All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
नान्तवर्गः · नद्वितीयम्
नद्वितीयम् ।
इनः पत्यौ नृपे सूर्येऽप्युन्नं क्लिन्ने रतान्तरे ।रणोद्योगे भवेदूनमूने न्यूनाऽभिधेयवत् ॥ २ ॥
21.2.2 · p. 185
अनुष्टुप्
निश्शेषे त्रिषु कृत्स्नं स्याकृत्स्नं स्यादुदरे जले ।गानं गीतेऽपि शब्देऽपि गर्हणे तु विपूर्वकम् ॥ ३ ॥
21.2.3 · p. 185
अनुष्टुप्
घनं स्यात्कांस्यतालादिवाद्ये मध्यमताण्डवे ।घनस्तु मेघे मुस्तायां विस्तारे लोहमुद्गरे ॥ ४ ॥
21.2.4 · p. 185
अनुष्टुप्
काठिन्ये चाथ कठिने सान्द्रेऽपि च घनस्त्रिषु ।चिह्नमङ्के पताकायां ध्वजमात्रेऽपि न द्वयोः ॥ ५ ॥
21.2.5 · p. 185
अनुष्टुप्
चीनो देशांशुकव्रीहितन्तुभेदे मृगान्तरे ।रहसि च्छादिते छन्नमुत्पूर्वं छन्नमुज्ज्वले ॥ ६ ॥
21.2.6 · p. 186
अनुष्टुप्
छिन्नाऽमृतायां पुंश्चल्यां छिन्नं भिन्नेऽभिधेयवत् ।जनो लोके महर्लोकात्परे लोके च पामरे ॥ ७ ॥
21.2.7 · p. 186
अनुष्टुप्
जनी सीमन्तिनीवध्वोः स्त्रियां तु जनिरुद्भवे ।जिनस्त्वर्हति बुद्धेऽतिवृद्धजित्वरयोस्त्रिषु ॥ ८ ॥
21.2.8 · p. 186
अनुष्टुप्
ज्योत्स्ना तु चन्द्रिकायां स्यात्स्याल्लतायां विभावरौ ।ज्योत्स्नी पटोलिकायां च चन्द्रकान्वितनिश्यपि ॥ ९ ॥
21.2.9 · p. 186
अनुष्टुप्
ज्यानिर्हानौ तटिन्यां च तनुर्देहत्वचोः स्त्रियाम् ।तनुः केशेऽपि विरले स्वल्पमात्रेऽपि वाच्यवत् ॥ १० ॥
21.2.10 · p. 186
अनुष्टुप्
दानं त्यागे गजमदे छेदे शुद्धौ च रक्षपौ ।विक्रान्ते वाच्यवद्दानुर्द्दानदातरि वाच्यवत् ॥ ११ ॥
21.2.11 · p. 186
अनुष्टुप्
कातरे दुर्गते दीनो दीना मूषिकयोषिति ।द्युम्नं पराक्रमे वित्ते प्रपूर्वं पुंसि मन्मथे ॥ १२ ॥
21.2.12 · p. 187
अनुष्टुप्
धनुः पुंसि प्रियालद्रौ राशिभेदेऽपि कामुके ।धनं तु गोधने वित्ते धाना भृष्टयवे स्त्रियाम् ॥ १३ ॥
21.2.13 · p. 187
अनुष्टुप्
धान्याकेऽप्यङ्कुरेऽब्धौ तु धेनो धेनी सरित्यपि ।नग्नस्त्रिषु विवस्त्रे स्यात्पुंसि क्षपणबन्दिनोः ॥ १४ ॥
21.2.14 · p. 187
अनुष्टुप्
न्यूनमूनेऽपि गर्ह्येऽपि पानं पीतौ च रक्षणे ।वनं तु कानने नीरेऽप्युत्से वासप्रवासयोः ॥ १५ ॥
21.2.15 · p. 187
अनुष्टुप्
वस्त्रं तु वसने मूल्ये वेतनद्रव्ययोरपि ।बुध्नः शिफायामीशाने भानुः सूर्येऽपि दीधितौ ॥ १६ ॥
21.2.16 · p. 187
अनुष्टुप्
भिन्नं वाच्यवदन्यार्थे दारिते सङ्गते स्फुटम् ।मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतौ ग्रहे ॥ १७ ॥
21.2.17 · p. 187
अनुष्टुप्
मानः स्यादपि पूजायां मीनो राश्यन्तरे झषे ।मुनिर्वाचंयमे बुद्धे प्रियालाऽगस्तिकिंशुके ॥ १८ ॥
21.2.18 · p. 188
अनुष्टुप्
इङ्गुद्यामपि मृत्स्ना तु तुवरीमृत्स्नयोर्मता ।यानं बाह्यगतौ योनिर्द्वयोः स्यादाकरे भगे ॥ १९ ॥
21.2.19 · p. 188
अनुष्टुप्
रत्नं मणावपि श्रेष्ठे रत्नश्चक्षकचण्डयोः ।रास्ना तु स्याद्भुजङ्गाक्ष्यामेलापर्ण्यामपि स्मृता ॥ २० ॥
21.2.20 · p. 188
अनुष्टुप्
राशीनामुदये लग्नं लग्नं सक्तेऽपि लज्जिते ।वानं शुष्कफले शुष्कस्यूतयोस्त्रिष्वथ द्वयोः ॥ २१ ॥
21.2.21 · p. 188
अनुष्टुप्
वन्यासुरङ्गावातोर्मिसौरभेषु कटे गतौ ।विन्नं ज्ञाते स्थिते लब्धे शीनोऽजगरमूर्खयोः ॥ २२ ॥
21.2.22 · p. 188
अनुष्टुप्
पुंस्येव पत्रिणि श्येनः श्येनः श्वेतेऽभिधेयवत् ।सानुः शृङ्गे बुधेऽरण्ये वात्यायां पल्लवे पथि ॥ २३ ॥
21.2.23 · p. 188
अनुष्टुप्
सूनुः पुत्रेऽनुजे सूर्ये सूनुर्दुहितरि स्त्रियाम् ।सूनं प्रसूने प्रसवे सूनमुच्छ्वसिते त्रिषु ॥ २४ ॥
21.2.24 · p. 189
अनुष्टुप्
सूना पुत्र्यां वधस्थाने गलशुण्ड्यामपीष्यते ।स्त्यानं लोम्नि प्रतिश्रुत्यां मता स्निग्धे तु वाच्यवत् ॥ २५ ॥
21.2.25 · p. 189
अनुष्टुप्
स्थानं स्थितौ च सादृश्ये संनिवेशाऽवकाशयोः ।स्थाने स्यादव्ययं ख्यातं युक्तार्थकरणार्थयोः ॥ २६ ॥
21.2.26 · p. 189
अनुष्टुप्
स्यूनोऽर्के किरणे स्वप्नः सुप्तधीस्वापदर्शने ।हनुः कपोलावयवे मृत्यौ प्रहरणेऽस्त्रियाम् ॥ २७ ॥
21.2.27 · p. 189
अनुष्टुप्
गदे हट्टविलासिन्यां हीनं गर्ह्योनयोस्त्रिषु ।
21.2.27 · p. 189