कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

तान्तवर्गः · तचतुर्थम्

तचतुर्थम् ।

अङ्गारितं तु दग्धे स्यात्पलाशकलिकोद्गमे ॥ १९० ॥
17.4.190 · p. 151
अतिमुक्तस्तु वासन्त्यां तिनिशे निष्कले त्रिषु ।अत्याहितं तु जीवनापेक्षकृत्ये महाभये ॥ १९१ ॥
17.4.191 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 व (wrong syllable)
अधिक्षिप्तः पराभूते त्रिषु प्रणिहितेऽपि च ।स्यात्पुरातनवस्त्रेऽपि नववस्त्रेप्यनाहतम् ॥ १९२ ॥
17.4.192 · p. 151
अनुष्टुप्
अनुमतिस्त्वपूर्णे तु पूर्णिमानुज्ञयोः स्त्रियाम् ।मतमन्तर्गतं मध्ये त्रिषु प्राप्ते च विस्मृते ॥ १९३ ॥
17.4.193 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
भवेदपचितो न्यूने पूजितेप्यभिधेयवत् ।स्त्रियामपचितिः पूजानिष्कृतिक्षयहानिषु ॥ १९४ ॥
17.4.194 · p. 152
अनुष्टुप्
अपावृतस्तु पिहिते स्वतन्त्रे स्यादपावृतः ।अभिजातस्त्रिषु न्याय्ये कुलीनप्राप्तरूपयोः ॥ १९५ ॥
17.4.195 · p. 152
अनुष्टुप्
अभियुक्तस्त्रिषु द्वेषिसंरुद्धेऽप्यतितत्परे ।अभिनीतो भवेन्न्याय्यसंस्कृतामर्षिषु त्रिषु ॥ १९६ ॥
17.4.196 · p. 152
अनुष्टुप्
अभिशस्तिस्तु लोकापवादे याच्ञाभिशापयोः ।उदितेऽभ्युदितो यस्मिन्सुप्तेऽर्कः समुदेति च ॥ १९७ ॥
17.4.197 · p. 152
अनुष्टुप्
पुमानर्थपतिर्भूपे ईश्वरे किन्नरे त्रिषु ।ज्ञाते मूढोऽप्यवसितं क्लीबं गत्यवसानयोः ॥ १९८ ॥
17.4.198 · p. 152
अनुष्टुप्
क्लीबमाच्छुरितं हास्ये शब्दान्वितनखार्पणे ।आयुष्मान् योगभेदे ना चिरजीविनि वाच्यवत् ॥ १९९ ॥
17.4.199 · p. 152
अनुष्टुप्
उज्जृम्भितं तु चेष्टायामुत्फुल्ले त्वभिधेयवत् ।उदास्थितश्चरेध्यक्षे प्रणिधौ द्वारपालके ॥ २०० ॥
17.4.200 · p. 153
अनुष्टुप्
उद्ग्राहितमुपन्यस्ते बद्धग्राहितयोरपि ।उपाकृतो यज्ञहते पशावुपहते त्रिषु ॥ २०१ ॥
17.4.201 · p. 153
अनुष्टुप्
भवेदुपचितं दिग्धे समृद्धे च समाहिते ।उपाहितोऽनलोत्पाते पुमानारोपिते त्रिषु ॥ २०२ ॥
17.4.202 · p. 153
अनुष्टुप्
राहौ सोपप्लवे चोपरक्तः स्याद्व्यसनान्तरे ।उपसत्तिस्तु सेवायां सङ्गेऽपि प्रतिपादने ॥ २०३ ॥
17.4.203 · p. 153
अनुष्टुप्
मतमुल्लिखितं तु स्यात्त्रिषूत्कीर्णं तनूकृते ।ऋष्यप्रोक्ता शतावर्यां शूकशिंब्यां बलाभिदि ॥ २०४ ॥
17.4.204 · p. 153
अनुष्टुप्
ऐरावतोऽभ्रमातङ्गे नारङ्गे लकुचद्रुमे ।ऐरावतं मतं दीर्घसरलेन्द्रशरासने ॥ २०५ ॥
17.4.205 · p. 153
अनुष्टुप्
स्त्रियामैरावती सौदामनीसौदामनीभिदोः ।अंशुमान्भास्करे शालपर्ण्यामंशुमती स्त्रियाम् ॥ २०६ ॥
17.4.206 · p. 154
अनुष्टुप्
कलधौतं कलारावे क्लीबं कनकरूप्ययोः ।कुमुद्वती कुमुदिन्यां कुशपत्न्यां कुमुद्वती ॥ २०७ ॥
17.4.207 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 मु (wrong syllable)
कुमुद्वान्कुमुदप्रायदेशे स्यादभिधेयवत् ।क्लीबं कुहरितं ध्वाने पिकालापे रतस्वने ॥ २०८ ॥
17.4.208 · p. 154
अनुष्टुप्
कृष्णवृन्ता पाटलायां माषपर्ण्यामपि स्मृता ॥ २०९ ॥
17.4.209 · p. 154
मता गन्धवती मद्ये मेदिन्यां च पुरीभिदि ।अपि योजनगन्धायां गरुत्मांस्तार्क्ष्यपक्षिणोः ॥ २१० ॥
17.4.210 · p. 154
अनुष्टुप्
गृहस्थसत्रिणोरर्थाऽऽधाने गृहपतिः पुमान् ।चक्राहुतिर्द्दीर्घबाहुभ्रमे पूर्णाहुतावपि ॥ २११ ॥
17.4.211 · p. 154
अनुष्टुप्
चन्द्रकान्तो मणेर्भेदे चन्द्रकान्तं तु कैरवे ।चर्म्मण्वती नदीभेदे कदलीचारवृक्षयोः ॥ २१२ ॥
17.4.212 · p. 154
अनुष्टुप्
आषाढपर्वतस्यान्तः कारुती नाम निम्नगा ।तस्यां मासोपवासिन्यामपि चारुव्रता स्मृता ॥ २१३ ॥
17.4.213 · p. 155
अनुष्टुप्
चित्रगुप्तो मतो दण्डधारे तस्य च लेखके ।दिवाकीर्तिस्तु चाण्डाले नापिते काकवैरिणि ॥ २१४ ॥
17.4.214 · p. 155
अनुष्टुप्
दिवाभीत उलूके स्यात्कुत्सिते कुमुदाकरे ।द्वीपवानब्धिनदयोर्द्पीपवत्यापगाभुवोः ॥ २१५ ॥
17.4.215 · p. 155
अनुष्टुप्
धूमकेतुर्बृहद्भानावुत्पातग्रहभेदयोः ।नदीकान्तो जलनिधौ सिन्धुवारेऽपि हिज्जले ॥ २१६ ॥
17.4.216 · p. 155
अनुष्टुप्
नदीकान्ता लताजम्बूकाकजङ्घासु विश्रुता ।नन्द्यावर्त्तः पुमान्वेश्मप्रभेदे तगरद्रुमे ॥ २१७ ॥
17.4.217 · p. 155
अनुष्टुप्
नागदन्तो गजरदे गृहान्निर्गतदारुणि ।नागदन्ती तु कुम्भायां श्रीहस्तिन्यां च दृश्यते ॥ २१८ ॥
17.4.218 · p. 155
अनुष्टुप्
अस्वाध्याये प्रतिक्षेपे निराकारे निराकृतिः ।त्रिषु निस्तुषितं त्यक्ते त्वचाशून्ये लघूकृते ॥ २१९ ॥
17.4.219 · p. 156
अनुष्टुप्
निष्काशितो निर्गमिते धिक्कृतेप्युज्झिते त्रिषु ।पञ्चगुप्तस्तु चार्वाकदर्शने कमठेऽपि च ॥ २२० ॥
17.4.220 · p. 156
अनुष्टुप्
गताप्तचेष्टिते ज्ञाते लाभे परिगतं मतम् ।परिघातः समाघाताऽऽयुधयोरथ हायने ॥ २२१ ॥
17.4.221 · p. 156
अनुष्टुप्
परिवर्त्तो विनिमये कूर्म्मराजे पलायने ।दन्ते सप्रसवे लाक्षारक्ते पल्लवितं त्रिषु ॥ २२२ ॥
17.4.222 · p. 156
अनुष्टुप्
पारावतः कलरवे शैले मर्कटतिन्दुके ।पारावती तु गोपालगीतेऽपि लवलीफले ॥ २२३ ॥
17.4.223 · p. 156
अनुष्टुप्
पारिजातः पारिभद्रे मन्दारेऽपि च पादपे ।पाशुपतः पशुपतिदैवते बकपुष्पके ॥ २२४ ॥
17.4.224 · p. 156
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 प (wrong syllable)
पुरस्कृतं भवेदग्नकृताभ्यर्चितयोस्त्रिषु ।शस्ते शिक्ते रिपुग्रस्ते स्वीकृतेऽपि त्रिषु स्मृतम् ॥ २२५ ॥
17.4.225 · p. 157
अनुष्टुप्
पुष्पदन्तस्तु दिग्नागनागविद्याधरान्तरे ।प्रजापतिः क्षितिपतौ विरिंच्ये च प्रजापतिः ॥ २२६ ॥
17.4.226 · p. 157
अनुष्टुप्
त्रिषु प्रणिहितं ख्यातं न्यस्ते लव्धे समाहिते ।भवेत्प्रतिहतो द्विष्टे प्रतिस्खलितरुद्धयोः ॥ २२७ ॥
17.4.227 · p. 157
अनुष्टुप्
प्रतिपच्चेतनायां स्यात्प्रतिपत्तावपि स्मृता ।प्रतिपत्तिः पदप्राप्तिः प्रतिप्राप्तिश्च गौरवे ॥ २२८ ॥
17.4.228 · p. 157
अनुष्टुप्
प्रतिपत्तिः प्रबोधेऽपि संवित्प्रागल्भयोरपि ।प्रतिकृतिः प्रतीकारे प्रतिबिम्बे च पूजने ॥ २२९ ॥
17.4.229 · p. 157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 कृ (wrong syllable)
प्रतिक्षिप्तं प्रतिहते प्रेषिते च निराकृते ।प्रधूपितस्त्रिषु क्लिष्टे सूर्यगम्यदिशि स्त्रियाम् ॥ २३० ॥
17.4.230 · p. 157
अनुष्टुप्
प्रव्रजिता तु मुण्डीरीमांस्योस्त्रिषु तपस्विनि ।भगवान्सुगते पूज्ये त्रिषु गौर्यां तु योषिति ॥ २३१ ॥
17.4.231 · p. 158
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 जि (wrong syllable)
भोगवान्नाट्यगानयोर्भोगवानहिभोगिनोः ।मता भोगवती नागपुरि नागसरित्यपि ॥ २३२ ॥
17.4.232 · p. 158
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 न (wrong syllable)
रङ्गमाता तु लाक्षायां कुट्टिन्यामपि दृश्यते ।लक्ष्मीपतिर्नृपे विष्णौ पूगीफललवङ्गयोः ॥ २३३ ॥
17.4.233 · p. 158
अनुष्टुप्
वनस्पतिर्विना पुष्पं फलिवृक्षेऽपि पादपे ।विजृम्भितं विकसितेऽप्युद्गते वेष्टिते त्रिषु ॥ २३४ ॥
17.4.234 · p. 158
अनुष्टुप्
विनिपातस्तु दैवादिव्यसने पतनेऽपि च ।विवस्वांस्तु पुमान्वासरेश्वरे त्रिदिवेश्वरे ॥ २३५ ॥
17.4.235 · p. 158
अनुष्टुप्
विवक्षितं वक्तुमिष्टे शोभनेऽपि विवक्षितम् ।वैजयन्तो ध्वजे शक्रप्रासादे शरजन्मनि ॥ २३६ ॥
17.4.236 · p. 158
अनुष्टुप्
वैजयन्ती पताकायां जयन्ती वह्निमन्थयोः ।व्यतीपातो योगभेदे महोत्पातेऽपमानने ॥ २३७ ॥
17.4.237 · p. 159
अनुष्टुप्
मतः शतधृतिः पाकशासने कमलासने ।शुभ्रदन्ती मरुद्दन्ती दन्तिनीसुंदरस्त्रियोः ॥ २३८ ॥
17.4.238 · p. 159
अनुष्टुप्
संख्यावान्पण्डिते पुंसि त्रिषु सङ्ख्यायुते मृते ।सदागतिर्गन्धवाहे निर्वाणेऽपि सदीश्वरे ॥ २३९ ॥
17.4.239 · p. 159
अनुष्टुप्
समुद्रान्ता त्वनन्तायां कार्पासीपृक्कयोरपि ।समुद्धतः समुत्कीर्णेऽप्यविनीते समुद्धतः ॥ २४० ॥
17.4.240 · p. 159
अनुष्टुप्
समाघातो वधे युद्धे समाधिस्थे समाहितः ।त्रिषु न्यस्तप्रतिज्ञातसंसिद्धे यम आत्मनि ॥ २४१ ॥
17.4.241 · p. 159
अनुष्टुप्
समाहितं समाधाने व्यसनेऽपि समाहितम् ।सरस्वान्रसिके सिन्धौ नदेऽप्यथ सरस्वती ॥ २४२ ॥
17.4.242 · p. 159
अनुष्टुप्
नदीभेदे नदीदिव्यस्त्रीगोवाग्देवतागिरि ।सुधासूतिः पुमान्यज्ञे कुरङ्गतिलकेऽपि च ॥ २४३ ॥
17.4.243 · p. 160
अनुष्टुप्
सूर्यभक्तो मतो बन्धुजीवे भास्करदैवते ।सेनापतिरनीकाधिकृते हैमवतीसुते ॥ २४४ ॥
17.4.244 · p. 160
अनुष्टुप्
हिमारातिः खले सूर्येऽनले हैमवती तु या ।गौर्या हरीतकीस्वर्णक्षीरीश्वेतवचासु सा ॥ २४५ ॥
17.4.245 · p. 160
अनुष्टुप्