कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

णान्तवर्गः · णतृतीयम्

णतृतीयम् ।

अभीक्ष्णं तु भृशे नित्येऽप्यरुणोऽनूरुसूर्ययोः ।कुष्ठे चाव्यक्तरागे च सन्ध्यारागे च पुंस्ययम् ॥ ३६ ॥
16.2.36 · p. 105
अनुष्टुप्
नीरवाऽऽरक्तकपिलव्याकुलेषु च वाच्यवत् ।अरुणा तिवृताश्यामामञ्जिष्ठाऽतिविषासु च ॥ ३७ ॥
16.2.37 · p. 105
अनुष्टुप्
अरणिस्तु भवेदग्निग्रन्थे मन्थानदण्डके ।इन्द्राणी तु शचीसिन्दुवारयोः करणे स्त्रियाम् ॥ ३८ ॥
16.2.38 · p. 106
अनुष्टुप्
ईरिणं तूषरे शून्येऽपीक्षणं दर्शने दृशि ।ऊषणा तु कणायां स्यादूषणं मरिचे मतम् ॥ ३९ ॥
16.2.39 · p. 106
अनुष्टुप्
एषणी व्रणमार्गाऽनुसारिण्यां तु तुलाभिदि ।एषणो लोहबाणे स्यादन्वेषे त्वनुपूर्वकम् ॥ ४० ॥
16.2.40 · p. 106
अनुष्टुप्
कङ्कणं करभूषायां हस्तसूत्रेऽपि शेखरे ।कत्तृणं तृणभेदेऽपि वारिपर्ण्यां च कत्तृणम् ॥ ४१ ॥
16.2.41 · p. 106
अनुष्टुप्
करणस्तु भवेद्वैश्याच्छुद्रायास्तनुजे पुमान् ।करणं साधकतमे कार्यकायस्थकर्मसु ॥ ४२ ॥
16.2.42 · p. 106
अनुष्टुप्
क्रियायामिन्द्रिये क्षेत्रे करणं बालवादिषु ।गीताङ्गहारसंवेशक्रियाभेदेऽपि चेष्यते ॥ ४३ ॥
16.2.43 · p. 106
अनुष्टुप्
करुणस्तु रसे वृक्षे कृपायां करुणा स्त्रियाम् ।करेणुस्तु वसायां स्त्री कर्णिकारेभयोः पुमान् ॥ ४४ ॥
16.2.44 · p. 107
अनुष्टुप्
कल्याणमक्षयस्वर्गे मङ्गले तद्वति त्रिषु ।स्यान्मानदण्डपणयोश्चतुर्थांशे हि काकिणी ॥ ४५ ॥
16.2.45 · p. 107
अनुष्टुप्
गुञ्जायां वाटमानेऽपि कुष्ठभेदेऽपि काकणे ।कारणं हेतुवधयोः पीडायां करणेऽपि च ॥ ४६ ॥
16.2.46 · p. 107
अनुष्टुप्
कारणा यातनायां स्यात्कार्मणं स्यात्तु कर्मठे ।परदेहप्रवेशे च योजने मंत्रतन्त्रयोः ॥ ४७ ॥
16.2.47 · p. 107
अनुष्टुप्
भृत्ये कर्तरि कुर्वाणः कृपणः कुत्सिते कृमौ ।खड्गे कृपाणः शस्त्री तु कृपाणी कर्त्तरावपि ॥ ४८ ॥
16.2.48 · p. 107
अनुष्टुप्
कोङ्कणो देशभेदे स्यादस्त्रभेदे तु कोङ्कणम् ।गोकर्णोऽश्वतरे सर्पमृगभेदे गणान्तरे ॥ ४९ ॥
16.2.49 · p. 107
अनुष्टुप्
अङ्गुष्टाऽनामिकोन्माने गोकर्णी मूर्विकौषधी ।ग्रहणं तूपलव्धौ स्यात्स्वीकारादरयोः करे ॥ ५० ॥
16.2.50 · p. 108
अनुष्टुप्
ग्रहोपरागे वन्द्यां च प्रत्याये ग्रहणीरुजि ।ग्रामणीर्नापिते पुंसि श्रेष्ठाऽधिपे च भौगिके ॥ ५१ ॥
16.2.51 · p. 108
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 धि (wrong syllable)
त्रिषु स्त्रियां तु गणिका ग्रामिणी नीलिका स्त्रियाम् ।चरणोऽस्त्री बह्वृचादौ मूलेऽपि पदगोत्रयोः ॥ ५२ ॥
16.2.52 · p. 108
अनुष्टुप्
चरणं भ्रमणेङ्घ्रौ स्याच्चरणं भक्षणेऽपि च ।जरणं जीरणोऽजाजीहिङ्गुसौवर्चले मतम् ॥ ५३ ॥
16.2.53 · p. 108
अनुष्टुप्
तरणिः सूर्येऽपि तरणे कुमारीनौकयोः स्त्रियाम् ।तरुणो यूनि नवके कुब्जपुष्पोरुवूकयोः ॥ ५४ ॥
16.2.54 · p. 108
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दक्षिणः सरलावामपरच्छन्दानुवर्त्तिषु ।त्रिषु स्याद्वाच्यलिङ्गोऽयमवाची संभवे मतः ॥ ५५ ॥
16.2.55 · p. 108
अनुष्टुप्
यज्ञदानप्रतिष्ठायामवाच्यामपि दक्षिणा ।दुर्वर्णं वालुके रूप्ये द्रविणं स्यात्पराक्रमे ॥ ५६ ॥
16.2.56 · p. 109
अनुष्टुप्
धरणं धारणे मानभेदेऽपि धरणी क्षितौ ।धरुणः सलिले स्वर्गे धरुणः परमेष्ठिनि ॥ ५७ ॥
16.2.57 · p. 109
अनुष्टुप्
धर्म्मणः सर्पभेदेपि धर्म्मणः पादपान्तरे ।धर्षणी कुलटायां स्याद् धर्षणं गञ्जिते रते ॥ ५८ ॥
16.2.58 · p. 109
अनुष्टुप्
बुद्धोक्तमन्त्रभेदे च नाटिकायां च धारणी ।धिषणस्तु सुराचार्ये धिषणा बुद्धिनिद्रयोः ॥ ५९ ॥
16.2.59 · p. 109
अनुष्टुप्
निर्माणो निर्मितौ सारे रचनायां समञ्जसे ।निर्याणं निर्गमे मोक्षे गजापाङ्गे च तद्द्वयोः ॥ ६० ॥
16.2.60 · p. 109
अनुष्टुप्
निर्वाणं निर्वृतौ मोक्षे स्तम्भने गजमज्जने ।निश्रेणिरधिरोहिण्यां खर्जूरीपादपे स्त्रियाम् ॥ ६१ ॥
16.2.61 · p. 109
अनुष्टुप्
पत्रोर्णं धौतकौशेये पत्रोर्णः शोणकद्रुमे ।पुराणं चिरकालीयद्रव्ये स्यादभिधेयवत् ॥ ६२ ॥
16.2.62 · p. 110
अनुष्टुप्
पूरणः पूरके पुंसि पूरणे पिष्टकान्तरे ।पूरणी शाल्मलीवस्त्रारम्भसूत्रान्तरेऽपि च ॥ ६३ ॥
16.2.63 · p. 110
अनुष्टुप्
प्रघणस्ताम्रकुण्डे स्यादलिन्दे लोहमुद्गरे ।प्रमाणमेकतेयत्ताहेतियन्तृप्रमातृषु ॥ ६४ ॥
16.2.64 · p. 110
अनुष्टुप्
सत्यवादिनि नित्ये च मर्यादाहन्तृशास्त्रयोः ।प्रवणः प्रगुणे प्रह्वे क्रमनिम्नःक्षितौ कृशे ॥ ६५ ॥
16.2.65 · p. 110
अनुष्टुप्
एतेषु त्रिषु पुंस्येव प्रवणः स्याच्चतुष्पथे ।प्रवेणिः स्त्री कुथे वेण्यां प्रोक्षणं वधसेकयोः ॥ ६६ ॥
16.2.66 · p. 110
अनुष्टुप्
वरणस्तिक्तशाकेऽपि प्राकारे वरणं वृतौ ।वरुणस्तरुभेदे स्यात् प्रचेतःसूर्यवारिषु ॥ ६७ ॥
16.2.67 · p. 110
अनुष्टुप्
वारणो दन्तिनि ख्यातः प्रतिषेधे तु वारणम् ।अथ प्रतीचीमदिरागण्डदूर्वासु वारुणी ॥ ६८ ॥
16.2.68 · p. 111
अनुष्टुप्
ब्राह्मणी फञ्जिकासृक्काद्विजपत्नीष्वथ द्विजे ।ब्राह्मणो ब्राह्मणं मन्त्रभेदेऽपि द्विजसंहतौ ॥ ६९ ॥
16.2.69 · p. 111
अनुष्टुप्
भरणी शोणके ऋक्षे भरणं वेतने भृतौ ।भीषणे दारुणे गाढे भीषणं सल्लकीरसे ॥ ७० ॥
16.2.70 · p. 111
अनुष्टुप्
कारुण्ड्यामीश्वरक्रीडाभ्रमणे भ्रमणी स्त्रीयाम् ।मार्गणो याचके बाणे क्लीबमन्वेषयाच्ञयोः ॥ ७१ ॥
16.2.71 · p. 111
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 स्त्री (wrong syllable)
यन्त्रणं स्यान्नियमने बन्धने रक्षणेऽपि च ।पटोलमूले रमणं रमणस्तु प्रिये स्मरे ॥ ७२ ॥
16.2.72 · p. 111
अनुष्टुप्
रवणो रासभे शब्दो रोषाणो रोषणे त्रिषु ।पारदोषरयोः स्वर्णघर्षणेऽपि पुमानयम् ॥ ७३ ॥
16.2.73 · p. 111
अनुष्टुप्
रोहिणी कुटुरोहिण्यां लोहितासोमवल्कयोः ।गोनागकर्णरुग्भेदे लवणं तु द्विजान्तरे ॥ ७४ ॥
16.2.74 · p. 112
अनुष्टुप्
लवणो रसरक्षोब्धिभेदेषु लवणा द्युतौ ।लक्षणं नाम्नि चिह्ने च रामभ्रातरि लक्षणः ॥ ७५ ॥
16.2.75 · p. 112
अनुष्टुप्
लक्ष्मणः पुंसि सौमित्रौ लक्ष्मणं नामलक्ष्मणोः ।लक्ष्मणा सारसीज्योतिष्मत्योः श्रीमति वाच्यवत् ॥ ७६ ॥
16.2.76 · p. 112
अनुष्टुप्
विपणिस्तु स्त्रियां पण्यवीथ्यामापणपण्ययोः ।विषाणं तु पशोः शृङ्गौ विषाणं द्विरददन्तयोः ॥ ७७ ॥
16.2.77 · p. 112
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
त्रिषु त्रिषु विषाणी तु मेषशृङ्गाख्यभेषजे ।शरणं गृहरक्षित्रोः शरणं रक्षणे वघे ॥ ७८ ॥
16.2.78 · p. 112
अनुष्टुप्
सिङ्घाणं काचपात्रेऽपि नासिकालोहकिट्टयोः ।श्रावणो मासि पाषण्डे दघ्यान्या श्रावणी स्त्रियाम् ॥ ७९ ॥
16.2.79 · p. 112
अनुष्टुप्
श्रीपर्णी कुम्भिगम्भार्यां क्लीबं पद्माग्निमन्थयोः ।सङ्कीर्णं सङ्कटेऽशुद्धे सरणिः श्रेणिवर्त्मनोः ॥ ८० ॥
16.2.80 · p. 113
अनुष्टुप्
सारणो रावणाऽमात्येऽप्यतीसारेऽपि सारणः ।सारणी स्वल्पसरिति प्रसारण्यां च सारणी ॥ ८१ ॥
16.2.81 · p. 113
अनुष्टुप्
सुपर्णः स्वर्णचूडेऽपि गरुडे कृतमालके ।सुपर्णा कमलिन्यां च सुपर्णा तार्क्ष्यमातरि ॥ ८२ ॥
16.2.82 · p. 113
अनुष्टुप्
सुवर्णस्तु सुवर्णालौ कृष्णाऽगुरुमखान्तरे ।सुवर्णं वर्णितं स्वर्णे सुवर्णं कर्षवित्तयोः ॥ ८३ ॥
16.2.83 · p. 113
अनुष्टुप्
सुषेणो हरिसुग्रीववैद्ययोः करमर्दके ।हरणं यौतकद्रव्येऽप्यङ्गरागे भुजे हृतौ ॥ ८४ ॥
16.2.84 · p. 113
अनुष्टुप्
हरिणस्तु मृगे पुंसि हरिणः पाण्डुरेऽन्यवत् ।हरिणी हरितामृग्योर्वृत्तस्त्रीभेदयोरपि ॥ ८५ ॥
16.2.85 · p. 113
अनुष्टुप्
सुवर्णप्रतिमायां च हर्षणस्तु प्रमोदके ।अक्षिरोगान्तरे योगान्तरेऽपि श्राद्धदैवते ॥ ८६ ॥
16.2.86 · p. 114
अनुष्टुप्
स्त्री कुलस्त्रीरेणुकयोः हरेणुर्ना सतीनके ।हिरणं च हरिण्यं च वराटे स्वर्णरेतसोः ॥ ८७ ॥
16.2.87 · p. 114
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रे (wrong syllable)
क्षेपणी च भवेन्नौकादण्डे जालान्तरेऽपि च ।
16.2.53 · p. 114