कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

धान्तवर्गः · धतृतीयम्

धतृतीयम् ।

अगाधमतलस्पर्शे त्रिषु श्वभ्रे नपुंसकम् ॥ २९ ॥
20.3.29 · p. 181
अवधिर्नाऽवधौ न स्यात्सीम्नि काले विलेऽवटे ।आनद्धं त्रिषु बद्धे स्यादानद्धं मुरजादिके ॥ ३० ॥
20.3.30 · p. 181
अनुष्टुप्
आवन्धः प्रेम्ण्यलङ्कारे दृढबन्धेऽपि कीर्त्तितः ।आविद्धः प्रहते वक्रेऽप्युत्सेधः काय उच्छ्रये ॥ ३१ ॥
20.3.31 · p. 181
अनुष्टुप्
व्याजेऽपि चक्रेऽप्युपधिरुपाधिर्ना विशेषणे ।कैतवे धर्म्मचिन्तायां कुटुम्बव्यापृतेऽपि च ॥ ३२ ॥
20.3.32 · p. 181
अनुष्टुप्
कवन्धस्तु हरे राहौ रक्षोभेदे मतः पुमान् ।कबन्धं वारि न स्त्री तु गतमूर्द्धकलेवरे ॥ ३३ ॥
20.3.33 · p. 181
अनुष्टुप्
दुर्विधौ दुःखिखलयोर्निरोधो रोधनाशयोः ।निषधः पर्वते देशे तद्राजे कठिनेपि च ॥ ३४ ॥
20.3.34 · p. 181
अनुष्टुप्
न्यग्रोधस्तु वटे शम्यां न्यग्रोधो व्याममात्रके ।न्यग्रोधी विषपय च मोहनाख्यौषधावपि ॥ ३५ ॥
20.3.35 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 वि (wrong syllable)
परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ।प्रणिधिर्याच्याचरयोः प्रसिद्धः ख्यातभूषिते ॥ ३६ ॥
20.3.36 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्या (wrong syllable)
मागधो मगधोद्गते क्षत्रियावैश्यजे त्रिषु ।बन्दिजीरकयोः पुंसि कणायूथ्योस्तु मागधी ॥ ३७ ॥
20.3.37 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द्ग (wrong syllable)
पर्याहाराध्वभारेषु पण्ये विवधवीवधौ ।विबुधः पण्डिते देवे विश्रब्धं तु भृशार्थकम् ॥ ३८ ॥
20.3.38 · p. 182
अनुष्टुप्
विश्रब्धः स्यात्तु विश्वस्ताऽनुद्भटेषु त्रिषु त्रिषु ।लतायां विटपे वीरुत्सन्नद्धो व्यूढवर्म्मिते ॥ ३९ ॥
20.3.39 · p. 182
अनुष्टुप्
सन्निधिः सन्निधाने सी पुमानिन्द्रियगोचरे ।समाधिर्ध्याननीवाकनियमेषु समर्थने ॥ ४० ॥
20.3.40 · p. 182
अनुष्टुप्
सम्बाधः सङ्कटे योनौ सङ्गरेपि सुगन्धि तु ।शैलेयेऽभीष्टगन्धे च संरोधः क्षेपरोधयोः ॥ ४१ ॥
20.3.41 · p. 183
अनुष्टुप्
संसिद्धिस्तु मता श्रीमत्तिनीप्रकृतिसिद्धिषु ।
20.3.14 · p. 183