कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

रान्तवर्गः · रतृतीयम् (2/2)

शर्करा शर्करायुक्तदेशे स्यात्कर्परांशके ।शकले खण्डविकृतावुपलायां च तद्भिदि ॥ २२२ ॥
28.3.222 · p. 313
अनुष्टुप्
शर्वरी तु त्रियामायां हरिद्रायोषितोरपि ।श(ब)वरो म्लेच्छभेदेऽपि शबरः शङ्करे जले ॥ २२३ ॥
28.3.223 · p. 314
अनुष्टुप्
शक्वरस्तु वलीवर्दे छन्दोभेदे तु शाक्वरम् ।शाङ्करिर्विघ्नपे स्कन्दे शारीरो देहजे वृषे ॥ २२४ ॥
28.3.224 · p. 314
अनुष्टुप्
शार्करो दुग्धफेने स्याद्वाच्यवच्छर्करावति ।शार्वरं त्वन्धतमसे घातुके त्रिषु शार्वरम् ॥ २२५ ॥
28.3.225 · p. 314
अनुष्टुप्
शालारं स्याद्धस्तिनखे सोपाने पक्षिपञ्जरे ।शावरो लोध्रवृक्षे स्यात्तथा पापाऽपराधयोः ॥ २२६ ॥
28.3.226 · p. 314
अनुष्टुप्
शावरी शूकशिम्ब्यां च तद्भवे त्रिषु शावरम् ।शिखरं शैलवृक्षाग्रे कक्षापुलककोटिषु ॥ २२७ ॥
28.3.227 · p. 314
अनुष्टुप्
पक्वदाडिमबीजाभमाणिक्यशकलेऽपि च ।शिलीन्ध्रस्तु पुमान्मीनभेदे वृक्षप्रभेदयोः ॥ २२८ ॥
28.3.228 · p. 314
अनुष्टुप्
शिलीन्ध्रं कवके रम्भापुष्पत्रिपुटयोरपि ।शिलीन्ध्री विहगीभेदे तथा गण्डूपदीमृदि ॥ २२९ ॥
28.3.229 · p. 315
अनुष्टुप्
शिशिरस्तु ऋतौ पुंसि तुषारे शीतलेऽन्यवत् ।शीकरः शरले वाते निःसृताम्बुकणेषु च ॥ २३० ॥
28.3.230 · p. 315
अनुष्टुप्
शुषिरं विवरे वाद्ये नाऽग्नौ रन्ध्रवति त्रिषु ।शृङ्गारः सुरते नाट्यरसे द्विरदभूषणे ॥ २३१ ॥
28.3.231 · p. 315
अनुष्टुप्
शृङ्गारं चूर्णसिन्दूरे लवङ्गकुसुमे मतम् ।सङ्कारोऽग्निचटत्कारे सम्मार्जन्यपमार्जिते ॥ २३२ ॥
28.3.232 · p. 315
अनुष्टुप्
नरदूषितकन्यायां सङ्करी क्वचिदिष्यते ।सङ्गरस्तु प्रतिज्ञाजिक्रियाकारे विषापदोः ॥ २३३ ॥
28.3.233 · p. 315
अनुष्टुप्
सङ्गरं स्यात्फले शम्याः सम्भारः सम्भृतौ गणे ।संवरस्तु मृगक्ष्माभृद्दैत्यमत्स्यजिनान्तरे ॥ २३४ ॥
28.3.234 · p. 315
अनुष्टुप्
संबरं सलिले बौद्धव्रतभेदे घनेऽपि च ।संबरी त्वौषधीभेदे सामुद्रं त्वङ्गलक्षणे ॥ २३५ ॥
28.3.235 · p. 316
अनुष्टुप्
सामुद्रं स्यात्समुद्रीयलवणादिषु वाच्यवत् ।सावित्री देवताभेदे सावित्रः पार्वतीपतौ ॥ २३६ ॥
28.3.236 · p. 316
अनुष्टुप्
सिन्दूरस्तरुभेदे ना सिन्दूरं रक्तवालुके ।सिन्दूरमपि सिन्दूरयुक्तलेखे महीभृताम् ॥ २३७ ॥
28.3.237 · p. 316
अनुष्टुप्
सिन्दूरी धातकीरक्तचेलिकारोचनीष्वपि ।सुन्दरी नायिकाभेदे तरुभेदेऽपि सुन्दरी ॥ २३८ ॥
28.3.238 · p. 316
अनुष्टुप्
सुनारस्तु शुनीस्तन्ये सर्पाण्डकलविङ्कयोः ।सैरिन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम् ॥ २३९ ॥
28.3.239 · p. 316
अनुष्टुप्
वर्णसङ्करजायादौ वधाद्यां च महल्लके ।सौवीरं काञ्जिके स्रोतोञ्जने बदरदेशयोः ॥ २४० ॥
28.3.240 · p. 316
अनुष्टुप्
संस्कारः पुंस्यनुभवे सङ्कल्पप्रतियत्नयोः ।संस्तरः प्रस्तरे पुंसि पुंसि यज्ञेपि संस्तरः ॥ २४१ ॥
28.3.241 · p. 316
अनुष्टुप्
हिण्डीरस्तु पुमान्फेने तथा वातिङ्गने नरि ।
28.3.141 · p. 317