All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
टान्तवर्गः · टतृतीयम्
टतृतीयम् ।
अवटः कुहके कूपे खिले गर्त्तेऽप्यथाऽवटुः ॥ ३२ ॥
12.2.32 · p. 79
गर्त्ते कूपे च घाटायामर्गटोंतर्गले गले ।अरिष्टः फेनिले निम्बे लशुने काककङ्कयोः ॥ ३३ ॥
12.2.33 · p. 79
अनुष्टुप्
अरिष्टं सूतिकागारे तक्रे चिह्ने शुभेऽशुभे ।उत्कटस्तीव्रे मत्ते च करटो निन्द्यजीविते ॥ ३४ ॥
12.2.34 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व्रे (wrong syllable)
एकादशाहश्राद्धे च काकवाद्यान्तरेऽपि च ।कुब्राह्मणे कुसुम्भेऽपि दुर्द्दान्तगजगण्डयोः ॥ ३५ ॥
12.2.35 · p. 79
अनुष्टुप्
कर्कटः करणे स्त्रीणां राशिभेदकुलीरयोः ।खगे तु कर्कटी तु स्याद्बालुङ्क्यां शाल्मलीफले ॥ ३६ ॥
12.2.36 · p. 79
अनुष्टुप्
कर्द्दटः पङ्कपङ्कारकरहाटेषु कीर्तितः ।कर्यटस्त्रिषु कार्यज्ञे पुमाञ्जतुनि कर्यटः ॥ ३७ ॥
12.2.37 · p. 80
अनुष्टुप्
कीकटो मगधेऽपि स्यान्निःस्वे चाश्वे मितंपचे ।कुक्कुटस्ताम्रचूडे स्यात्कुक्कुमे वाग्निकुक्कुटे ॥ ३८ ॥
12.2.38 · p. 80
अनुष्टुप्
निषादशूद्रयोश्चैव तनये त्रिषु कुक्कुटः ।रसोनभेदोच्चटयोस्तालमध्येपि कुक्कुटी ॥ ३९ ॥
12.2.39 · p. 80
अनुष्टुप्
कुक्कुटी ताम्रचूडाख्ययोषिन्मिथ्योपचर्ययोः ।कुरुण्टी शालभंज्यां स्यात्कुरुण्टो झिण्टिकान्तरे ॥ ४० ॥
12.2.40 · p. 80
अनुष्टुप्
कृपीटमुदरे नीरे केशटस्तु कणे हरौ ।चक्राटः पुंसि दीनारे धूर्त्ते जाङ्गुलिके त्रिषु ॥ ४१ ॥
12.2.41 · p. 80
अनुष्टुप्
चर्प्पटः स्फारविपुले चपेटे चैव चर्प्पटः ।चर्पटः पर्पटेऽपि स्यात्पिष्टभेदे तु चर्प्पटी ॥ ४२ ॥
12.2.42 · p. 80
अनुष्टुप्
चिपिटश्चिपिटे पुंसि पिच्चिते विस्तृतेऽन्यवत् ।चिरण्टी तु सुवासिन्यां स्याद्वितीयवयःस्त्रियाम् ॥ ४३ ॥
12.2.43 · p. 81
अनुष्टुप्
वार्त्ताकुपुष्पे जकुटं जकुटो मलये शुनि ।त्रिकूटं सिन्धुलवणे त्रिकूटः स्यात्सुवेलके ॥ ४४ ॥
12.2.44 · p. 81
अनुष्टुप्
त्रिपुटस्तु भवेत्तीरे पुमानपि सतीनके ।त्रिपुटा मल्लिकाभेदे सूक्ष्मैलात्रिवृतोरपि ॥ ४५ ॥
12.2.45 · p. 81
अनुष्टुप्
त्र्यङ्गटं शिक्यभेदे स्याद्धौताञ्जन्यामपीष्यते ।द्रोहाटस्तु मतो गाथाप्रभेदे मृगलुब्धके ॥ ४६ ॥
12.2.46 · p. 81
अनुष्टुप्
बैडालव्रतिकेऽपि स्याद्धाराटश्चातकाश्वयोः ।निर्दटो निर्दये न्यायवादरक्ते च निष्फले ॥ ४७ ॥
12.2.47 · p. 81
अनुष्टुप्
निष्कुटस्तु गृहोद्याने स्वात्केदारकपाटयोः ।पर्पटस्तु द्वयोः पिष्टविकृतौ भेषजान्तरे ॥ ४८ ॥
12.2.48 · p. 81
अनुष्टुप्
परीष्टिः परिचर्यायां प्राकाश्येऽपि गवेषणे ।पर्कटी प्लक्षणकल्योः पात्रटः कर्परे कृशे ॥ ४९ ॥
12.2.49 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
पिच्चटो नेत्ररोगेपि पिच्चटं सीसके त्रपौ ।वरटायां सयोधन्यां गन्धोल्यां वरटो द्वयोः ॥ ५० ॥
12.2.50 · p. 82
अनुष्टुप्
बर्बटी गणिकायां स्याद् व्रीहिभेदेऽपि बर्बटी ।बर्बटो मकरे पोते बालकेऽपि च बर्बटः ॥ ५१ ॥
12.2.51 · p. 82
अनुष्टुप्
स्त्रियां पुञ्जेपि भाकूटा भाकूटो मीनशैलयोः ।भार्याटः पटहाजीवे लोभाल्वकीसमर्पके(?) ॥ ५२ ॥
12.2.52 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल्व (wrong syllable)
भावाटः कामुके साधुनिवेशे भावके नटे ।मर्कटः कपिलूताकीकरणेष्वथ मर्कटी ॥ ५३ ॥
12.2.53 · p. 82
अनुष्टुप्
वानरीशूकशिम्ब्यां स्याद् चक्राङ्ग्यां करजान्तरे ।बीजे तु राजकर्कट्यां प्राचीनामलकस्य च ॥ ५४ ॥
12.2.54 · p. 82
अनुष्टुप्
गवेधुकाफले चैव मर्कटः पुंसि दृश्यते ।मोचाटश्चन्दने कृष्णजीररम्भास्थ्न्युपस्करे ॥ ५५ ॥
12.2.55 · p. 83
अनुष्टुप्
मोरटं त्विक्षुमूले स्यादङ्कोटकुसुमेऽपि च ।सप्तरात्रात्परक्षीरे मूर्तिकायां तु मोरटा ॥ ५६ ॥
12.2.56 · p. 83
अनुष्टुप्
रवटो दक्षिणावर्तशङ्खे जाङ्गुलिकेऽपि च ।वराहे मोरटे रेणौ वातूलेऽपि च रेवटः ॥ ५७ ॥
12.2.57 · p. 83
अनुष्टुप्
वर्ण्णाटो गायने कामिचित्रकृद्वारजीविनि ।विकटो विकराले स्याद्विशाले सुंदरे वरे ॥ ५८ ॥
12.2.58 · p. 83
अनुष्टुप्
वेकटः स्याद्वैकटिके मीने च नवयौवने ।वरटो मिश्रिते नीचे वेरटं बदरीफले ॥ ५९ ॥
12.2.59 · p. 83
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वै (wrong syllable)
शैलाटो देवले सिंहे सितकाचकिरातयोः ।संसृष्टं त्रिषु वान्त्यादिसंशुद्धे सङ्गतेऽपि च ॥ ६० ॥
12.2.60 · p. 83
अनुष्टुप्
हर्म्मटस्तु पुमान्सूर्ये कच्छपेऽपि च हर्म्मटः ।
12.2.30 · p. 83