All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
चान्तवर्गः · चचतुर्थम्
चचतुर्थम् ।
काकचिञ्ची तुलावीजे वारिक्रिमिदिलीरयोः ।जलसूचिर्जलौकायां शृङ्गाटे शिशुमारके ॥ २२ ॥
6.4.22 · p. 64
अनुष्टुप्
कङ्कत्रोटौ झषे चाथ चोरे वह्नौ मलिम्लुचः ।अमावास्याद्वयं यत्र सोऽपि मासो मलिम्लुचः ॥ २३ ॥
6.4.23 · p. 64
अनुष्टुप्
चपंचमम्
चपंचमम् ।
रतनारीच-शब्दोऽयं कुक्कुरे रतिवल्लमे ।परीरम्भे समुद्भूतशीत्कारे च वरस्त्रियाः ॥ २४ ॥
6.4.24 · p. 64
अनुष्टुप्