कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

लान्तवर्गः · लपंचमम्

लपंचमम् ।

आसुतोवलशब्दस्तु मतो यज्वनि शौण्डिके ।भवेदुद्दण्डपालस्तु मत्स्यसर्प्पप्रभेदयोः ॥ १७४ ॥
29.5.174 · p. 358
अनुष्टुप्
राजराजेऽपि कालिन्दीभेदनेप्येककुण्डलः ।गजपित्तज्वरे पाके पवने कूटपाकलः ॥ १७५ ॥
29.5.175 · p. 358
अनुष्टुप्
कृपीटपालः पुंस्येव केनिपातसमुद्रयोः ॥ १७६ ॥
29.5.176 · p. 359
स्यात्पाण्डुकम्बलः श्वेतकम्वले ग्रावदन्तरे ।विवाहदिनसम्बन्धशिरोमाल्येऽपि सम्मता ॥ १७७ ॥
29.5.177 · p. 359
अनुष्टुप्
मता सुरतताली तु दूतिकामस्तकस्रजोः ।मन्त्रचूर्णलमिच्छन्ति वशीकरणवेदिनि ॥ १७८ ॥
29.5.178 · p. 359
अनुष्टुप्
डाकिनीमोक्षमन्त्रज्ञे कुशाम्बुप्रोक्षणेऽपि च ॥ १७९ ॥
29.5.179 · p. 359