All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
शान्तवर्गः · शतृतीयम्
शतृतीयम् ।
आदर्शः पुंसि मुकुरे टीकायां प्रतिपुस्तके ।उड्डीशः पार्वतीकान्ते ग्रन्थभेदे च स स्मृतः ॥ २० ॥
31.3.20 · p. 374
अनुष्टुप्
उपांशुर्जापभेदे स्यादुपांशु विजनेऽव्ययम् ।माधव्यां कपिशा श्यावे त्रिषु पुंसि च सिह्लके ॥ २१ ॥
31.3.21 · p. 374
अनुष्टुप्
कम्पिल्लकासमर्द्देक्षुकृपाणे पुंसि कर्क्कशः ।निर्दये परुषे क्रूरे दृढे साहसिके त्रिषु ॥ २२ ॥
31.3.22 · p. 374
अनुष्टुप्
कुलिशो मत्स्यभेदेऽस्थिसंहारे कुलिशं पशौ ।गिरीशः शङ्करे वाचस्पतावद्रिपतावपि ॥ २३ ॥
31.3.23 · p. 374
अनुष्टुप्
तुङ्गीशस्तु हरे चन्द्रे दुःस्पर्शः स्याद्यवासके ।कण्टकार्यां तु दुःस्पर्शा खरस्पर्शे तु वाच्यवत् ॥ २४ ॥
31.3.24 · p. 374
अनुष्टुप्
निदेशः स्यादुपान्तेऽपि शासने भाषणे पुमान् ।निर्वेशो वेतने भोगे निर्वेशो मूर्छनेऽपि च ॥ २५ ॥
31.3.25 · p. 374
अनुष्टुप्
निवेशः शिबिरे पुंसि तथोद्वाहविनाशयोः ।निस्त्रिंशो निर्दये खड्गे नीकाशो निश्चये समे ॥ २६ ॥
31.3.26 · p. 375
अनुष्टुप्
पलाशः किंशुके शट्यां पलाशो निकषात्मजे ।क्लीबं पलाशं छदने पलाशो हरिति त्रिषु ॥ २७ ॥
31.3.27 · p. 375
अनुष्टुप्
पक्षीशो गरुडे कृष्णे पिङ्गाशं जात्यकाञ्चने ।मत्स्ये पल्लीपतौ पुंसि पिङ्गाशी नीलिकौषधौ ॥ २८ ॥
31.3.28 · p. 375
अनुष्टुप्
प्रकाशोऽतिप्रसिद्धे च प्रहासे चाऽऽतपे स्फुटे ।प्रदेशो देशभित्त्योः स्यात्तर्जन्यङ्गुष्ठसम्मिते ॥ २९ ॥
31.3.29 · p. 375
अनुष्टुप्
बालिशस्तु शिशौ बाल्यलिङ्गे मूर्खेऽपि बालिशः ।भूकेश्यवल्गुजेऽपि स्याद्भूकेशः शैवले वटे ॥ ३० ॥
31.3.30 · p. 375
अनुष्टुप्
लोमशस्तु पुमान्मेषे वाच्यवल्लोमसंयुते ।शृगालीमर्कटीमांसीशूकशिम्बिषु लोमशा ॥ ३१ ॥
31.3.31 · p. 375
अनुष्टुप्
लोमशा काकजङ्घायां काशीशे शाकिनीभिदि ।महाभेदातिबलयोर्वीकाशस्तु विकाशवत् ॥ ३२ ॥
31.3.32 · p. 376
अनुष्टुप्
प्रकाशे स्याद्विकसने विजनेऽपि मतः पुमान् ।विकोशः पटवर्त्तौ स्याद्विकाशे विकचे त्रिषु ॥ ३३ ॥
31.3.33 · p. 376
अनुष्टुप्
विपाशा तु नदीभेद त्रिषु पाशसमुद्गते ।विवशो विह्वलेऽपि स्यादवश्यात्मनि च त्रिषु ॥ ३४ ॥
31.3.34 · p. 376
अनुष्टुप्
सङ्काशः सन्निधौ तुल्ये सदृशं तूचिते समे ।सदेशः सन्निधौ देशे सदेशो देशवत्यपि ॥ ३५ ॥
31.3.35 · p. 376
अनुष्टुप्
हताशो वाच्यवत्क्रूरे निेर्द्दये निर्वाञ्छिते ।
31.3.18 · p. 376
impossible sign sequence: त्क्रूरे निेर्द्दय