All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
बान्तवर्गः · बद्वितीयम्
बद्वितीयम् ।
स्त्री वंशाशे खजाकायां कंबिः कंबुः पुमान् गजे ।वलये शङ्खशम्बूके कन्धरामलके स्त्रियाम् ॥ २ ॥
24.2.2 · p. 234
अनुष्टुप्
ह्रस्वे सङ्ख्यान्तरे खर्वश्चार्वी स्याच्छोभनाधियोः ।जम्बूः स्त्री मेरुसरिति द्वीपपादपभेदयोः ॥ ३ ॥
24.2.3 · p. 234
अनुष्टुप्
डिम्बस्तु विप्लवप्लीहफुप्फुसैरण्डभीतिषु ।डिम्बः कलकलेऽपि स्याद्दर्वी फणखजाकयोः ॥ ४ ॥
24.2.4 · p. 234
अनुष्टुप्
दार्वी दारुहरिद्रायां हरिद्रादेवदारुणोः ।पुंभूम्नि पूर्वजेषु स्यात्पूर्वः प्रागाद्ययोत्रिषु ॥ ५ ॥
24.2.5 · p. 234
अनुष्टुप्
तिक्ततुम्बीश्रियोर्लम्बा बिम्बं स्याद्बिम्बिकाफले ।मण्डले प्रतिबिम्बे च बिम्बः पुंसि नपुंसकम् ॥ ६ ॥
24.2.6 · p. 234
अनुष्टुप्
शंबः शुभान्विते वज्रे मुसलाग्रस्थमण्डले ।शुम्बो मतः पुमानेव भृशगुल्माप्रकाण्डयोः ॥ ७ ॥
24.2.7 · p. 234
अनुष्टुप्