All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
खान्तवर्गः · खद्वितीयम्
खद्वितीयम् ।
उखाऽनिरुद्धभार्यायामुखा स्थाल्यामपि स्मृता ।नखस्तु करजे शुक्तौ गन्धद्रव्ये नखी नखम् ॥ २ ॥
2.2.2 · p. 43
अनुष्टुप्
न्युङ्खः सम्यग्मनोज्ञे च साम्नः षट्प्रणवेष्वपि ।प्रेङ्खाः पर्यटने नृत्ये दोलायां वाजिनां गतौ ॥ ३ ॥
2.2.3 · p. 43
अनुष्टुप्
चिङ्खा गत्यन्तरे नृत्ये शूकशिम्ब्यां च दृश्यते ।मुखं वक्रे निःसरणेऽप्युपायाऽऽरम्भयोरपि ॥ ४ ॥
2.2.4 · p. 44
अनुष्टुप्
लेखो लेख्ये सुरे लेखा रेखाराजीलिपिष्वपि ।शङ्खः कम्बुललाटास्थिनखीनिधिषु न स्त्रियाम् ॥ ५ ॥
2.2.5 · p. 44
अनुष्टुप्
शाखा स्यात्पल्लवे वेदविभागेऽप्यन्तिके भुजे ।शाखा पक्षान्तरे चाथ शिखा शाखाग्ररश्मिषु ॥ ६ ॥
2.2.6 · p. 44
अनुष्टुप्
शिखा शिखायां चूडायां चूडायां च शिखण्डिनः ।ज्वालायां लाङ्गलिक्यां च सखा मित्रसहाययोः ॥ ७ ॥
2.2.7 · p. 44
अनुष्टुप्
सुखं शर्मण्यपि स्वर्गे सुखा पुर्यां प्रचेतसः ।
2.2.7 · p. 44