः ।रौहिषं कत्तृणे पुंसि मृगभेदे तु रौहिषः ॥ २८ ॥
32.3.28 · p. 383
अनुष्टुप्
विशेषो भेदमात्रेऽपि विशेषस्तिलकेऽपि च ।विश्लेषः स्याद्विघटने विश्लेषो विधुरे तथा ॥ २९ ॥
32.3.29 · p. 383
अनुष्टुप्
व्याकर्षः शारिफलके द्यूताक्षाकर्षणेषु च ।शुश्रूषा श्रोतुमिच्छायां परिचर्याकथानयोः ॥ ३० ॥
32.3.30 · p. 383
अनुष्टुप्
कुशीलवेषे शैलूषः शैलूषो बिल्वपादपे ।सङ्घर्षः स्यर्द्धने घर्षे प्रमोदेऽपि प्रभञ्जने ॥ ३१ ॥
32.3.31 · p. 383
अनुष्टुप्