All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
क्षान्तवर्गः · क्षद्वितीयम्
क्षद्वितीयम् ।
अक्षस्तु पाशके चक्रे शकटे च बिभीतके ॥ १ ॥
35.2.1 · p. 402
आचारे व्यवहारे च चुल्लावात्मज्ञकर्षयोः ।अक्षं स्यादिन्द्रिये क्लीबं तुत्थे सौवर्चलेऽपि च ॥ २ ॥
35.2.2 · p. 402
अनुष्टुप्
ऋक्षस्तु पुंसि भल्लूके शोणफे कृतवेधने ।ऋषिभेदेऽद्रिभेदे च तारायामृक्षमस्त्रियाम् ॥ ३ ॥
35.2.3 · p. 402
अनुष्टुप्
कक्षः सैरिभदोर्मूलकच्छे शुष्कवने तृणे ।गुल्मिन्यामपि कक्षा तु गृहे काञ्चीप्रकोष्ठयोः ॥ ४ ॥
35.2.4 · p. 402
अनुष्टुप्
परिधाने परीधाने पश्चादञ्चलपल्लवे ।स्पर्द्धोद्गारवरत्रासु गजरज्जौ रथांशके ॥ ५ ॥
35.2.5 · p. 402
अनुष्टुप्
रौक्षं गीते त्वन्यवत् स्यात्तीक्ष्णे शुचिमनोज्ञयोः ।दक्षो मुनौ हरवृषे कुक्कुटेऽग्नौ च धातरि ॥ ६ ॥
35.2.6 · p. 402
अनुष्टुप्
दक्षः स्याद्दक्षिणभुजे प्रगल्भेऽनलसे त्रिषु ।दक्षा पृथिव्यामाख्याता ध्वाङ्क्षी कक्कोलिकौषधौ ॥ ७ ॥
35.2.7 · p. 402
अनुष्टुप्
ध्वाङ्क्षस्तु वायसे कङ्के गृहे तक्षकभिक्षुके ।न्यक्षः परशुरामे स्यान्न्युक्षः कार्त्स्न्यनिकृष्टयोः ॥ ८ ॥
35.2.8 · p. 403
अनुष्टुप्
पक्षः केशात्परो वृन्दे पक्षो मासार्द्धपार्श्वयोः ।गृहभित्तौ ग्रहे भृत्ये सख्यौ राजगजे बले ॥ ९ ॥
35.2.9 · p. 403
अनुष्टुप्
साध्ये गरुति देहाङ्गे चुल्लिरन्ध्रविरोधयोः ।न्यायानुसारके प्रेक्षः प्रेक्षा नृत्येक्षणे गतौ ॥ १० ॥
35.2.10 · p. 403
अनुष्टुप्
प्लक्षस्तु पिप्पले जङ्घद्वारपार्श्वे गृहस्य च ।द्वीपभेदे गर्द्दभाण्डे भिक्षुकीतिविशेषयोः ॥ ११ ॥
35.2.11 · p. 403
अनुष्टुप्
भिक्षा भृत्यर्थनासेवास्वपि भिक्षितवस्तुनि ।मोक्षोऽपवर्गे मृतौ च मोक्षो मुष्ककपादपे ॥ १२ ॥
35.2.12 · p. 403
अनुष्टुप्
कुबेरे गुह्यके यक्षो रक्षा रक्षणलाक्षयोः ।रूक्षो वृक्षान्तरे प्रेमशून्यकर्क्कशयोस्त्रिषु ॥ १३ ॥
35.2.13 · p. 404
अनुष्टुप्
लक्षं न पुंसि सङ्ख्यायां क्लीबं छद्मशरव्ययोः ।लक्षं वितस्तौ च क्लीबं वीक्षं दृश्येऽभिधेयवत् ॥ १४ ॥
35.2.14 · p. 404
अनुष्टुप्