कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

रान्तवर्गः · रैकम्

इति विश्वलोचने यान्तवर्गः ।

अथ रान्तवर्गः ।

रैकम् ।

रस्तु कामाऽनले वह्नौ तीक्ष्णे रास्त्वर्थरुक्मयोः ।रुर्ना शब्दे भये भागे रीः श्रोतरि भुवि स्त्रियाम् ॥ १ ॥
28.1.1 · p. 277
अनुष्टुप्
क्रेतरि क्रीः क्रये तु स्त्री घ्रा प्राणे घ्रातरि स्मृतः ।द्रुर्वृक्षेऽपि द्रुमेऽपि स्याद्द्रुः स्वणें कामरूपिणि ॥ २ ॥
28.1.2 · p. 277
अनुष्टुप्
श्रीर्लक्ष्मीभारतीशोभाप्रभासु सरलद्रुमे ।वेशत्रिवर्गसम्पत्तौ शेषापकरणे मतौ ॥ ३ ॥
28.1.3 · p. 277
अनुष्टुप्
स्रुः स्रवे निर्झरे चाथ ह्रीर्व्रीडे लज्जिते त्रिषु ।
28.1.4 · p. 277