कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

अव्ययानि · षान्तानि

ष०

उषाऽसङ्ख्यं ससङ्ख्यं च निशान्तनिशयोर्मतम् ।दोषा रात्रिमुखे रात्रावत्रानव्ययमप्यसौ ॥ ७२ ॥
36.19.72 · p. 418
अनुष्टुप्
निकषा त्वन्तिके मध्ये रक्षोमातर्यनव्ययम् ।विभाषा तु स्त्रियां क्वापि विकल्पार्थे समुच्चये ॥ ७३ ॥
36.19.73 · p. 418
अनुष्टुप्