All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
शान्तवर्गः · शद्वितीयम्
शद्वितीयम् ।
आशा तृष्णादिशोराशुर्व्रीहौ क्लीबं तु सत्वरे ।ईशा लाङ्गलदण्डे स्यादीशः स्यादीश्वरे प्रभौ ॥ २ ॥
31.2.2 · p. 371
अनुष्टुप्
अंशुस्त्विषि रवौ लेशे काशस्तु क्षवथौ तृणे ।वाराणस्यां तु काशी स्यात्कीशो मर्क्कटनग्नयोः ॥ ३ ॥
31.2.3 · p. 371
अनुष्टुप्
कुशो रामसुते द्वीपे योक्त्रे दर्भे तु न स्त्रियाम् ।कुशो मत्तेऽपि पापिष्ठे त्रिषु क्लीबे तु वारिणि ॥ ४ ॥
31.2.4 · p. 371
अनुष्टुप्
मता कुशा तु बलायां कुशी फाले प्रकीर्तिता ।केशो बालेऽपि ह्रीबेरे दैत्यभेदप्रचेतसोः ॥ ५ ॥
31.2.5 · p. 371
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ब (wrong syllable); pāda 3, syllable 5 पि (wrong syllable)
क्लेशो दुःखेऽपि रोगादौ व्यवसाये च दृश्यते ।दर्शस्तु दशमे पुंसि दर्शः सूर्येन्दुसङ्गमे ॥ ६ ॥
31.2.6 · p. 371
अनुष्टुप्
पक्षान्तवैदिकविधौ दशा तु वसनांशुके ।दशा कर्मविपाकेऽपि स्याद्दशा वर्त्त्यवस्थयोः ॥ ७ ॥
31.2.7 · p. 371
अनुष्टुप्
दृग्दर्शने च नेत्रे स्त्री ज्ञातृदर्शकयोस्त्रिषु ।दंशः सन्नाहवनमक्षिकयोर्भुजगक्षते ॥ ८ ॥
31.2.8 · p. 372
अनुष्टुप्
दोषेऽपि खण्डने दंशो दंशो मर्म्मणि च स्मृतः ।नाशः पलायनेऽपि स्यान्निधनानुपलम्भयोः ॥ ९ ॥
31.2.9 · p. 372
अनुष्टुप्
स्यान्निशा निगडे क्वापि स्त्रियां रात्रिहरिद्रयोः ।निशा दारुहरिद्रायां महापूर्वा निशार्द्धके ॥ १० ॥
31.2.10 · p. 372
अनुष्टुप्
पशुर्मृगादौ च प्रमथे पशुर्मांसारिकात्मनि ।अज्ञाने छागमात्रेऽपि पशु हव्यर्थमव्ययम् ॥ ११ ॥
31.2.11 · p. 372
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पाशः पक्षादिबन्धे स्याच्चयार्थस्तु कचात्परः ।छात्राद्यन्ते च निन्दार्थः कर्णांते शोभनार्थकः ॥ १२ ॥
31.2.12 · p. 372
अनुष्टुप्
पांशुर्धूलिषु शस्यार्थचिरसञ्चितगोमये ।पेशी पललपिण्ड्यां स्यान्मासीखड्गपिधानयोः ॥ १३ ॥
31.2.13 · p. 372
अनुष्टुप्
सुपक्वकणिके पेशी पेशी मण्डान्तरेऽपि च ।राशिस्तु पुञ्जे पुंस्येव तथा मेषवृषादिषु ॥ १४ ॥
31.2.14 · p. 373
अनुष्टुप्
वशस्त्रिषु स्याद्विवशे वशं वाञ्छाप्रभुत्वयोः ।वशा योषासुतावन्ध्यास्त्रीगवीकरिणीष्वपि ॥ १५ ॥
31.2.15 · p. 373
अनुष्टुप्
विट् पुंसि वैश्ये मनुजे प्रवेशे तु स्त्रियामियम् ।वेशः प्रवेशे नेपथ्ये वेशो वेश्यागृहे गृहे ॥ १६ ॥
31.2.16 · p. 373
अनुष्टुप्
वंशो वेणौ कुले वर्गे पृष्ठस्यावयवास्थनि ।नासाविवरदेशेऽपि वाद्यभाण्डान्तरेऽपि च ॥ १७ ॥
31.2.17 · p. 373
अनुष्टुप्
शशः पशौ गन्धरसे पुरुषान्तरलोध्रयोः ।मतः शश इति क्वापि शीतांशोरपि लाञ्छने ॥ १८ ॥
31.2.18 · p. 373
अनुष्टुप्
स्पर्शस्तु स्पर्शने दाने रुजायां स्पर्शकेऽपि च ।स्पर्शः स्यात्पुंसि सङ्ग्रामे प्रणिधौ च मतो ह्ययम् ॥ १९ ॥
31.2.19 · p. 373
अनुष्टुप्