All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
अव्ययानि · हान्तानि
ह०
अहा शोके धिगर्थे च विषादकरुणार्थयोः ।अहो प्रश्ने विचारे स्यादहहाद्भुतखेदयोः ॥ ८० ॥
36.21.80 · p. 419
अनुष्टुप्
अहह स्यादनुशये परिक्लेशप्रकर्षयोः ।आह क्षेपनियोगार्थेऽप्युताहो प्रश्नतर्कयोः ॥ ८१ ॥
36.21.81 · p. 420
अनुष्टुप्
सहशब्दस्तु साकल्ययौगपद्यसमृद्धिषु ।सादृश्ये विद्यमानेऽपि सम्बन्धेऽपि सह स्मृतम् ॥ ८२ ॥
36.21.82 · p. 420
अनुष्टुप्
ह पादपूरणे सम्बोधने हीरे त्वनव्ययम् ।हा विषादेऽपि दुःखेऽपि शोके हाहा तु खेदने ॥ ८३ ॥
36.21.83 · p. 420
अनुष्टुप्
गन्धर्वेऽनव्ययं हाहा हि विशेषेऽवधारणे ।हि पादपूरणे हेतौ ही विस्मयविषादयोः ॥ ८४ ॥
36.21.84 · p. 420
अनुष्टुप्
ही हर्षे दुःखहेतौ च हीही विस्मयहास्ययोः ।हूहू हर्षेऽपि गन्धर्वे गन्धर्वे किन्त्वनव्ययम् ॥ ८५ ॥
36.21.85 · p. 420
अनुष्टुप्
हेहे व्यस्तौ समस्तौ च संस्मृत्यामान्त्रहूतिषु ।हो च हौ च समस्तौ च सम्बुद्ध्याध्यानयोर्मतौ ॥ ८६ ॥
36.21.86 · p. 420
अनुष्टुप्
मङ्क्षुः शीघ्रे भृशार्थेऽपि मङ्क्षु तत्त्वेऽपि कुत्रचित् ॥ ८७ ॥
36.21.87 · p. 421