All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
थान्तवर्गः · थतृतीयम्
थतृतीयम् ।
अतिथिः स्यात्प्राघुणके कोपेपि कुशपुत्रके ।त्रिष्वव्यथो व्यथाहीने पथ्यायां पन्नगेऽव्यथः ॥ १६ ॥
18.3.16 · p. 164
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्प्रा (wrong syllable)
अश्वत्थः पूर्णिमायां च गर्दभाण्डे च पिप्पले ।उद्रथस्तम्रचूडेऽपि महेन्द्रे महकामुके ॥ १७ ॥
18.3.17 · p. 164
अनुष्टुप्
उन्माथः कूटयन्त्रे स्यादपि मारणघातयोः ।उपस्थस्तु भगे लिङ्गेऽप्युत्सङ्गेऽपि गुदे पुमान् ॥ १८ ॥
18.3.18 · p. 164
अनुष्टुप्
कायस्थस्तु नृणां जातिप्रभेदे परमात्मनि ।कायस्था स्याद्वयस्थायां पथ्यायां कायगे त्रिषु ॥ १९ ॥
18.3.19 · p. 165
अनुष्टुप्
गोग्रन्थिस्तु करीषे स्याद्गोष्ठे गोजिह्विकौषधौ ।दमथस्तु दमे दण्डे निर्ग्रन्थः क्षपणेऽधने ॥ २० ॥
18.3.20 · p. 165
अनुष्टुप्
वालिशेऽपि निशीथस्तु निशामात्रार्द्धरात्रयोः ।प्रमथः शङ्करगणे पथ्यायां प्रमथा तथा ॥ २१ ॥
18.3.21 · p. 165
अनुष्टुप्
वयःस्था शाल्मलीपथ्याकाकोल्यामलकीषु च ।ब्राह्मीत्रुटिगुडूचीषु वयस्थतरुणे त्रिषु ॥ २२ ॥
18.3.22 · p. 165
अनुष्टुप्
मन्मथः कामचिन्तायां कामदेवकपित्थयोः ।वमथुः पुंसि वमने मातङ्गकरशीकरे ॥ २३ ॥
18.3.23 · p. 165
अनुष्टुप्
वरूथो रथगुप्तौ ना वरूथं चर्मवेश्मनि ।विदथो योगिकृतिनोः शमथः शान्त्यमात्ययोः ॥ २४ ॥
18.3.24 · p. 165
अनुष्टुप्
षड्ग्रन्था तु वचाशट्योः षङ्ग्रन्थः करञ्जान्तरे ।समर्थस्तूद्भटे शक्ते सम्बद्धार्थे हिते त्रिषु ॥ २५ ॥
18.3.25 · p. 166
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 र (wrong syllable)
सर्वार्थसिद्धे सिद्धार्थः सिद्धार्था सितसर्षपे ।क्षवथुः पुंसि कासे स्याच्छिक्कायामपि सम्मतः ॥ २६ ॥
18.3.26 · p. 166
अनुष्टुप्