कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

फान्तवर्गः · फद्वितीयम्

फद्वितीयम् ।

गुम्फो बाहोरलंकारे गिरातन्तोश्च गुम्फने ।रेफो रवर्णे पुंस्येव कुत्सिते त्वभिधेयवत् ॥ २ ॥
23.2.2 · p. 233
अनुष्टुप्
शफं खुरे गवादीनां तरूणां चरणेऽपि च ।शिफा जटायां नद्यां च मांसिकायां च मातरि ॥ ३ ॥
23.2.3 · p. 233
अनुष्टुप्