कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

दान्तवर्गः · दद्वितीयम्

दद्वितीयम् ।

अन्दुः स्त्रियामलङ्कारे वेदबंधनवस्तुनोः ।अब्दः संवत्सरे मेघे मुस्तके पर्वतान्तरे ॥ २ ॥
19.2.2 · p. 167
अनुष्टुप्
कन्दोऽस्त्री शूरणे वृक्षमूले पुंसि पयोधरे ।कुन्दो माघ्ये पुमांश्चक्रे भ्रमौ निधिसुरद्विषोः ॥ ३ ॥
19.2.3 · p. 167
अनुष्टुप्
विष्णुभ्रातरि रोगे च मतः शस्त्रान्तरे गदा ।छदः पत्रे पतत्रे च ग्रन्थिपर्णतमालयोः ॥ ४ ॥
19.2.4 · p. 167
अनुष्टुप्
छन्दोऽभिप्रायवशयोर्धीदा कन्यामनीषयोः ।नदी सरित्यपि नदः सिन्धौ शोणाविनादयोः ॥ ५ ॥
19.2.5 · p. 167
अनुष्टुप्
नन्दिः शिवप्रतीहारे द्यूतभाण्डभिदोर्मुदि ।नन्दा मणिकसम्पत्त्योर्निन्दा कुत्साऽपवादयोः ॥ ६ ॥
19.2.6 · p. 168
अनुष्टुप्
पदं वाक्ये प्रतिष्ठायां व्यवसायाऽपदेशयोः ।पादातच्चिह्नयोः शब्दे स्थानत्राणाङ्घ्रिवस्तुषु ॥ ७ ॥
19.2.7 · p. 168
अनुष्टुप्
पादोऽस्त्री चरणे मूले तुरीयांशेऽपि दीधितौ ।शैलप्रत्यन्तशैले ना विदा ज्ञाने मतावपि ॥ ८ ॥
19.2.8 · p. 168
अनुष्टुप्
बिन्दुः स्याद्दन्तदशने शुक्रे वेदितृविप्रुषोः ।वेदिरङ्गुलिमुद्रायां बुधे संस्कृतभूतले ॥ ९ ॥
19.2.9 · p. 168
अनुष्टुप्
भन्दं(द्रं) शर्म्मणि कल्याणे भेदो द्वैधविशेषयोः ।विदारणे चोपजापे संपूर्वः सिन्धुसङ्गमे ॥ १० ॥
19.2.10 · p. 168
अनुष्टुप्
मदो मृगमदे मद्ये दानमुद्गर्वरेतसि ।महापूर्वो मतङ्गे स्यान्मदी कृषकवस्तुनि ॥ ११ ॥
19.2.11 · p. 168
अनुष्टुप्
मन्दः स्वैरे खले मन्दरते मूर्खाल्परोगिषु ।अभाग्येऽपि त्रिषु पुमान् गजजात्यन्तरे शनौ ॥ १२ ॥
19.2.12 · p. 169
अनुष्टुप्
मृद्वतीक्ष्णे त्रिषु श्लक्ष्णे रदो दन्ते विलेखने ।शादस्तु कर्दमे शष्पे सूदः स्याद्व्यञ्जने गुणे ॥ १३ ॥
19.2.13 · p. 169
अनुष्टुप्
स्वादुर्मिष्ठे मनोज्ञे च स्वेदः स्वेदनघर्म्मयोः ।हृच्चित्तबुक्कयोः क्लीबं क्षोदश्चूर्णेऽपि पेषणे ॥ १४ ॥
19.2.14 · p. 169
अनुष्टुप्