All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
कान्तवर्गः · कपञ्चमम्
कपञ्चमम् ।
अनेडमूकः कितवे त्रिषु वाक्श्रुतिवर्जिते ।स्यादाच्छुरितकं हासनखाघातविशेषयोः ॥ २३३ ॥
1.5.233 · p. 40
अनुष्टुप्
मातोपकारिका राजमन्दिरे पिष्टकान्तरे ।उपकर्त्र्यामपीयं स्यादथ स्यात्कटखादकः ॥ २३४ ॥
1.5.234 · p. 40
अनुष्टुप्
खादके काचकलशे वलिपुष्टशृगालयोः ।स्यात्कक्षावेक्षको धीरे शुद्धान्तोद्यानपालयोः ॥ २३५ ॥
1.5.235 · p. 40
अनुष्टुप्
अपि षिड्गे कवौ रङ्गाजीविनि द्वारपालके ।स्यात्कृमीकण्टकं चित्राविडङ्गोदुम्बरेष्वपि ॥ २३६ ॥
1.5.236 · p. 40
अनुष्टुप्
गोजागरिकमित्याहुर्मङ्गले कन्दुकारके ।कण्ठीविशेषखद्योतविद्युत्सु चिलिमीलिका ॥ २३७ ॥
1.5.237 · p. 41
अनुष्टुप्
शृङ्गाटके जलगृहे पृश्न्यां च जलकण्टकः ।जनतापिक हल्लीशकाकोलीमत्स्ययोर्मतः ॥ २३८ ॥
1.5.238 · p. 41
अनुष्टुप्
भवेज्जलकरङ्कस्तु नालिकेरफलेऽम्बुदे ।कंजे जललतायां च भवेन्नवफलिका पुनः ॥ २३९ ॥
1.5.239 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्नव (syllable split)
नव्ये भव्ये प्रसूनादौ नवजातरजःस्त्रियाम् ।नागवारिकमिच्छन्ति हस्तिपे राजहस्तिनि ॥ २४० ॥
1.5.240 · p. 41
अनुष्टुप्
तार्क्ष्ये गणन्वराजेऽपि चित्रमेखलके क्वचित् ।शोधन्यामिंगुदे लोकयात्रायां व्यवहारिका ॥ २४१ ॥
1.5.241 · p. 41
अनुष्टुप्
स्याद्व्रीहिराजिकः पुंसि कामिनीचीनधान्ययोः ।शतपर्विका च दूर्वायां वचायां शतपर्विका ॥ २४२ ॥
1.5.242 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शीतचम्पकशब्दोऽयमातर्पणकदीपयोः ।सुवसन्तकमिच्छन्ति वासन्त्यां मदनोत्सवे ॥ २४३ ॥
1.5.243 · p. 42
अनुष्टुप्
स्याद्धेमपुष्पिका यूथ्यां चम्पके हेमपुष्पकः ।
1.5.12 · p. 42