All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
ढान्तवर्गः · ढतृतीयम्
ढतृतीयम् ।
अध्यूढ ईश्वरेऽध्यूढा कृतसापत्न्ययोषिति ॥ ६ ॥
15.3.6 · p. 98
आषाढो व्रतिनां दण्डे मासेऽपि मलयाचले ।उदूढ ऊढे स्थूले स्यादुपोढो निकटोढयोः ॥ ७ ॥
15.3.7 · p. 98
अनुष्टुप्
प्रगाढस्तु दृढे कृच्छ्रे प्रमीढो मूत्रिते घने ।प्ररूढो जाठरे बद्धमूले स्यादभिधेययोः ॥ ८ ॥
15.3.8 · p. 98
अनुष्टुप्
प्रारूढः सम्बले वह्नौ वस्त्राञ्चलकपाटयोः ।पञ्जरेऽपि विगूढस्तु गुप्तगर्हितयोस्त्रिषु ॥ ९ ॥
15.3.9 · p. 99
अनुष्टुप्
विगूढस्त्रिषु सञ्जाते वर्द्धिते छुरिते मतः ।सम्मूढस्तु नवे भुग्ने पुंजितेऽप्यनुपप्लुते ॥ १० ॥
15.3.10 · p. 99
अनुष्टुप्
संरूढो वाच्यवत्प्रौढे तथैवाङ्कुरितेऽपि च ।
15.3.6 · p. 99