कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

घान्तवर्गः · घतृतीयम्

घतृतीयम् ।

अमोघः सफलेऽमोघा ख्याता पथ्याविडङ्गयोः ।उल्लाघो नीरुजे दक्षे शुचौ हर्षयुते त्रिषु ॥ ७ ॥
4.3.7 · p. 59
अनुष्टुप्
काचिघः काञ्चने पुंसि मूषके स्वच्छमण्डपे ।निदाघ उष्णकाले स्यात्तापेऽपि खेदवारिणि ॥ ८ ॥
4.3.8 · p. 59
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
परिघो मुद्गरे योगभेदे स्वकुलघातयोः ।पलिघः काचकलशे घटप्राकारगोपुरे ॥ ९ ॥
4.3.9 · p. 59
अनुष्टुप्
प्रतिघस्तु भवेत्क्रोधे प्रतिघातेऽप्यथ त्रिषु ।महार्घः स्यान्महामूल्याऽनर्घयोर्लावके पुमान् ।सर्वौघो गुरुवेगार्थसर्वसन्नहनार्थयोः ॥ १० ॥
4.3.10 · p. 59
अनुष्टुप्