कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

ठान्तवर्गः · ठतृतीयम्

ठतृतीयम् ।

अपष्टुः समये वामेऽम्बष्ठो वैश्यासुते द्विजात् ॥ १० ॥
13.3.10 · p. 87
देशेंऽबष्ठा तु चाङ्गेर्यां पाठयूथिकयोरपि ।कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा त्वन्तिमाङ्गुलौ ॥ ११ ॥
13.3.11 · p. 88
अनुष्टुप्
कमठः कच्छपे पुंसि कमठं भाजनान्तरे ।जरठः कठिने पाण्डौ कर्कशेप्यभिधेयवत् ॥ १२ ॥
13.3.12 · p. 88
अनुष्टुप्
नर्मठश्चुबुके पुंसि नर्मठो नागरेऽन्यवत् ।प्रकोष्ठो विस्तृतकरे कूर्परादधरेऽपि च ॥ १३ ॥
13.3.13 · p. 88
अनुष्टुप्
नृपकक्षान्तरे चाथ प्रतिष्ठा गौरवे मता ।या(यो)गनिष्पादने स्थानचतुरक्षरपद्ययोः ॥ १४ ॥
13.3.14 · p. 88
अनुष्टुप्
वरिष्ठः प्रवरे चोरुतरे स्यादभिधेयवत् ।वरिष्ठं मरिचे ताम्रे वरिष्ठः पुंसि तित्तिरौ ॥ १५ ॥
13.3.15 · p. 88
अनुष्टुप्
मकुष्ठो मन्थरेऽपि स्याद् व्रीहिभित्सवयोरपि ।लघिष्ठो भेलकेऽत्यल्पे वैकुण्ठौ विष्णुशक्रयोः ॥ १६ ॥
13.3.16 · p. 88
अनुष्टुप्
श्रीकण्ठः पार्वतीनाथे कुरुजाङ्गलकेऽपि च ।भवेदार्थेऽपि साधिष्ठः साधिष्ठोऽपि दृढेऽपि च ॥ १७ ॥
13.3.17 · p. 89
अनुष्टुप्