All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
खान्तवर्गः · खतृतीयम्
खतृतीयम् ।
गोमुखं कुटिलागारे वाद्यभाण्डोपलेपयोः ॥ ८ ॥
2.3.8 · p. 44
त्रिशिखो रक्षसो भेदे क्लीबं भूषात्रिशूलयोः ।दुर्मुखो मुखरे नागराजे शाखामृगाश्वयोः ॥ ९ ॥
2.3.9 · p. 45
अनुष्टुप्
प्रमुखः प्रथमे श्रेष्ठे मयूखो ज्वालरुक्करे ।स्कन्दे तर्के विशाखः स्याद्विशाखा भे कठिल्लके ॥ १० ॥
2.3.10 · p. 45
अनुष्टुप्
विशिखस्तोमरे बाणे विशिखा खनिरथ्ययोः ।नलिकायां च विशिखा वैशाखो राघमन्ययोः ॥ ११ ॥
2.3.11 · p. 45
अनुष्टुप्
सुमुखस्तार्क्ष्यतनये पण्डिते भुजगान्तरे ॥ १२ ॥
2.3.12 · p. 45